#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00087 Uniform title: tattvacintāmaṇi chapters 11 thru 15 Author : pūrṇānanda Commentator : bhuvanmohan ṣaṃkhyatirtha Description: Critically edited from original manuscripts with original commentary by bhuvanmohan saṃkhyatirtha and with notes by Chintamani Bhattacharya Notes: Transcribed by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski. Revision 1: December 11, 2007 Publisher : Publication year : 1936 Publication city : Calcutta Publication country : India #################################################### एकादशः प्रकाशः (शाक्तकामराजविद्या, लोपामुद्राभेदनिरूपणम्, शाक्तपञ्चमीभेदनिरूपणञ्च) (प्रागुक्तमन्त्रदोषस्मारणम्) प्रकाशे दशमेऽमुत्र श्रीविद्याविषये किल | अभिशप्तस्य मन्त्रस्य कारणं लिखितं मया || १ || (अथाकीलितविद्यानिरूपणप्रतिज्ञा) अथातोऽकीलितां विद्यां शाक्तां परमदुर्लभाम् | ऊर्द्ध्वाम्नायमहातन्त्रे शिवेन परिकीर्तिताम् | सङ्केतेन प्रवक्ष्यामि श्रीगुरोः कृपया पराम् || २ || (शाक्तकामराजविद्या, तत्र वाग्भवकूटम्) वामाक्षी भगवर्णस्तु काममिन्द्रौ(?)महेश्वरी | (कामराजशक्तिकूटे) पूर्ववत् कामशक्त्याख्यौ वर्णौ निष्कीलितात्मकौ || ३ || __________________________________________________________ १-२ | पूर्वं दशमे प्रकाशे कमलाकरोपाख्यानेनाभिशप्तस्य शाम्भवकामराजमन्त्रस्य सिद्धिप्रतिबन्धकत्वं विशेषेणोपपाद्य प्रकाशेऽस्मिंस्तत् स्मारयति-प्रकाश इत्यादिना | सा शाम्भवकामराजविद्या कीलितत्वदोषपरिहारक्रमानुसरणमन्तरेणानाराधिता सिद्धिं प्रतिबध्नाति | वक्ष्यमाणशाक्तकामराजविद्या तु कीलितत्वादिदोषपरिहीनतया साधकैः सुतरामुपादेयेत्येवाह-अथात इत्यादिना | ३ | इदानीं तामकीलितां शाक्तकामराजविद्यामूर्द्ध्वाम्नायतन्त्रानुसारिणीमाह- वामाक्षीत्यादिना | वामाक्षी ईकारः, भगवर्ण एकारः, कामः ककारः इन्द्रो लकारः, (प्. ३२६) (अस्या निष्कीलितत्वं प्रकर्षश्च) निष्कीलिता महाविद्या शाक्ता सर्वार्थसिद्धिदा | सवीर्या मोक्षदा नित्या त्रैलोक्यवशकारिणी || ४ || (अस्या आम्नायविशेषानुगतत्वम्) पूर्वाम्नायमहाविद्या सुगोप्तव्या प्रयत्नतः || ५ | (पश्चिमाम्नायानुगतलोपामुद्रानिरूपणप्रतिज्ञा) लोपामुद्रां प्रवक्ष्यामि पश्चिमाम्नाययोजिताम् || ६ || (शाम्भवलोपामुद्रा) हसौ कामः शक्रो भुवनभयभङ्गव्यसनिनी शिवः सोमः सूर्यो मदनदहनः शक्रगिरिजे | विधुर्ब्रह्मा भूमिर्भुवनजननीबीजघटिता भजन्त्येते धन्याः परमपदविज्ञाननिपुणाः || ७ || _____________________________________________________________ महेश्वरी ह्रीं | एवञ्च ई ए क ल ह्रीमिति वाग्भवकूटमिति पर्यवस्यति | पूर्ववदिति | अत्रायमभिप्रायः पूर्वं शाम्भवकामराजविद्यायां क ए ई ल ह्रीमिति निरुक्तवाग्भवकूटसमावेशेनैव तस्याः कीलितत्वम्, अतस्तद्वाग्भवकूटपरित्यागेन यद्यपरकूटद्वयम् ई ए क ल ह्रीमित्येतन्मन्त्रोक्तवाग्भवकूटेन संयोज्येत, तदा न कीलितत्वदोषः | इममेवार्थं सूचयितुमत्र तद्विलक्षणं वाग्भवकूटमात्रमभिधाय पूर्ववत् कामशक्त्याख्यावित्यादिना ह स क ह ल ह्रीं, स क ल ह्रीमित्येतयोः कामराजशक्तिकूटयोर्ग्रहणं समुदितमन्त्रस्य निष्कीलितत्वञ्चाभिहितमिति निष्कर्षः | कूटत्रयविभागपूर्वकं समुदितो मन्त्रः प्रदर्श्यते ७ | शाम्भवीं लोपामुद्रां संहारदोषयुक्तामाह-हसावित्यादिना | हसाविति (प्. ३२७) (निरुक्तकूटत्रयस्वरूपम्) शुक्लं वाग्भवमादिबीजमुदितं शास्त्रेषु बुद्धिप्रद रक्तं कोटिसितेतरांशुसदृशं कामाधिराजं परम् | वश्यं यस्य चराचरादि जगतो योनिश्च या कीर्तिता शाक्तं गौरमनन्ततापशमनं बीजं शिवं साधकैः || ८ || (अस्याः प्रकर्षः) शिवशक्तिमयी देवी साक्षात्त्रिपुरसुन्दरी | दुर्लभा परमा विद्या संहारदोषसंयुता || शाम्भवी सा समुद्दिष्टा (शाक्तलोपामुद्रा तत्र वाग्भवकूटम्) शाक्ताञ्च कथयाम्यथ || ९ || ____________________________________________________________ हकारः, सकारश्च, कामः ककारः, शक्रो लकारः, भुवनभयभङ्गव्यसनिनी ह्रीं | एवञ्च ह स क ल ह्रीमिति वाग्भवकूटम् | शिव इति | शिवोऽकारः, सोमः सकारः, सूर्यः ककारः, मदनदहनो हकारः, शक्रो लकारः, गिरिजा ह्रीं | एवञ्च ह स क ह ल ह्रीमिति कामराजकूटम् | विधुरिति | विधुः सकारः, ब्रह्मा ककारः, भूमिर्लकारः, भुवनजनीबीजं ह्रीमिति तेन घटिता | एवञ्च स क ल ह्रीमिति शक्तिकूटम् | तथा चैतत्समुदितो मन्त्रः कूटभेदेन प्रदर्श्यते (शाम्भवी (प्रथमा) लोपामुद्रा संहारदोषयुक्ता) वाग्भवकूटम् कामराजकूटम् शक्तिकूटम् ह ह स स स क क क ल ल ह ह्रीं ह्रीं ल ह्रीं ८ | निरुक्तमन्त्रघटकवाग्भवादिकूटत्रयस्य स्वरूपमाह-शुक्लमित्यादिना | शाक्तं शक्तिकूटमित्यर्थः | ९-१० | एवं शाम्भवलोपामुद्रामभिधाय शाक्तां लोपामुद्रां पञ्चदशाक्षरीमाह (प्. ३२८) झिण्टीशोऽपि भगः कामो देवराजो महेश्वरी | (कामराजशक्तिकूटे) पूर्ववत् कामशक्त्याख्यौ वर्णौ निष्कीलितात्मकौ || १० || (सप्तदशाक्षरी शाक्तलोपामुद्रा) एषा श्रीः प्राणसंयुक्ता महात्रिपुरसुन्दरी | (अस्याः प्रकर्षः) विद्या वेद्या परा गुप्ता संहारदोषवर्जिता | संहारी पूर्वमुद्दिष्टा दानहीना न भोगदा || ११ || ______________________________________________________________ झिण्टीश इत्यादिना | झिण्टीश एकारः, भगोऽत्र ईकारः, कामः ककारः, देवराजो लकारः, महेश्वरी ह्रीं | एवञ्च ए ई क ल ह्रीमिति वागभवकूटम् | पूर्ववदिति कामराजकूटं शक्तिकूटञ्च पूर्ववत् शाम्भवलोपामुद्रावदित्यर्थः | एतत्त्रिकूटघटितमन्त्रस्य स्वरूपं रेखान्यासेन प्रदर्श्यते (पञ्चदशाक्षरी शाक्तलोपामुद्रा) वाग्भवकूटम् कामराजकूटम् शक्तिकूटम् ए ह स ई स क क क ल ल ह ह्रीं ह्रीं ल ह्रीं (सप्तदशाक्षरीयम्) वाग्भवकूटम् कामराजकूटम् शक्तिकूटम् ए ह स ई स क क क ल ल ह ह्रीं ह्रीं ल हं ह्रीं सः ११ | मन्त्रान्तरमाह एषेति | प्रागुक्ता पञ्चदशाक्षरी श्रीः श्रीविद्यैव प्राणेन हंसबीजेन हंस इति वर्णद्वयेनेत्यर्थः, संयुक्ता चेत्तदा सप्तदशाक्षरी महात्रिपुरसुन्दरी भवेदित्यर्थः | तदुक्तं तन्त्रसारे त्रिकूटान्ते हंसबीजं बिन्दुसर्गविभूषितम् | एषा श्रीः प्राणसंयुक्ता दारिद्र्यदुःखमोचनी || इति | एतन्मन्त्रस्वरूपं प्रदर्श्यते (प्. ३२९) पूर्वे यदादौ च त्रिमूर्तिका च ज्योत्स्ना यदा स्यात् परतस्तथावत् | तदा हि मन्त्रे विनियोज्य बीजं प्रवर्ततेऽर्णः क्रमशो विशेषः || १२ || इदन्तु कथितं सारं (सप्तदशाक्षरं मन्त्रान्तरम्) परञ्च कथयाम्यथ | (तत्र वाग्भवकामराजकूटयोर्विशेषः) वाग्भवे कामराजे च शक्तिराद्या भवेद् यदि || १३ || सर्वसिद्धिकरी विद्या मुक्तिदा भोगदायिनी | पूर्ववत् शक्तिकूटञ्च योजयेत् तदनन्तरम् || १४ || _____________________________________________________________ १२ | मन्त्रान्तरमाह पूर्व इति | पूर्वे प्रागुक्तकामराजविद्याया वाग्भवकूटे यदा आदौ त्रिमूर्तिका दीर्घेकारस्तथा ज्योत्स्ना एकारः स्यात्, एतेन ई ए क ल ह्रीमिति वाग्भवकूटं यदा स्यादिति बोध्यम् | तदा मन्त्रे प्रागुक्तायामीकारादिकामराजविद्यायामित्यर्थः, बीजं हंसबीजं विनियोज्य त्रिकूटान्त इति शेषः, वक्ष्यमाणमन्त्रे तथा दर्शनात् | क्रमशो विशेषाऽर्णः विशिष्टो मन्त्रो भवतीत्यर्थः | रेखापातेनायं मन्त्रः प्रदर्श्यते १३-१५ | अथ सप्तदशाक्षरं मन्त्रान्तरं वक्तुं प्रतिजानीते परञ्चेत्यादिना | अस्यापि मन्त्रस्य त्रिकूटघटितत्वेन प्रथमं वाग्भवकामराजकूटयोर्व्यवस्थामाह वाग्भव इत्यादिना | प्रागुक्तसप्तदशाक्षरमन्त्रस्यैव वाग्भवकूटे यदि शक्तिराद्या भवेत् प्रागुक्तेकाराधःस्थितमेकारं यदीकारात् पूर्वं योजयेदित्यर्थः | तथा कामराजकूटे यदि शक्तिः (प्. ३३०) त्रिकूटान्ते हंसबीजं बिन्दुसर्गसमन्वितम् | तदा सप्तदशी विद्या दुःखदारिद्रनाशिनी || १५ || (अष्टादशाक्षरी) ऐंकारं प्रथमे कूटे क्लींकारं कामराजके | सौःकारं शक्तिकूटे च विद्या अष्टादशाक्षरी || १६ || _______________________________________________________________ सकारः आद्या भवेत् हकाराधःस्थितं सकारं यदि हकारात् पूर्वं योजयेदित्यर्थः | एतेन ए ई क ल ह्रीमिति वागभवकूटम्, स ह क ह ल ह्रीमिति कामराजकूटमित्युक्तं भवति | एतत्कूटद्वयजपफलमाह-सर्वसिद्धिकरीत्यादिना | शक्तिकूटमाह-पूर्ववदिति | अस्य मन्त्रस्य शाक्तलोपामुद्रापञ्चदशाक्षरमन्त्रप्रकृतिकतया पूर्ववत् शक्तिकूटमित्यनेन स क ल ह्रीमिति शाक्तकामराजशक्तिकूटमेव बोध्यम् | तस्य शक्तिकूटस्यान्ते बिन्दुविसर्गसमन्वितं हंसबीजं हं सः इति वर्णद्वयं योजयेदित्यर्थः | अन्यथा पूर्वेणैव हंसबीजस्य लाभात् त्रिकूटान्ते इत्यादेर्वैयर्थ्यं स्यादिति ध्येयम् | रेखापातेनास्य संस्थानं प्रदर्श्यते (सप्तदशाक्षरी) वाग्भवकूटम् कामराजकूटम् शक्तिकूटम् ए स स ई ह क क क ल ल ह ह्रीं ह्रीं ल हं ह्रीं सः (अष्टादशाक्षरी) वाग्भवकूटम् कामराजकूटम् शक्तिकूटम् ऐ/ क्लीं सौः ए ह स ई स क क क ल ल ह ह्रीं ह्रीं ल ह्रीं १६ | अष्टादशाक्षरीं त्रिकुटघटितां विद्यामाह ऐ/कारमित्यादिना | हंसरूपवर्णद्वयरहितस्यैव निरुक्तमन्त्रस्य कूटत्रयाणां प्रथमे वाग्भवकूटे आदाविति शेषः ऐ/कारम्, द्वितीयकामराजकूटस्यादौ क्लींकारम्, तृतीयशक्तिकूटस्यादौ सौःकारं चेन्नियोजयेत् तेन प्रागुक्ता पञ्चदशाक्षरी विद्यैव ऐ/ क्लीं सौः इत्यक्षरत्रयवृद्ध्याष्टादशाक्षरी भवेदिति फलितार्थः | अस्याः संस्थानं प्रदर्श्यते (प्. ३३१) (विंशत्यक्षरी) सर्वान्ते हंससंयुक्ता तदा विंशाक्षरी भवेत् | (अत्र प्रामाणिकतन्त्रनिर्णयः) मन्त्रनिर्णयतन्त्रस्य मतं ज्ञात्वेति कीर्तितम् || १७ || (शाक्तवामकेशीविद्यायाः प्रशस्तिः) पूर्वाम्नाये वामकेशी या विद्या समुदाहृता | सवीर्या सिद्धिदा सा तु शाक्ता परमदुर्लभा || १८ || (विद्यायाः स्वरूपम्) प्रथमं वाग्भवं कूटं बीजभेदाद् वदाम्यथ | महेशः शक्तिकामौ च शक्रबीजं ततः पठेत् | _______________________________________________________________ १७ | विंशत्यक्षरीमाह-सर्वान्त इति | एतस्या अष्टादशाक्षरविद्यायाः सर्वान्ते शक्तिकूटान्ते इत्यर्थः | हंस इति वर्णद्वयनिवेशे विंशत्यक्षरी विद्या भवेदिति मन्त्रनिर्णयतन्त्रसम्मतः क्रमः | अस्याः संस्थानं यथा (विंशत्यक्षरी विद्या) वाग्भव-कूटम् कामराज-कूटम् शक्ति-कूटम् ऐ/ क्लीं सौः ए ह स ई स क क क ल ल ह ह्रीं ह्रीं ल हं ह्रीं सः १८ | पूर्वं दशमे प्रकाशे कन्दर्पो विष्णुयुक्तोऽधरमुखसहित इत्यादिना या शाम्भवकामराजविद्याभिहिता सैव शाम्भवी वामकेशीत्युक्तं तत्रैव वामकेशी शाम्भवी सा पूर्वाम्नायैः प्रकीर्तितेत्यादिना | सा च कीलिता सिद्धिपरिपन्थिनी | शाक्ता वामकेशी तु वीर्यवती सिद्धिदायिनी चेत्येवाह पूर्वाम्नाय इत्यादिना | १९ | तस्याः शाक्तवामकेश्याः किं स्वरूपमित्यत्राह प्रथममित्यादि | प्रथमादि- (प्. ३३२) महामाया ततः पश्चात् सकीलं वाग्भवान्वितम् || १९ || (प्रकारान्तरम्) यदीदं वाग्भवञ्चैव पुरा शक्तिश्च योजिता | तदा गुप्ततमा विद्या न शास्त्रेषु प्रकीर्तिता || २० || शिवः शक्तिस्ततो ब्रह्मा शिवः शक्रस्ततः परम् | महामाया ततः पश्चाद् ब्रह्मबीजं तदन्तिके | _____________________________________________________________ प्राप्तं वाग्भवकूटं बीजभेदाद् वदामीति सम्बन्धः | एवञ्च वाग्भवकूटभेदेनैवास्या भेदः, कामराजशक्तिकूटे तु पूर्ववदेवेति बोध्यम् | अथ वाग्भवकूटमाह महेश इत्यादिना | महेशो हकारः, शक्तिः सकारः, कामः ककारः शक्रबीजं लकारः, महामाया ह्रीं | एवञ्च ह स क ल ह्रीमिति वाग्भवकूटम् | समुदितमन्त्रस्वरूपमाह-सकीलमिति | वाग्भवान्वितमेतद् वाग्भवकूटविशिष्टं सकीलं कीलितशाम्भवकामराजं तत्कामराजकूटं तच्छक्तिकूटञ्च पठेदित्यर्थः | रेखापातेनास्य स्वरूपं प्रदर्श्यते २०-२१ | प्रकारान्तरमाह यदीत्यादिना | यदि इदं वाग्भवकूटं विलिख्य तत्र पुरा प्रथमं हकारात् पूर्वं शक्तिः सकारः योजिता स्यादिति सम्भन्धः | एवञ्च पूर्वोक्तवाग्भवे हकारात् पूर्वं सकारे योजिते स ह क ल ह्रीमिति वाग्भवकूटं भवति | अत्र कामराजकूटेऽपि विशेषमाह शिव इत्यादिना | शिवो हकारः शक्तिः सकारः, ब्रह्मा ककारः, पुनः शिवो हकारः, शक्रो लकारः, महामाया ह्रीं, तदन्तिके ब्रह्मबीजं कामबीजं क्लीं | एवञ्च ह स क ह ल ह्रीं क्लीमिति कमराजकूटम् | शक्तिकूटमाह- पूर्ववदिति | एतेन स क ल ह्रीमिति शक्तिकूटमिति स्थितम् | रेखापातेनायं मन्त्रः प्रदर्श्यते (प्. ३३३) पूर्ववत् शक्तिबीजन्तु (पश्चिमाम्नायसम्मता शाक्तलोपामुद्रा) शाक्तं शृणु वदाम्यथ || २१ || (तत्र वाग्भवकूटम्) शक्तिर्महेशः कामश्च शक्रबीजं परेश्वरी | (कामराजशक्तिकूटे) पूर्ववत् कामशक्त्याख्यौ वर्णौ निष्कीलितात्मकौ || २२ || ______________________________________________________________ (शाक्तकामराजभेदः) वाग्भव-कूटम् कामराज-कूटम् शक्ति-कूटम् स ह स ह स क क क ल ल ह ह्रीं ह्रीं ल ह्रीं क्लीं २१-२२ | शाक्तलोपामुद्रामाह शाक्तं शृण्वित्यादिना | इयमपि पूर्ववत् कूटत्रयात्मिका | तत्र प्रथमं वाग्भवकूटं निरूपयति शक्तिरित्यादिना | शक्तिः सकारः, महेशो हकारः, कामः ककारः, शक्रबीजं लकारः, परेश्वरी ह्रीं | एवञ्च स ह क ल ह्रीमिति वाग्भवकूटम् | द्वितीयं कामराजकूटं तृतीयं शक्तिकूटञ्च निरूपयति पूर्ववदित्यादिना | कामराजकूटशक्तिकूटे ह स क ह ल ह्रीं, स क ल ह्रीमित्याकारक इत्यर्थः | आगमतत्त्वविलासे तु ह स क ल ह्रीमिति कामराजकूटमित्युपदर्शितम् | (प्. ३४) एतदुपजीव्यागमनिर्णयः) इति शाक्ता महाविद्या पश्चिमाम्नाययोजिता | (एतत्कूटत्रयाधिष्ठातृदेवतानिर्णयः) वागीश्वरी ज्ञानशक्तिर्वाग्भवे मोक्षदायिनी || २३ || कामराजे कामकला महातत्त्वप्रबोधिनी | शक्तिबीजे महामाया शिवशक्तिस्वरूपिणी || २४ || एवं सा त्र्यक्षरी विद्या महात्रिपुरसुन्दरी || २५ || (प्रकारान्तरम्) वामकेश्याञ्च विद्यायां परां शक्तिं शृणुष्व च | मादनस्थे भगे बीजे त्रैलोक्ये नास्त्यतोऽधिकम् || २६ || प्रकाशाद्यापरे माया सन्धित्वादेव निश्चितम् | तदेवैकारमुद्दिष्टं नान्यदेकारमीरितम् | ब्रह्माण्डादिकटाहान्तं जगदद्यापि वर्तते || २७ || (शाक्तकामराजविद्या तत्र वाग्भवकूटम्) एतद् भगं ततो माया ब्रह्मा शक्रो हरप्रिया | (कामराजकूटम्) शिवः शक्तिर्विधिः शून्यो वज्रधृक् परमेश्वरी || २८ || (शक्तिकूटम्) हाद्यं मादनशक्रौ च महामाया ततः परम् | (अस्या भेदत्रयम्) ब्रह्मबीजं ततो दद्यात् त्रिकूटान्ते च साधकः || २९ || _______________________________________________________________ २३-२५ | पश्चिमाम्नाययोजिता पश्चिमाम्नाये प्रतिपादितेत्यर्थः | एतत्कूटत्रयाधिष्ठातृदेवताः फलनिरूपणमुखेनाह-वागीश्वरीत्यादिना | त्र्यक्षरीति त्रिकूटेत्यर्थः | २८-३० | पुनः शाक्तकामराजविद्यान्तरमाह-एतदित्यादिना | भग एकारः, माया ईकारः, ब्रह्मा ककारः, शक्रो लकारः, हरप्रिया ह्रीं | एवञ्च ए ई क ल ह्रीमिति वागभवकूटम् | अस्य वाग्भवकूटत्वं स्फुटमाह तन्त्रसारधृतश्रीक्रमे (प्. ३३५) प्रथमा सुन्दरी विद्या द्वितीया ब्रह्मसुन्दरी | शक्तिकूटे महामाया अनन्तसुन्दरी मता || ३० || ________________________________________________________________ एतद् भगं ततो माया ब्रह्मा शक्रो हरोऽग्निना | वामनेत्रेण संयुक्तो नादबिन्दुविभूषितः | एतद् वागभवमुद्दिष्टं पूर्ववत् कामशक्तिकम् || इति | कामराजकूटमाह शिव इत्यादिना | शिवो हकारः, शक्तिः सकारः, विधिः ककारः, शून्यो हकारः, वज्रधृग् लकारः, परमेश्वरी ह्रीं | एवञ्च ह स क ह ल ह्रीमिति कामराजकूटम् | शक्तिकूटमाह-हाद्यमिति | हाद्यं हकारस्याद्यं सकारः, मादनः ककारः, शक्रो लकारः, महामाया ह्रीं | एवञ्च स क ल ह्रीमिति शक्तिकूटम् | ब्रह्मबीजमिति | त्रिकूटान्ते इति पाठे ब्रह्मबीजं प्रणवं त्रिकूटान्ते निरुक्तमन्त्रघटकानां वाग्भव-कामराज-शक्तिकूटानामन्ते दद्यादित्यर्थे ए ई क ल ह्रीं ओं | ह स क ह ल ह्रीं ओं | स क ल ह्रीं ओं इति मन्त्रस्वरूपं पर्यवस्यति | परन्तु B-पुस्तकपादटीकायां त्रिकूटान्ते इत्यत्र त्रिकूटेषु इति पाठदर्शनात्, तन्त्रसारे च- ब्रह्मबीजं यदा दद्यात्त्रिकूटे परमेश्वरि इति वचने प्रणवान्तत्वनियमाभावात्, आगमतत्वविलासे ब्रह्मबीजं प्रणवः, स चाद्यकूटादौ चेत् सुन्दरी, द्वितीयकूटादौ चेद् ब्रह्मसुन्दरी, तृतीयकूटादौ चेदनन्तसुन्दरी इत्यादिना विशिष्य प्रणवादित्वप्रतिपादनात् B-पुस्तकपादटीकायां प्रणवपूर्वककूटत्रयात्मकमन्त्रोद्धारपरिपाटीदर्शनाच्च त्रिकूटान्त इत्यत्र त्रिकूटेष्विति पाठः समीचीनतया प्रतिभाति | एतन्मन्त्रविषयं विद्यात्रयमाह-प्रथमा सुन्दरी विद्येत्यादिना | अत्रेदमवधेयम्-पूर्ववचने यत् त्रिकूटे प्रणवयोगोऽभिहितः, स तु सुन्दर्यादिविद्याभेदेन न तु सर्वत्र | तथा हि प्रागुक्तत्रिकूटात्मकपञ्चदशाक्षरमन्त्रे प्रथमकूटमात्रे प्रणवयोगात् सुन्दरी विद्या भवति | प्रथमतृतीयकूटवर्जं द्वितीयकूटे प्रणवयोगाद् ब्रह्मसुन्दरी, प्रथमद्वितीयवर्जं तृतीयकूटे तद्योगादनन्तसुन्दरीति | एवञ्च पञ्चदशाक्षरमन्त्रस्य एकैकप्रणवयोगेन षोडशाक्षरत्वमुपपद्यते | एतदभिप्रायेणैव एषा तु षोडशी विद्येत्याद्युक्तम् | एतन्मन्त्रत्रयं सुखबोधाय रेखापातेन स्फुटं प्रदर्श्यते (अष्टादशाक्षरी सुन्दरी (षोडशी)) वाग्भव-कूटम् कामराज-कूटम् शक्ति-कूटम् ओं ह स ए स क ई क ल क ह ह्रीं ल ल ह्रीं ह्रीं (प्. ३३६) एषा तु षोडशी विद्या व्यक्तिभेदेन दर्शिता | (अस्याः प्रकर्षः) विद्या वेद्या परा गुप्ता संहाररूपवर्जिता || ३१ || (मन्त्रान्तरम्) एषा श्रीः प्राणसंयुक्ता दुःखदारिद्रनाशिनी || ३२ || (मन्त्रान्तरम्) अथ वक्ष्यामि तां विद्यां कामराजमनोहराम् | (वाग्भवकूटम्) शिवबीजं शक्तिसोमं मादनञ्च पुरन्दरम् || ३३ || ______________________________________________________________ (ब्रह्मसुन्दरी (षोडशी)) वाग्भवकूटम् कामराजकूटम् शक्तिकूटम् ए ओं स ई ह क क स ल ल क ह्रीं ह्रीं ह ल ह्रीं (अनन्तसुन्दरी (षोडशी)) वाग्भवकूटम् कामराजकूटम् शक्तिकूटम् ए ह ओं ई स स क क क ल ह ल ह्रीं ल ह्रीं ह्रीं (कामराजविद्या) वाग्भवकूटम् कामराजकूटम् शक्तिकूटम् ए ह स ई स क क क ल ल ह ह्रीं ह्रीं ल हं ह्रीं सः ३२ | मन्त्रान्तरमाह-एषेति | एषा प्रागुक्ता श्रीः सुन्दरी विद्या प्राणेन हंसः इति बीजेन संयुक्तेत्यर्थः | अत्र विशेषानभिधानेऽपि शक्तिकूटान्ते हंसबीजयोगो बोध्यः | त्रिकूटान्ते हंसबीजं बिन्दुसर्गविभूषितम् इति तन्त्रसारवचनदर्शनात् | त्रिकूटान्ते तृतीयकूटान्ते | ३३-३४ | शाक्तलोपामुद्रान्तरमाह-अथेत्यादिना महाविद्येत्यन्तेन | काम- (प्. ३३७) महामायां (कामराज-शक्तिकूटे) काम-शक्ती पूर्ववच्च समुद्धरेत् | एवमेषा महाविद्या (अथ नवाक्षरी) शृणुष्व चापरामथ || ३४ || (तत्र वाग्भवकूटम्) शिवः शक्तिर्भुवनेशि वाग्भवं बीजमुत्तमम् | (कामराजकूटम्) द्विजराजं पञ्चवक्त्रं महामाया ततः परम् || ३५ || _______________________________________________________________ राजमनोहरामिति कामराजस्य कामेश्वरस्य मनोहारिणीमित्यर्थः | शिवेति | शिवबीजं हकारः, शक्तिः सकारः, सोमः सकारः, मादनः ककारः पुरन्दरो लकारः, महामाया ह्रीं | एवञ्च ह स स क ल ह्रीमिति वाग्भवकूटम् | अपरकूटद्वयमाह-कामेति | कामशक्ती कामराजकूटं शक्तिकूटञ्चेत्यर्थः | पूर्ववदिति कामराजविद्यावत् | तन्त्रसारेऽपि पुनः शाक्तलोपामुद्रा तु इत्यभिधाय-शिवबीजं शक्तिसोमं मादनञ्च पुरन्दरम् | व्योमवह्निसमायुक्तं तुरीयस्वरबिन्दुकम् || पूर्ववत् कामराजन्तु शक्तिकूटं समुद्धरेत् || इत्यनेन कामराजविद्याद्वितीयतृतीयकूटाभ्यामेवावशिष्टकूटद्वय-निष्पत्तिरभिहिता | रेखापातेनायं मन्त्रः प्रदर्श्यते (शाक्तलोपामुद्रा) वाग्भवकूटम् कामराजकूटम् शक्तिकूटम् ह ह स स स क स क ल क ह ह्रीं ल ल ह्रीं ह्रीं ३५-३६ | अथ नवाक्षरीं विद्यामभिदधानः प्रथमं वाग्भवकूटमाह शिव इति | शिवो हकारः, शक्तिः सकारः, भुवनेशी ह्रीं | एवञ्च ह स ह्रीमिति वाग्भव- (प्. ३३८) (शक्तिकूटम्) ब्रह्मा शिवो महामाया नवार्णा परिकीर्तिता | (अस्याः पूर्वाम्नायानुगतत्वम्) रुद्रशक्तिरियं देवी पूर्वाम्नाया हि नायिका || ३६ || (दक्षिणोत्तरमध्यमाम्नायानुगतलोपामुद्राविद्यानिरूपणप्रतिज्ञा) इदानीन्तु प्रवक्ष्यामि दक्षिणोत्तरमध्यमम् || ३७ || (तत्र वाग्भवकूटम्) मादनं पञ्चवक्त्रस्तु लोहिता रुद्रयोगिनी | पुरन्दरो महामाया वाग्भवं बीजमुत्तमम् || ३८ || (कामराजशक्तिकूटे) पूर्ववत् कामशक्त्याख्या बुद्धरेत् साधकोत्तमः | ______________________________________________________________ कूटम् | कामराजकूटमाह द्विजेति | द्विजराजः सकारः, पञ्चवक्त्रो हकारः, महामाया ह्रीं | एवञ्च स ह ह्रीमिति कामराजकूटम् | शक्तिकूटमाह-ब्रह्मेति | ब्रह्मा ककारः, शिवो हकारः, महामाया ह्रीं | एवञ्च क ह ह्रीमिति शक्तिकूटम् | शिवः शक्तिर्भुवनेशी वाग्भवं बीजमुत्तमम् | कामं व्योम च देवेशि महामाया ततः परम् | कामं व्यओम महामाया नवार्णा परिकीर्तिता || इति तन्त्रसारधृतवचनानुसारेण तु क ह ह्रीमिति कामराजकूटम्, शक्तिकूटञ्चेति विशेषो दृश्यते | मन्त्रोऽयं रेखापातेन प्रदर्श्यते (रुद्रशक्तिर्नवार्णा) वाग्भवकूटम् कामराजकूटम् शक्तिकूटम् ह स क स ह ह ह्रीं ह्रीं ह्रीं ३७-३९ | एवं पूर्वाम्नायानुगतां विद्यामभिधाय क्रमेण दक्षिणोत्तरमध्यमाम्नायानुसारेण तामभिधातुं प्रतिजानीते इदानीन्त्वित्यादिना | तत्र प्रथमं दक्षिणाम्नायानुसारेण त्रिपुरां विद्यामभिदधानः प्रथमं वाग्भवकूटमाह-मादनमित्यादिना | मादनं (प्. ३३९) एतच्छाम्भवमुद्दिष्टं (शाक्तलोपामुद्रा) शाक्तञ्च कथयाम्यथ || ३९ || (तत्र वाग्भवकूटम्) भृग्वीशं गगनं हान्तं कालमिन्द्रं महेश्वरम् | वामाक्षिवह्निचन्द्राढ्यं वाग्भवं कूटमुत्तमम् || ४० || (कामराजशक्तिकूटे) कामराजं शक्तिकूटं पूर्ववच्च समुद्धरेत् | (अस्या दक्षिणाम्नायानुगतत्वम्) दक्षिणं दक्षहन्तारं सर्वदुःखविमोचनम् || ४१ || _________________________________________________________________ ककारः, पञ्चवक्त्रो हकारः, लोहिता क्षकारः, रुद्रयोगिनी मकारः, पुरन्दरो लकारः, महामाया ह्रीं | एवञ्च क ह क्ष म ल ह्रीमिति वाग्भवकूटम् | पूर्ववदिति | अस्य कामशक्त्याख्यौ कामराजकूट-शक्ति-कूटे पूर्ववत् कामराजविद्यावदित्यर्थः | तेन ह स क ह ल ह्रीमिति कामराजकूटम्, स क ल ह्रीमिति शक्तिकूटम् | रेखापातेनेयं स्फुटमुपदर्श्यते वाग्भवकूटम् कामराजकूटम् शक्तिकूटम् क ह स ह स क क्ष क ल म ह ह्रीं ल ल ह्रीं ह्रीं ३९ | इयं शाम्भवलोपामुद्रेत्येवाह-एतच्छाम्भवमुद्दिष्टमित्यनेन | ४०-४१ | शाक्तलोपामुद्रां त्रिकूटामभिदधानः प्रथमं वाग्भवकूटमाह- भृग्वीशमित्यादिना | भृग्वीशः सकारः, गगनं हकारः, हान्तः क्षकारः, कालो मकारः, इन्द्रो लकारः, महेश्वरो हकारः, स च वामाक्षिवह्निचन्द्राढ्य ईकाररकारचन्द्रबिन्दुपरिमण्डित इत्यर्थः, एतेन ह्रीमिति प्राप्तम् | एवञ्च स ह क्ष म ल ह्रीमिति वाग्भवकूटमिति (प्. ३४०) (अथ मदद्रवाविद्यानिरूपणप्रतिज्ञा) अपराञ्च प्रवक्ष्यामि सर्वकामप्रपूरिणीम् | (मदद्रवामन्त्रः) भौतिको बिन्दुसंयुक्तं क्लिन्ने च तदधः पठेत् || ४२ || मादनं शक्रसंयुक्तं मूर्तिबिन्दुसमन्वितम् | मदद्रवे चन्द्रसंस्थमोकारान्तेन कादिना || ४३ || कामबीजं ततः पश्चात् षष्ठस्वरविभूषितम् | इन्द्रं झिण्टीशसंयुक्तं वियत् सोमो ग्रहेश्वरः || ४४ || महासेनस्ततः पश्चाद् गीता दक्षिणनायिका | मदद्रवेयं कथिता शक्तिविभ्रमकारिणी || ४५ || ________________________________________________________________ पर्यवस्यति | एवं वाग्भवकूटमभिधाय कूटान्तरव्यवस्थामाह कामराजमिति | अस्य कामराजकूटं शक्तिकूटञ्च पूर्ववत् निरुक्तकामराजविद्यावत् समुद्धरेदित्यर्थः | एवञ्च ह स क ह ल ह्रीमिति कामराजकूटम् | स क ल ह्रीमिति शक्तिकूटमिति बोध्यम् | तदयं समुदितो मन्त्रः प्रदर्श्यते (षोडशी शाक्तलोपामुद्रा) वाग्भवकूटम् कामराजकूटम् शक्तिकूटम् स ह स ह स क क्ष क ल म ह ह्रीं ल ल ह्रीं ह्रीं दक्षिणमिति | दक्षिणं दक्षिणाम्नायं तदनुगतमित्यर्थः | ४२-४५ | मन्त्रान्तरमाह-भौतिक इत्यादिना | भौतिक ऐकारः, स च बिन्दुसंयुक्तस्तेन ऐ/ इति प्राप्तम् | तदधः ऐ/ इत्यनन्तरं क्लिन्ने इति पठेत् | मादनमिति | मादनः ककारः, स च शक्रेण लकारेण संयुक्तः | मूर्तिरीकारः बिन्दुरनुस्वारस्ताभ्यां समन्वितः एतेन क्लीं इति प्राप्तम् | ततो मदद्रवे इति | चन्द्रसंस्थः सकारः ओकारान्तेन औकारेण कादिना विसर्गेण च युक्त इत्यर्थः | एतेन सौः इति प्राप्तम् | (प्. ३४१) (अथोत्तराम्नायानुगतविद्यानिरूपणप्रतिज्ञा) अथाहमुत्तराम्नायं कथयामि विशेषतः || ४६ || (तत्र वाग्भवकूटम्) विष्णुरीशस्ततो हान्तः कामेशः पृथिवी ततः | भुवनेशी ततः पश्चाद् वाग्भवं बीजशाम्भवम् || ४७ || (कामराजशक्तिकूटव्यवस्था) कामराजं शक्तिकूटं पूर्ववच्च समुद्धरेत् | (एतन्मन्त्राराधनफलम्) एषा विद्या परा ज्ञेया सर्वसिद्धिप्रदायिका || ४८ || ________________________________________________________________ कामबीजमिति | कामबीजं ककारः, तच्च षष्ठस्वरेण ऊकारेण विभूषितम् | एतेन क् इति प्राप्तम् | इन्द्रमिति | इन्द्रो लकारः, स च झिण्टीशेन एकारेण संयुक्तः | तेन ले इति प्राप्तम् | वियदिति | वियत् हकारः, सोमः सकारः, ग्रहेश्वरो दिनकृदौकारः, महासेनो विसर्गः | एतेन ह्सौः इति प्राप्तम् | एवञ्च ऐ/ क्लिन्ने क्लीं मदद्रवे सौः क्ले ह्सौरिति समुदितो मन्त्रः | दक्षिणनायिकेति | दक्षिणाम्नायप्रतिपादिता शक्तिरित्यर्थः | अस्या विद्याया मदद्रवेति संज्ञेत्याह मदद्रवेयमित्यनेन | ४६-४८ | अथोत्तराम्नायप्रतिपादितविद्याप्रतिपादनमथेत्यादिना प्रतिज्ञाय प्रथमं वाग्भवकूटमाह-विष्णुरित्यादिना | विष्णुरकारः तद्युक्त ईशो हकारः | तन्त्रसारेऽप्येवमेव व्याख्यातम् | हान्तः क्षकारः, कामेशो मकारः, तन्त्रसारे विष्णुरीशस्ततो हान्तः कालेशः पृथिवी ततः | इत्यादिवचने कालेशपददर्शनात् कालेशो मकार इति तद्व्याख्यानदर्शनाच्च प्रकृते कामेशपदस्य महाकालपरतया मकारबोधकत्वमित्यवधेयम् | पृथिवी लकारः, भुवनेशी ह्रीं | एवञ्च ह क्ष म ल ह्रीमिति वाग्भवकूटमिति पर्यवस्यति | बीजशाम्भवमिति शाम्भवबीजमित्यर्थः | पूर्वनिपातशास्त्रस्य प्रायिकत्वाद् विशेषणस्य परनिपातः | अपरकूटद्वयव्यवस्थामाह कामराजमित्यादिना | कामराजं कामराजकूटमित्यर्थः | पूर्ववदिति कामराजविद्यावदित्यर्थः | तदुक्तं तन्त्रसारे कामराजं शक्तिकूटं पूर्ववत् कथितं प्रिये | एवञ्च ह स क ह ल ह्रीमिति कामराज्कूटम् | स क ल ह्रीमिति शक्तिकूटम् | तदयं त्रिकूटात्मकः समुदितो मन्त्रः (पञ्चदशाक्षरी (लोपामुद्रा)) वाग्भवकूटम् कामराजकूटम् शक्तिकूटम् ह ह स क्ष स क म क ल ल ह ह्रीं ह्रीं ल ह्रीं (प्. ३४२) (मन्त्रान्तरम्, तत्र वाग्भवकूटम्) माया शिवो नृसिंहश्च कामः शक्रः सुरेश्वरी | एतद् वाग्भवकूटन्तु (कामराजशक्तिकूटव्यवस्था) पूर्ववत् कामराजकम् | शक्तिकूटं तथा चैव विद्या परमदुर्लभा || ४९ || (अथान्यादृशषोडशीविद्यानिरूपणप्रतिज्ञा) षोडशीञ्च प्रवक्ष्यामि व्यक्तिभेदेन साम्प्रतम् | (तत्र वाग्भवकूटम्) ब्रह्मा नृसिंहः कालेशश्चन्द्रश्च भुवनेश्वरी || ५० || ________________________________________________________________ ४९ | त्रिकूटात्मकं मन्त्रान्तरमाह-मायेत्यादिना परमदुर्लभेत्यन्तेन | अत्र माया शक्तिः सकारः, शिवो हकारः, नृसिंहः क्षकारः, कामः ककारः, शक्रो लकारः, सुरेश्वरी ह्रीं | एवञ्च स ह क्ष क ल ह्रीमिति वाग्भवकूटम् | काल इति पाठे तु कालो मकारस्तेन स ह क्ष म ल ह्रीमिति वाग्भवकूटं स्यात्, तथात्वे च भृग्वीशं गगनं हान्तमित्यादिप्रागुक्तवचनप्रतिपादितषोडशाक्षरमन्त्रेण पौनरुक्त्यं प्रसज्येतेत्यतः काम इत्येव पाठो मूले निवेशित इत्यवधेयम् | कामराजवाग्भवकूटयोर्व्यवस्थामाह-पूर्ववदिति | प्रागुक्तकामराजविद्यावदित्यर्थः | तदयं समुदितो मन्त्रः (षोडशाक्षरी) वाग्भवकूटम् कामराजकूटम् शक्तिकूटम् स ह स ह स क क्ष क ल क ह ह्रीं ल ल ह्रीं ह्रीं ५०-५२ | षोडशीमन्यादृशीं विद्यां वक्तुं प्रतिजानीते - षोडशीञ्चेत्यादिना | तत्र प्रथमं वाग्भवकूटमाह-ब्रह्मेति | ब्रह्मा ककारः, नृसिंहः क्षकारः, कालेशो मकारः, चन्द्रः सकारः, भुवनेश्वरी ह्रीं | एवञ्च क क्ष म स ह्रीमिति वाग्भवकूटम् | (प्. ३४३) (कामराजकूटम्) शिवो नृसिंहकालेशौ शक्रः शिवस्ततः परम् | महामाया ततः पश्चाच् (शक्तिकूटम्) शक्तिकूटं शृणुष्व च || ५१ || चन्द्रो नृसिंहकालेशौ शक्रस्तु भुवनेश्वरी | एषा सा परमा विद्या (मन्त्रान्तरम्) पराञ्च कथयाम्यहम् || ५२ || (तत्र वाग्भवकूटम्) एतस्या वाग्भवं कूटं (कामराजकूटम्) कामराजं शृणुष्व च | महेशः क्रोधकामौ च कालेशः पृथिवी हरः || ५३ || ________________________________________________________________ शिव इति | शिवो हकारः, नृसिंहः क्षकारः, कालेशो मकारः, शक्रो लकारः, शिवो हकारः, महामाया ह्रीं | एवञ्च ह क्ष म ल ह ह्रीमिति कामराजकूटम् | शक्तिकूटमाह-शक्तिकूटं शृणुष्व चेत्यादिना | चन्द्र इति | चन्द्रः सकारः, नृसिंहः क्षकारः, कालेशो मकारः, शक्रो लकारः, भुवनेश्वरी ह्रीं | एवञ्च स क्ष म ल ह्रीमिति शक्तिकूटम् | तदेतत्कूटत्रयघटितो मन्त्रः प्रदर्श्यते (षोडशी) वाग्भवकूटम् कामराजकूटम् शक्तिकूटम् क ह स क्ष क्ष क्ष म म म स ल ल ह्रीं ह ह्रीं ह्रीं ५२-५४ | अथ सप्तदशाक्षरीमाह पराञ्चेत्यादिना | एतस्या इति | अव्यवहित (प्. ३४४) महामाया ततः पश्चात् (शक्तिकूटव्यवस्था) पूर्ववच्छक्तिकूटकम् | (अस्याः प्रकर्षः) एषा सप्तदशी विद्या चतुर्वर्गफलप्रदा || ५४ || (मन्त्रान्तरम्) प्रणवञ्च महाबीजमूर्द्ध्वाम्नायः प्रकीर्तितः | (अध-आम्नायानुगतो मन्त्रः) महामायामहाबीजमध आम्नाय ईरितः || ५५ || (अनेन मन्त्राणामाम्नायानुगतत्वम्) एवमेव प्रकारेण षडाम्नायाः प्रकीर्तिताः || ५६ || ________________________________________________________________ पूर्ववर्तिन्याः षोडश्या इत्यर्थः | एतेनात्रापि प्रागुक्तषोडशाक्षरीवत् क क्ष म स ह्रीमित्येव वाग्भवकूटमिति बोध्यम् | कामराजकूटे विशेषमाह-कामराजं शृणुष्व चेत्यादिना | महेश इति | महेशो हकारः, क्रोधः क्षकारः, कामः ककारः, कालेशो मकारः, पृथिवी लकारः, हरो हकारः, महामाया ह्रीं | एवञ्च ह क्ष क म ल ह ह्रीमिति कामराजकूटम् | शक्तिकूटव्यवस्थामाह-पूर्ववदिति | अव्यवहितपूर्वोदितषोडशीवदित्यर्थः | एवञ्च स क्ष म ल ह्रीमिति शक्तिकूटम् | अयमर्थः स्फुटं प्रदर्श्यते (सप्तदशाक्षरी) वाग्भवकूटम् कामराजकूटम् शक्तिकूटम् क ह स क्ष क्ष क्ष म क म स म ल ह्रीं ल ह्रीं ह ह्रीं ५५ | इदानीमूर्द्ध्वाध आम्नायानुगतमन्त्रनिरूपणमाह प्रणवञ्चेति | प्रणव ओंकारः, महाबीजमिति महामायाबीजं ह्रीं | एवञ्च ओं ह्रीमिति ऊर्द्ध्वाम्नायानुगतो मन्त्र इति | अध-आम्नायानुगतं मन्त्रं निरूपयति महेति | महामायामहाबीजं ह्रीं इति | एवञ्च ह्रीमित्येकाक्षरोऽध-आम्नायानुगतो मन्त्रः | ५६ | एवमिति | पूर्वं पञ्चमाम्नायानुगता मन्त्रा अभिहिताः | अत्रापि बृहच्छ्रीक्रम संवादेनोर्द्ध्वाध-आम्नायद्वयानुगतमन्त्रनिरूपणात् षडाम्नायाः प्रकीर्तिता इत्यर्थः | (प्. ३४५) (षडाम्नायज्ञानप्रशस्तिः) वेत्ति यः षट् क्रमेणापि धरण्यां साधकोत्तमः | दीर्घायुर्धनसपत्तिरैश्वयण युतः सदा || ५७ || (षडाम्नायाज्ञाननिन्दा) षडिदं यो न जानाति न जपेच्चण्डिकां पराम् | निष्फलं जीवितं तस्य स भवेत् साधकोऽधमः || ५८ || (अथ सौभाग्यामन्त्रः) अथ वक्ष्यामि सौभाग्यां जलेशां सर्वकामदाम् | (तत्र वाग्भवकूटम्) शक्तिः शम्भुः स्वयम्भुश्च शक्रस्तु भुवनेश्वरी || ५९ || (कामराजकूटम्) शिवो मादनरुद्रेन्द्रा महामाया ततः परा | (शक्तिकूटम्) कामः शिवस्तथा ब्रह्मा शक्रोऽपि भुवनेश्वरी || ६० || (अस्याः प्रकर्षः) इयन्तु परमा विद्या सुन्दरी सुभगोदया | विद्यानामुत्तमा विद्या वश्यसौभाग्यवाक्प्रदा || ६१ || ________________________________________________________________ ५७ | निरुक्तषडाम्नायज्ञानफलमाह-वेत्तीत्यादिना | दीर्घेति | दीर्घमायुर्धनं सम्पत्तिश्च यस्य सः | ५८ | निरुक्तषडाम्नायाज्ञाने दोषमाह - षडिदमिति | ५९-६१ | इदानीं सौभाग्यामन्त्रं कूटत्रयात्मकं वक्तुं प्रतिजानीते अथेति | तत्र वाग्भवकूटमाह-शक्तिरित्यादिना | शक्तिः सकारः, शम्भुर्हकारः, स्वयम्भुः (प्. ३४६) (प्रागुक्तायाः पञ्चम्याः शाम्भवत्वम्) आदौ या पञ्चमी प्रोक्ता ज्ञेया सा शाम्भवी परा | (अथ शाक्तपञ्चमीभेदनिरुपणप्रतिज्ञा) अधुना शक्तिरूपान्तु वक्ष्यामि दुर्लभां पराम् || ६२ || (वाग्भवकूटे विशेषः) सौभाग्या-वाग्भवं कूटं कामराजं त्रिकूटकम् | पूर्ववच्छक्तिकूटञ्च पञ्चमी भुवि दुर्लभा || ६३ || ________________________________________________________________ ककारः, शक्रो लकारः, भुवनेश्वरी ह्रीं | एवञ्च स ह क ल ह्रीमिति वाग्भवकूटम् | शिव इति | शिवो हकारः, मादनः ककारः, रुद्रो हकारः, इन्द्रो लकारः, महामाया ह्रीं | एवञ्च ह क ह ल ह्रीमिति कामराजकूटम् | परेति महामायाविशेषणं न तु पृथग्बीजघटकम् | काम इति | कामः ककारः, शिवो हकारः, ब्रह्मा ककारः, शक्रो लकारः, भुवनेश्वरी ह्रीं | एवञ्च क ह क ल ह्रीमिति शक्तिकूटम् | एतत्कूटत्रयसमष्टिरूपो मन्त्रो रेखापातेन प्रदर्श्यते (पञ्चदशी सौभाग्या (जलेशी)) वाग्भवकूटम् कामराजकूटम् शक्तिकूटम् स ह क ह क ह क ह क ल ल ल ह्रीं ह्रीं ह्रीं ६२ | पञ्चमी विद्या शाक्तशाम्भवभेदेन द्विविधा | तत्र दशमे शाम्भवी पञ्चमी विद्या प्रदर्शिता | अधुना शक्तिरूपा पञ्चमी प्रदर्शयिष्यत इत्येवाह-आदौ येत्यादिना | ६३ | तामेवाह-सौभाग्येत्यादिना | सौभाग्यायाः प्रथमलोपामुद्राया वाग्भवकूटं योजयेत् | निरुक्तवाग्भवकूटम् परित्यज्य तत्र ह स क ल ह्रीमिति लोपामुद्रावाग्भवकूटं योजयेदित्यर्थः | पूर्ववदिति कामराजकूटं शक्तिकूटञ्च पूर्ववत् प्रागुक्तपञ्चमीवदित्यर्थः | अत्रेदमवधेयम् दशमे पञ्चमीविद्यायां शक्तिकूटस्य भेदद्वयं प्रदर्शितम् | तन्त्रसार कृतापि श्रीक्रम-कुलोड्डीशादिप्रमाणैस्तत्र शक्तिकूटस्य भेदद्वयं श्रीतत्त्वचिन्तामण्युक्तक्रमादभिन्नरूपमुपदर्श्य, शक्तिकूटभेदभिन्नयोर्द्विविधयोः पञ्चम्योः पुनर्वाग्भवकूटभेदेन चातुर्विध्यं सुचयता पूर्ववदित्यनेन प्रथमपञ्चमीद्वयमेव लक्षितम् | एवञ्च (प्. ३४७) (अपरो विशेषः) वामनेत्रादिकूटं वा (अन्यो विशेषः) भगादिकूटमेव वा | (अस्याः प्रकर्षः) अरिहा सिद्धिदा विद्या सर्वदोषविवर्जिता || ६४ || ________________________________________________________________ प्रकृतेऽपि पूर्ववदित्यनेन शक्तिकूटभेदभिन्नप्रथमपञ्चमीद्वये निरुक्तसौभाग्या वाग्भवकूटयोजनादस्या अपि द्वैविध्यमङ्गीकर्तव्यमिति | रेखापातेनायमर्थः स्फुटमुपदर्श्यते (शाक्तपञ्चमी पूर्वतस्तृतीया) वाग्भवकूटम् कामराजकूटम् शक्तिकूटम् ह ह ह क ह स स क ह क क क ह य ल ल ल ल ल स ह्रीं ह्रीं ह्रीं ह्रीं ह्रीं (शाक्तपञ्चमी पूर्वतश्चतुर्थी) वाग्भवकूटम् कामराजकूटम् शक्तिकूटम् ह ह ह क ह स स क ह स क क ह य क ल ल ल ल ल ह्रीं ह्रीं ह्रीं ह्रीं ह्रीं ६४ | वामनेत्रमीकारस्तदादिकूटं प्रागुक्तशाक्तकामराजस्य ई ए क ल ह्रीमिति वाग्भवकूटमित्यर्थः | पूर्ववत् शक्तिकूटञ्चेत्यादेरत्रापि सम्बन्धः | प्रथमोक्तपञ्चमोर्वाग्भवकूटं परित्यज्य तत्रः निरुक्तशाक्तकामराजवाग्भवकूटयोजनात्तयोः पुनर्द्वैविध्यं तच्च रेखासमावेशेन स्फुटमुपदर्श्यते (शाक्तपञ्चमी पूर्वतः पञ्चमी) वाग्भवकूटम् कामराजकूटम् शक्तिकूटम् ई ह ह क ह ए स क ह क क क ह य ल ल ल ल ल स ह्री/ ह्री/ ह्री/ ह्री/ ह्री/ (शाक्तपञ्चमी पूर्वतः षष्ठी) वाग्भवकूटम् कामराजकूटम् शक्तिकूटम् ई ह ह क ह ए स क ह स क क ह य क ल ल ल ल ल ह्रीं ह्रीं ह्रीं ह्रीं ह्रीं (शाम्भवशाक्तपञ्चमीभेदानां षडाम्नायानुगतत्वम्) षडाम्नायप्रभेदेन पञ्चमी शक्तिशाम्भवी | (अस्य प्रामाणिकतन्त्रसंवादित्वम्) बृहच्छ्रीक्रमतन्त्रस्य मतं ज्ञात्वेति कीर्तितम् || ६५ || इति श्रीपूर्णानन्दपरमहंसविरचिते श्रीतत्त्वचिन्तामणौ एकादशः प्रकाशः || ११ || ________________________________________________________________ अपरौ भेदावाह-भगादीति | भग एकारस्तदादिकूटमित्यर्थः | तेन प्रथमपञ्चम्योर्वाग्भवकूटं परित्यज्य तत्र भगादिकूटं झिण्टीशोऽपि भगः काम इत्यादिशाक्तलोपामुद्राया ए ई क ल ह्रीमिति वाग्भवकूटं चेत् प्रयुज्येत तदा तयोः पुनर्द्वैविध्यम् | यथा (शाक्तपञ्चमी पूर्वतः सप्तमी) वाग्भवकूटम् कामराजकूटम् शक्तिकूटम् ए ह ह क ह ई स क ह क क क ह य ल ल ल ल ल स ह्री/ ह्री/ ह्री/ ह्री/ ह्री/ (शाक्तपञ्चमी पूर्वतोऽष्टमी) वाग्भवकूटम् कामराजकूटम् शक्तिकूटम् ए ह ह क ह ई स क ह स क क ह य क ल ल ल ल ल ह्री/ ह्री/ ह्री/ ह्री/ ह्री/ द्वादशः प्रकाशः (शुद्धाशुद्धसबलमन्त्रनिरूपणम्, तत्र मेरुनिर्णयः, ऋषिभिर्दैवतैश्चाराधिता मन्त्रभेदाः, दीपनी, वामकेशीविद्यास्वरूपनिरूपणञ्च) (त्रिविधमन्त्रनिरूपणप्रतिज्ञा) शुद्धाशुद्धफला मन्त्रास्तथा तूभयसंज्ञकाः | सुभगाया भवन्त्येव तदेवाथ निगद्यते || १ || (वक्ष्यमाणमन्त्राणां मेरुः) भूमिश्चन्द्रः शिवो माया शक्तिः कृष्णाध्वमादनौ | अर्द्धचन्द्रश्च बिन्दुश्च नवार्णो मेरुरुच्यते || २ || (महात्रिपुरसुन्दरीमन्त्राणां निरुक्तमेरूद्भूतत्वम्) महात्रिपुरसुन्दर्या मन्त्रा मेरुसमुद्भवाः || ३ || (पृथिव्यादीनां निरुक्तमेरुवर्णकारणकत्वम्) लकारात् पृथिवी जाता सशैलवनकानना | पञ्चाशत्पीठसम्पन्ना सर्वतीर्थमयी परा || ४ || ________________________________________________________________ १ | सुभगाया लोपामुद्रायाः | शुद्धेति | शुद्धफला अशुद्धफला उभयसंज्ञकाः शुद्धाशुद्धोभयफलाश्चेत्यर्थः | २ | अथ महात्रिपुरसुन्दरीमन्त्राणां मेरुभूतवर्णेभ्य उत्पत्तिं दिदर्शयिषुः प्रथमं मेरुवर्णान् निर्दिशति-भूमिरित्यादिना | भूमिः पृथ्वीबीजं लकारः, चन्द्रः सकारः, शिवो हकारः, माया ईकारः, शक्तिरेकारः, कृष्णाध्वा वह्नि रकारः, मादनः ककारः, अर्द्धचन्द्रबिन्दू प्रसिद्धौ | नवार्ण इति नव अर्णा लकारादयो यत्र तथाभूतो मेरुरित्यर्थः | ३ | महात्रिपुरसुन्दरीमन्त्राणां निरुक्तमेरूद्भवत्वमाह-महेत्यादिना | मेरुसमुद्भवा इति निरुक्तमेरुवर्णोत्पन्ना इत्यर्थः | ४ | अथैतन्मेरुभूतवर्णेभ्यः पृथिव्यादीनामुत्पत्तिमाह-लकारादित्यादिना | एवञ्च पृथिव्या बीजभूतत्वादेव लकारस्य पृथ्वीबीजमिति संज्ञा | एवमन्यत्रापि | (प्. ३५०) सकाराच्चन्द्रतारादिग्रहदेवस्वरूपिणी | अकाराछिवसंयोगाद् व्योममण्डलमास्थिता || ५ || ईकाराद्धि सकर्त्रीयं माया तुर्यात्मिका परा | एकाराद्वैष्णवी शक्तिर्विश्वपालनतत्परा || ६ || रेफात्तु तेजसा युक्ता परं ज्योतिःस्वरूपिणी | ककारात् कामदा कामरूपिणी स्फुरदव्यया || ७ || अर्द्धचन्द्रस्वरूपेण विश्वयोनिरितीरिता | बिन्दुना शिवरूपेण शुन्यरूपेण साक्षिणी || ८ || अनया सह सर्वत्र व्याप्तिनिश्चलतात्मना | एवं रूपं ब्रह्मरूपं मेरुणानेन जायते || ९ || एभिर्नवार्णकैर्वर्णैस्त्रिपुरा कथ्यतेऽधुना || १० || ________________________________________________________________ ८-९ | अर्द्धचन्द्रबिन्द्वोः स्वरूपमाह अर्द्धेत्यादिना | अर्द्धचन्द्रस्वरूपेण नादात्मना शक्तिर्विश्वयोनिः विश्वस्य कारणमित्यर्थः | नादादेव सृष्टेरुक्तत्वात्तस्य सृष्टिं प्रति कारणत्वमित्यर्थः | बिन्दुनेति | शून्यरूपेण शून्यात्मना शिवरूपेण बिन्दुना साक्षिणी साक्षिस्वरूपेत्यर्थः | अनयेति अनया विश्वयोन्या आत्मना बिन्दुना शिवरूपेण सर्वत्र व्याप्तिनिश्चलता व्याप्तेरविनाभावस्य निश्चलतेत्यर्थः | यत्रैवार्द्धचन्द्रस्वरूपा शक्तिस्तत्रैव बिन्दुरूपः शिव इत्यर्थः | एतेन शिवशक्त्योरभिन्नत्वमर्थादायातम् | १० | एभिरिति | एभिः प्रागुक्तैः | नवार्णकैर्वर्णैरिति | नव अर्णाः प्रागुक्तलकारादिवर्णा येषु तादृशैर्वणैर्मन्त्रघटकवर्णैरित्यर्थः | त्रिपुरा कथ्यते | अधुनेत्यनेन मन्त्रान्तरप्रकृतिभूतवक्ष्यमाणकामराजविद्याया एव निरुक्तवर्णघटितत्वम्, तेन पूर्वमभिहिते स ह क्ष म ल ह्रीमित्यादौ षोडश्यादिस्थले एतदितरवर्णघटितत्वेऽपि न दोष इति सूचितम् | (प्. ३५१) (मनुपूजिता) कामाकाशौ शक्तितुर्यभूमायाबीजमुद्धरेत् | एतद् वाग्भवमालिख्य सर्वविद्याः समुद्धरेत् || ११ || मदनानुजहः कामे मदनाग्रज उच्यते | हित्वाऽनुजं शिवं साग्रं विद्येयं मनुपूजिता || १२ || (चन्द्राराधिता) कामः सहानुजो वाचि शिवं कामानुजं विना | ________________________________________________________________ ११-१२ | प्रकाशेऽस्मिन्नितः प्रभृति तैस्तैर्दैवतैर्-ऋषिभिश्चाराधिता विद्या व्याख्येयाः | तत्र प्रथमं मन्वाराधितां त्रिकूटां विद्यामभिदधानः प्रथमं वाग्भवकूटमाह-कामेति | कामः ककारः, आकाशो हकारः, शक्तिरेकारः, तुर्यः चतुर्थस्वर ईकारः, भूर्लकारः, मायाबीजं ह्रीमिति एतानि समुद्धरेदित्यर्थः | एवञ्च क ह ए ई ल ह्रीमिति वाग्भवकूटम् | सर्वविद्याः समुद्धरेदिति | एतेनास्य वक्ष्यमाणमन्त्रेषु मेरुरूपत्वं बोध्यम् | कामराजकूटमाह-मदनेति | कामे कामराजकूटे, मदनानुजहः प्रागुक्तवाग्भवकूटस्थितो यो मदनस्य तत्कूटादिभूतककारस्य अनुजः अधःस्थितो हः हकारः स मदनाग्रजः मदनस्य अग्रजः कार्य इत्यर्थः, वागभवकूटस्य ककारान्तस्थितं हकारं ककारात् पूर्वं योजयेदित्यर्थः | एवञ्च ह क ए ई ल ह्रीमिति कामराजकूटमिति पर्यवस्यति | शक्तिकूटमाह-हित्वेति | वाग्भवकूटस्य अनुजं ककाराधःस्थं शिवं हकारं हित्वा ककारं साग्रं सः सकारः अग्रे यस्य तथाभूतं कुर्यादित्यर्थः | एवञ्च स क ए ई ल ह्रीमिति शक्तिकूटम् | इयं मनूपासिता अष्टादशाक्षरी त्रिपुरसुन्दरी | रेखापातेनैतत्कूटत्रयसमष्टिरूपो मन्त्रः प्रदर्श्यते (त्रिपुरसुन्दरी मनूपासिता) वाग्भवकूटम् कामराजकूटम् शक्तिकूटम् क ह स ह क क ए ए ए ई ई ई ल ल ल ह्रीं ह्रीं ह्रीं (प्. ३५२) सहाद्यं मदने शक्तौ सहाद्यं कानुजं विना | चन्द्राराधितविद्येयं भुक्तिमुक्तिप्रदायिनी || १३ || (कुबेराराधिता) अनुजेन विना कामो हसादिर्वाग्भवेश्वरे | ________________________________________________________________ १३ | अथ चन्द्राराधितां विद्यामाह-काम इत्यादिना | तत्र वाग्भवकूटप्रक्रिया | अत्र वाचि वाग्भवकूटे (सहानुजः) सकारहकारयोरनुजः अधःस्थितः कामः | स च कामानुजं ककारान्तस्थितं शिवं हकारं बिना योजनीय इति सम्बन्धः | अयं भावः प्रागुक्तमन्वाराधितविद्याया वाग्भवकूटस्य मेरुरूपत्वं पूर्वमभिहितम् | ततश्च तदादिभूतो यः कामः ककारः स चेत् सहानुजः सकारहकारयोरनुजः परवर्ती स्यात् तथा कामानुजं शिवं बिना, निरुक्तमेरोः ककारान्तस्थितं हकारं विना हकाररहितो भवेदित्यर्थः | तदा वाग्भवकूटम् | एवञ्च स ह क ए ई ल ह्रीमिति वाग्भवकूटमिति स्थितम् | कामराजकूटमाह-सहाद्यमिति | मदने कामराजकूटे सहाद्यं सकारहकाराद्यं तद्वाग्भवकूटं प्रयुञ्जीतेत्यर्थः | एवञ्च स ह क ह ए ई ल ह्रीमिति कामराजकूटम् | शक्तिकूटमाह शक्ताविति | शक्तौ शक्तिकूटे सहाद्यं सकार-हकाराद्यं तथा कानुजं हकारं विना | एतद्विद्या वाग्भवकूटमेव शक्तिकूटम् | एवञ्च स ह क ए ई ल ह्रीमिति शक्तिकुटमिति पर्यवस्यति | एतेनैतन्मन्त्रवाग्भवशक्तिकूटयोस्तुल्यत्वमिति ज्ञेयम् | (चन्द्राराधिता) वाग्भवकूटम् कामराजकूटम् शक्तिकूटम् स स स ह ह ह क क क ए ह ए ई ए ई ल ई ल ह्रीं ल ह्रीं ह्रीं सहाद्यं वाग्भवं देवि चन्द्राद्यं शिवमध्यगम् | मादनं कामराजे तु शक्तिबीजं सहाननम् || चन्द्राराधितविद्येयं भोगमोक्षफलप्रदा | इति तन्त्रसारधृतवचने सहाननमिति पददर्शनाद् हसाद्यमिति पादटीकाधृतः पाठः प्रामादिक इति प्रतिभाति | एतत् कूटत्रयसमष्टिरूपो मन्त्रः प्रदर्श्यते (प्. ३५३) हसादितो हसःशक्तावग्रस्थ इति दीप्यते | कुबेराराधिता विद्या भुक्तिमुक्तिफलप्रदा || १४ || (कामाराधिता) कामाराधितविद्या तु पुरैव परिकीर्तिता || १५ || (अगस्त्याराधिता प्रथमलोपामुद्रा) तथा लोपा महाविद्या सैवात्रागस्त्यपूजिता || १६ || ________________________________________________________________ १४ | अथ कुबेराराधितां विद्यामभिदधानः प्रथमं वाग्भवकूटमाह-अनुजेनेति | अत्रापि मन्वाराधितविद्यावाग्भवकूटमेव मेरुरिति स्मर्तव्यम् | वाग्भवे वाग्भवकूटे अनुजेन हकारेण विना स्वाधःस्थितहकाररहितः काम इत्यर्थः | कामं विशेषयति हसादिरिति | हसौ हकारसकारावादी यस्य तथाभूतः | एतेन प्रथमं हकारस्ततः सकारस्ततः ककारः इति प्राप्तम् | एवञ्च ह स क ए ई ल ह्रीमिति वाग्भवकूटम् | कामराजकूटव्यवस्थामाह-स्मर इत्यादिना | स्मरे कामराजकूटे | हसादित इति | अस्यादौ हकारसकारौ योज्यावित्यर्थः | अत्र ककारान्ते हकारोऽप्यस्तीति पुर्वतो विशेषः | एवञ्च ह स क ह ए ई ल ह्रीमिति कामराजकूटम् | शक्तिकूटमाह-ह स इत्यादिना | शक्तौ शक्तिकूटे हसः हकारसकारादिप्रोक्तवर्णसमूहः | ककारान्ते हकारसकारयोर्योगमाशङ्क्याह- अग्रस्थ इति | ककारात् पूर्वं ह-सौ योजयेदित्यर्थः | एतेनात्र कानुजहकारयोगो नास्तीति सूचितम् | एवञ्च ह स क ए ई ल ह्रीमिति शक्तिकूटम् | (कुबेरोपासिता) वाग्भवकूटम् कामराजकूटम् शक्तिकूटम् ह ह ह स स स क क क ए ह ए ई ए ई ल ई ल ह्रीं ल ही/ ह्रीं १५ | कामेति | अथ विद्यां प्रवक्ष्यामि कामदेवेन सेविताम् (१०, १५६) इत्यादिनेत्यर्थः | १६ | अगस्त्याराधितां लोपामुद्रामाह-तथेति | इयञ्च हसौः कामः शक्रः इत्याद्येकादशप्रकाशीयसप्तमश्लोकाभिहिता ह स क ल ह्रीं, ह स क ह ल ह्रीं, स क ल ह्रीमित्युक्तलक्षणा त्रिकूटेति ज्ञेयम् | प्रागुक्ता पञ्चदशाक्षरीयमगस्त्यपूजितेत्यर्थः | (प्. ३५४) (नन्दिपूजिता) हित्वाद्ययुगलं वाचि साद्यं कामे शिवादिकम् | शक्तिबिन्दुस्रजं हित्वा कामं तत्र विनिक्षिपेत् | शक्तावगस्त्यविद्येयं नन्द्याराधितदेवता || १७ || ________________________________________________________________ १७ | अथ नन्दिपूजितां लोपामुद्रामभिदधानः प्रथमं वाग्भवकूटमाह-हित्वेति | अत्रापि पूर्ववन्मन्वाराधितविद्यावाग्भवकूटस्याक्षरपरिवृत्त्या वाग्भवकामराजकूटद्वयसिद्धिरिति ज्ञेयम् | तथा चायमर्थः वाचि क ह ए ई ल ह्रीमिति मन्वाराधितविद्यावाग्भवकूटे आद्ययुगलं ककारहकारौ हित्वा वाग्भवकूटं साद्यं सः सकारः आद्यो यस्य तथाभूतं कुर्यादित्यर्थः | एवञ्च कूटादस्मात् क-हयोरपगमे तत्र सकारस्यागमे च स ए ई ल ह्रीमिति वाग्भवकूटमिति पर्यवस्यति | कामराजकूटमाह- काम इत्यादिना | कामे कामराजकूटे शक्तिबिन्दुस्रजं शक्तिम् एकारम्, बिन्दुस्रजं बिन्दुमालिनीम् ईकारं च हित्वा शिवादिकं कामं साद्यं कुर्यात् | एवञ्च क ह ए ई ल हीमित्यत एकादशस्वरचतुर्थस्वरयोरपगमे ककारात् पूर्वं सकारहकारयोरुपादाने च, स ह क ह ल ह्रीमिति कामराजकूटमिति पर्यवस्यति | शक्तिकूटमाह-शक्तावित्यादिना | शक्तौ शक्तिकूटे अगस्त्यविद्या | अगस्त्यशक्तिकूटमेवात्र शक्तिकूटमित्यर्थः | एवञ्च स क ल ह्रीमिति शक्तिकूटम् | तन्त्रसारेऽपि (नन्दिपूजिता लोपामुद्रा पञ्चदशाक्षरी) वाग्भवकूटम् कामराजकूटम् शक्तिकूटम् स स स ए ह क ई क ल ल ह ह्रीं ह्रीं ल ह्रीं कामराजाख्यविद्याया वाग्भवे मादनं त्यज | चन्द्रं तत्रैव संयोज्य कामराजे ततः परम् | हित्वा चन्द्रं मुखे कुर्याद् विद्येयं नन्दिपूजिता || इत्यनेनायमेव मन्त्रः प्रदर्शितः | परन्त्वत्र मन्वाराधितलोपामुद्रां, तत्र तु कामराजविद्यामुपजीव्य मन्त्रोद्धारः कृत इति विशेषः | एतत्कूटत्रयसमष्टिरूपो मन्त्रो रेखापातेन प्रदर्श्यते (प्. ३५५) (सूर्याराधिता) कामानुजत्रयं हित्वा हसाद्यं वाचि मन्मथे | सहाद्य (हसाद्य?)मन्ते सहयोर्मध्ये कः सूर्यपूजिता || १८ || (विष्णुपूजिता (षट्कूटा)) अगस्त्यकूटत्रितयं सूर्यकामं समालिखेत् | पुनस्तत्कलमध्ये सं तार्तीयं च समालिखेत् | हसाद्यं विष्णुपूज्येयं षट्कूटा परमेश्वरी || १९ || ________________________________________________________________ १८ | अथ सूर्यपूजितां विद्यामाह-कामानुजत्रयमित्यादिना | वाचि वागभवकूटे कामानुजत्र्यं हित्वा प्रागुक्तमनूपासितविद्यायाः क ह ए ई ल ह्रीमिति वाग्भवकूटात् ह ए ई इत्यक्षरत्रयं परित्यज्य तत् हसाद्यं हसौ आद्यौ यस्य तथाभूतं कुर्यादित्यर्थः | एवञ्च ह स क ल ह्रीमिति वाग्भवकूटमिति पर्यवस्यति | कामराजकूटमाह-मन्मथ इति | मन्मथे कामराजकूटे सहाद्यं कुर्यात् प्रागुक्तवाग्भवकूटमिति शेषः | एवञ्च स ह क ल ह्रीमिति कामराजकूटम् | एतेनात्र वाग्भवकामराजकूटयोस्तुल्यत्वमिति ध्येयम् | एवमेवागमचन्द्रिकायामपि | शक्तिकूटमाह-अन्त इति | अन्ते शक्तिकूटे सहयोः सकारहकारयोर्मध्ये ककारः | एवञ्च स क ह ल ह्रीमिति शक्तिकूटम् | यत्तु तन्त्रसारकृता द्वितीयलोपामुद्रामाश्रित्य क ए ई ल ह्रीमित्यादिरूपो मन्त्रोद्धरक्रमः प्रदर्शितः स चिन्त्यः स्वमतसाधकप्रमाणाभावात् | शिवो भृगुः कामधरा परा स ह कलाः परा | जीवकामेशलपराः सौरी सर्वसमृद्धिदा || इत्यागमचन्द्रिकाधृतचन्द्रपीठवचनविरोधाच्चेति ध्येयम् | अत्र हसाद्यमिति पाठः प्रामादिकः प्रतिभाति | तन्त्रसार-चन्द्रपीठादिवचनविरोधात् रेखान्यासेनैतत्- कूटत्रयसमष्टिरूपो मन्त्रः प्रदर्श्यते (सूर्याराधिता पञ्चदशाक्षरी) वाग्भवकूटम् कामराजकूटम् शक्तिकूटम् ह स स स ह क क क ह ल ल ल ह्रीं ह्रीं ह्रीं १९ | अथ विष्णुपूजितां षट्कूटां त्रिपुरामाह-अगस्त्येत्यादिना-परमेश्वरीत्यन्तेन | अगस्त्यकूटत्रितयम् अगस्त्योपासितप्रथमलोपामुद्राकूटत्रयमित्यर्थः | एतेन ह स क ल ह्रीं | ह स क ह ल ह्रीं | स क ल ह्रीमिति कूटत्रयं प्राप्तम् | सूर्येति | सूर्यकामं सूर्याराधित- (प्. ३५६) (स्कन्दाराधिता) अगस्त्याद्यं वाग्भवं स्यादेतदेव सकादिकम् | विष्णुविद्यापञ्चमञ्च स्कन्दाराधितदेवता || २० || ________________________________________________________________ विद्यायाः कामराजकूटम् स ह क ल ह्रीमिति एतच्चतुर्थकूटम् | पुनरिति पञ्चमकूटे तत्कलमध्ये तस्य सूर्याराधितकामराजकूटस्य कलमध्ये ककारलकारयोर्मध्ये सं सकारं समालिखेत्, एतेन स ह क स ल ह्रीमिति पञ्चमकूटम् | षष्ठं कूटमाह- तार्त्तीयमिति | हसाद्यं हकारसकारौ आद्यौ यस्य तथाभूतं तार्त्तीयं सूर्याराधितविद्यायाः शक्तिकूटम् समालिखेत् | एवञ्च स क ह ल ह्रीमिति शक्तिकूटस्य हकारसकारयोरादौ विनियोगे ह स क ल ह्रीमिति षष्ठं कूटमिति पर्यवस्यति | मन्त्रस्यास्य संस्थानं प्रदर्श्यते (षट्कूटा विष्णुपूजिता एकत्रिंशदक्षरी) १ २ ३ ४ ५ ६ ह ह स स स ह स स क ह ह स क क ल क क क ल ह ह्रीं ल स ल ह्रीं ल ह्रीं ल ह्रीं ह्रीं ह्रीं २० | अथ स्कन्दाराधितां त्रिकूटां त्रिपुरामभिदधानः प्रथमं वाग्भवकूटमाह अगस्याद्यमित्यादिना | अगस्त्यस्य अगस्त्याराधितप्रथमलोपामुद्राया आद्यं वाग्भवकूटमेव अत्र वाग्भवकूटं स्यादित्यर्थः | एतेन ह स क ल ह्रीमिति वाग्भवकूटम् | कामराजकूटमाह-एतदेवेति | एतदेव निरुक्तवाग्भवकूटमेव हसादित्वं परिहाय यदि सकादिकं सकारककारादिकं स्यात्तदा कामराजकूटमित्यर्थः | एतेन स क ह ल ह्रीमिति कामराजकूटम् | शक्तिकूटमाह-विष्णुविद्येति | विष्णुविद्यायाः प्रागुक्तविष्णुपूजितषट्कूटात्मकविद्यायाः पञ्चमं कूटम् | एतेन स ह क स ल ह्रीमिति शक्तिकूटम् | अत्र विशेषानुक्तावपि प्रथमस्य वाग्भवकूटत्वाभिदानादितरयोः पूर्वरीत्या कामराजशक्तिकूटत्वमभ्युपेयम् | रेखापातेन समुदितो मन्त्रः प्रदर्श्यते (स्कन्दाराधिता षोडशी) वाग्भवकूटम् कामराजकूटम् शक्तिकूटम् ह स स स क ह क ह क ल ल स ह्रीं ह्रीं ल ह्रिं (प्. ३५७) (शङ्करोपासिता) अगस्त्यस्य द्विधा विद्यां विलिख्य मनुवित्तमः | चतुर्थीं पञ्चमीं मायां त्यजेच्छिवहृदि स्थिताम् | चतुःकूटा महाविद्या शङ्करेण प्रपूजिता || २१ || (दुर्वाससाराधिता) वाग्भवस्थं चतुष्कञ्च कामबीजञ्च पञ्चमम् | शक्तिकूटं त्रिकार्णञ्च कामराजस्य संलिखेत् || २२ || ________________________________________________________________ २१ | अथ शङ्करोपासितां चतुष्कूटां विद्यामाह-अगस्त्यस्येत्यादिना | अगस्त्यस्य विद्यामगस्त्योपासितां द्वितीयां लोपामुद्रामित्यर्थः | द्विधा विलिख्य वारद्वयं लिखित्वेत्यर्थः, शिवहृदि स्थितां चतुर्थीं पञ्चमीं चतुर्थपञ्चमकूटयोः स्थितां मायां ह्रींकारद्वयं त्यजेत् | दीर्घेकारवाचिनोऽपि मायापदार्थस्यान्यत्र दर्शनात्तद्व्यावृत्त्यर्थं शिवहृदि स्थितामिति विशेषणमुपात्तमिति ध्येयम् | एवञ्च प्रथमं द्वितीयलोपामुद्राकूटत्रयं यथायथं विनियोज्य पुनर्विनियुक्तात्तत्कूटत्रयात् प्रथमद्वितीययोरन्तस्थं ह्रींकारद्वयं परित्यज्य तत्कूटत्रयमेककूटात्मकं विदधीत | एतेनास्याश्चतुष्कूटत्वसिद्धिः, अत एव चतुःकूटा महाविद्येत्युक्तम् | अत्रागस्त्यस्य द्विधा विद्यामित्यविशेषाभिधानेऽपि द्वितीयलोपामुद्राया एव ग्रहणमिति बोध्यम् | व्यक्तमाह तन्त्रसारे १ २ ३ ४ क ह स क ए ई ए स ह ल ह स ई क स क ह ल ल ह क स ह ह्रीं ल ल स क ल ह्रिं ह्रीं ह्रीं लोपामुद्रां द्वितीयान्तु विलिख्य सुरसुन्दरि | पुनर्विलिख्य तामेव चतुर्थे पञ्चमे स्थिताम् || हित्वा तु भुवनेशानीमेकोच्चारेण चोच्चरेत् | चतुष्कूटा महाविद्या शङ्करेण प्रपूजिता || इति | रेखापातेनास्याः संस्थानं प्रदर्श्यते २२-२३ | अथ दुर्वाससा पूजितां विद्यामाह-वाग्भवस्थमित्यादिना | काम- (प्. ३५८) मायास्थाने हरीवर्णयुगलञ्च समालिखेत् | दुर्वाससा पूजितेयं पुरुषार्थप्रदायिनी || २३ || (प्रागुक्तानां शुद्धत्वम्) एते द्वादश भेदाः स्युः शुद्धाः सर्वार्थसिद्धिदाः | (वक्ष्यमाणानामपि तथात्वम्) अन्येऽपि शुद्धा भेदाः स्युः कथ्यन्ते तन्त्रवर्त्मना || २४ || (अत्र मन्वाराधितविद्याया भेदराहित्यम्) भेदस्तु मनुविद्याया नास्ति सर्वागमेष्वपि || २५ || _________________________________________________________________ राजस्येति सर्वत्र सम्बध्यते | तेनायमर्थः-कामरास्य वाग्भवस्थं चतुष्कं क ए ई ल ह्रीमिति पञ्चानां मध्ये प्रथमं वर्णचतुष्कं संलिखेत् | एतेन क ए ई ल इति प्राप्तम् | कामबीजञ्चेति | ह स क ह ल ह्रीमिति षण्णां मध्ये ह स क ह ल इति वर्णपञ्चकं लिखेत् | पञ्चममिति वर्णपञ्चकमित्यर्थः | शक्तिकूटमिति | त्रिकार्णं स क ल ह्रीमिति चतुर्णां मध्ये त्रिकार्णं स क ल इति वर्णत्रयं लिखेत् | अनन्तरप्रक्रियामाह-मायेति | प्रागुक्तप्रत्येककूटान्त्यभूतमायाबीजस्थाने ह री इति वर्णयुगलं समालिखेदिति सम्बन्धः | एवञ्च प्रतिकूटान्ते हरीति वर्णद्वययोजनया क ए ई ल ह री इति वाग्भवकूटम् | स ह क ह ल ह री इति कामराजकूटम् | स क ल ह री इति शक्तिकूटमिति पर्यवस्यति | रेखापातेनायमर्थः स्फुटं प्रदर्श्यते २४ | एवं द्वादशधा शुद्धफलानां विद्यानां भेदान् प्रदर्श्य तासामेवापरानपि भेदान् वक्तुं प्रतिजानीते अन्येऽपीत्यादिना | २५ | तत्र प्रथममेव प्रागुक्तक्रमप्राप्तां मन्वाराधितविद्यामाह-भेदस्त्विति | मन्वाराधितविद्या पूर्वोपदर्शिता एकैव नतु क्वाप्यागमे तस्या भेदो दृश्यत इत्यर्थः | (प्. ३५९) (चन्द्राराधिता द्वितीया, तत्र वाग्भवकूटम्) शिवचन्द्रकशक्तीला हृल्लेखा वाग्भवं भवेत् | (कामराजशक्तिकूटे) जीवेशमदनैकारबिन्दुस्रक् पृथिवी परा | एते कामे च तार्त्तीये द्वितीया चन्द्रपूजिता || २६ || (कुबेरपूजिता) कुबेरशक्तिकूटञ्च कामकूटं समालिखेत् | शिवकामेशशक्तीलाः परा धनदपूजिता || २७ || ________________________________________________________________ २६ | क्रमप्राप्तां द्वितीयां चन्द्राराधितविद्यामभिदधानः प्रथमं वागभवकूटमाह-शिवेत्यादिना | शिवश्च चन्द्रश्च कश्च शक्तिश्च ईश्च लश्चेति द्वन्द्वः | शिवो हकारः, चन्द्रः सकारः, कः ककारः, शक्तिरेकारः, ईरीकारः, लो लकारः, हृल्लेखा ह्रीमिति | एवञ्च ह स क ए ई ल ह्रीमिति वाग्भवकूटम् | कामराजकूटं शक्तिकूटञ्च वाक्याभेदेनाह-जीवेशेत्यादिना | जीवः सकारः, ईशो हकारः, मदनः ककारः, तत एकारः, बिन्दुस्रक् बिन्दुमालिनी ईकारः, पृथिवी लकारः, परा ह्रीं | एवञ्च स ह क ए ई ल ह्रीमिति कामराजकूटं शक्तिकूटञ्च | अस्योभयकूटत्वप्रतिपादनायाह-एत इति | एते कूटे कामे कामराजकूटे तार्त्तीये शक्तिकूटे च तुल्यतया प्रयोज्ये इत्यर्थः | रेखापातेनास्याः समुदितं रूपं प्रदर्श्यते (चन्द्राराधिता द्वितीया एकविंशत्यक्षरी) वाग्भवकूटम् कामराजकूटम् शक्तिकूटम् ह स स स ह ह क क क ए ए ए ई इ ई ल ल ल ह्रीं ह्रीं ह्रीं २७ | अथ कुबेराराधितां विद्यामभिदधानः प्रथमं वाग्भवकूटमाह कुबेरशक्तिकूटञ्चेत्यादिना | पूर्वोदितकुबेराराधितविद्यायाः शक्तिकूटमेवात्र वाग्भवकूटमित्यर्थः | एवञ्च ह स क ए ई ल ह्रीमिति वाग्भवकूटम् | (प्. ३६०) (द्वितीया लोपामुद्रा द्वितीयः कामराजश्च) अपरेयं महाविद्या लोपामुद्रा प्रचक्ष्यते | अगस्त्यस्य महाविद्या कामराजः स एव हि || २८ || (द्वितीया नन्दिपूजिता) विष्ण्वन्तिमं वाचि काये सादि कामस्य मन्मथम् | स-ह-कामादि कामान्तं शक्तौ नन्दिप्रपूजिता || २९ || _________________________________________________________________ कामराजकूटमाह कामकूटं समालिखेदित्यनेन | अत्रापि पूर्वोदितकुबेराराधितविद्यायाः कामकूटमेवात्र कामराजकूटमित्यर्थः | एवञ्च ह स क ह ए ई ल ह्रीमिति कामराजकूटम् | शक्तिकूटेऽस्या विशेषमाह- शिवेत्यादिना | शिवो हकारः, कामः ककारः, ईशो हकारः, शक्तिरेकारः, ईरीकारः, लो लकारः, परा ह्रीं | एवञ्च ह क ह ए ई ल ह्रीमिति शक्तिकूटम् | रेखापातेनैतत्कूटत्रयसमष्टिरूपो मन्त्रः प्रदर्श्यते २८ | इयमपरा लोपैवागस्त्यविद्या, ए ई क ल ह्रीमित्यादि-प्रागुदितकामराज एवापरः कामराजः | अगस्त्यपूजिताया द्वितीयलोपामुद्रायाः स्वरूपन्तु ३४ श्लोक व्याख्यानावसरे प्रदर्शयिष्यते | २९ | अथ नन्दिपूजितां लोपामुद्रामाह- विष्ण्वन्तिममिति | वाचि वाग्भवकूटे विष्ण्वन्तिमं प्रागुक्तषट्कूटात्मकविष्ण्वाराधितविद्याया अन्तिमं शक्तिकूटं योजयेदित्यर्थः | एवञ्च ह स क ल ह्रीमिति प्रागुपदर्शितविष्ण्वाराधितविद्याशक्तिकूटमेवात्र वाग्भवकूटमिति बोध्यम् | कामराजकूटमाह-काम इति | कामे कामराजकूटे कामस्य प्रागुक्तकामराजविद्यायाः सादि सकारादि मन्मथं कामराजकूटं योजयेदित्यर्थः | एवञ्च ह स क ह ल ह्रीमिति कामराजविद्याकामराजकूटस्य हकाराधःस्थितं सकारं यदि हकारात् पूर्वं योजयेत् तदास्य स ह क ह ल ह्रीमित्यात्मकं कामराजकूटं भवेदिति फलितार्थः | शक्तिकूटमाह-सहेति | शक्तौ शक्तिकूटे स-ह-कामादि सकारः हकारः कामः ककारश्च आदि- (प्. ३६१) (द्वितीया सूर्यपूजिता) भेदस्तु सूर्यविद्याया अत्र नास्ति कदाचन || ३० || (द्वितीया विष्णुपूजिता) विष्णुविद्यान्तरं वक्ष्ये कूटत्रयविराजितम् | जीवेशभूपरा वाचि कामे स्याद्विष्णुपञ्चमम् | शक्तौ कामान्तिमं विद्या द्वितीया विष्णुपूजिता || ३१ || ________________________________________________________________ (द्वितीया नन्दिपूजिता) वाग्भवकूटम् कामराजकूटम् शक्तिकूटम् ह स स स ह ह क क क ल ह स ह्रीं ल क ह्रीं ल ह्रीं र्यस्य तथाभूतं कामान्तं कामराजकूटस्यान्तं शक्तिकूटं कामराजविद्याया इति शेषः, प्रयोजयेदित्यर्थः | एवञ्च स क ल ह्रीमिति प्रागुक्तकामराजविद्याशक्तिकूटस्यादौ सकार-हकार-ककारात्मकवर्णत्रयप्रयोगे स ह क स क ल ह्रीमित्यात्मकमस्य शक्तिकूटं भवेदिति फलितार्थः | रेखापातेनायं मन्त्रः प्रदर्श्यते ३० | भेद इति | पूर्वं कामानुजत्रयं हित्वेत्यादिना सूर्यपूजिता विद्याऽभिहिता तस्या अत्रापरो भेदो नास्तीत्यर्थः | ३१ | पूर्वं षट्कूटा विष्णूपासितविद्या प्रदर्शिता | अत्र तु कूटत्रयात्मिकां तामभिधत्ते विष्णुविद्यान्तरमित्यादिना | तत्र कूटत्रयमभिदधानः प्रथमं वाग्भवकूटमाह-जीवेत्यादिना | जीवः सकारः, ईशो हकारः, भूर्लकारः, परा ह्रीं | वाचि वाग्भवकूटे प्रयोज्या इत्यर्थः | एवञ्च स ह ल ह्रीमिति वाग्भवकूटम् | कामराजकूटमाह- काम इत्यादिना | विष्णुपञ्चममिति पूर्वोपदर्शित- षट्कूटात्मकविष्णूपासित-विद्यायाः पञ्चमं कूटमित्यर्थः | एतेन स ह क स ल ह्रीमिति कामराजकूटमिति पर्यवस्यति | (प्. ३६२) (द्वितीया स्कन्दाराधिता) ह-स-शक्ति-क-भू-मायाः कूटमेतांस्त्रिधा लिखेत् | वाचि कामे तथा शक्तौ स्कन्दपूज्याऽपरा भवेत् || ३२ || (द्वितीया शिवाराधिता) अगस्त्यस्य मनौ ज्ञेया परा वाचि हसान्तगा | कामे त्रयान्ते भूजीवौ त्रिकूटा शिवपूजिता || ३३ || _________________________________________________________________ (द्वितीया विष्णुपासिता) वाग्भवकूटम् कामराजकूटम् शक्तिकूटम् स स स ह ह क ल क ल ह्रीं स ह्रीं ल ह्रीं शक्तिकूटमाह-शक्तावित्यादिना | शक्तौ शक्तिकूटे कामान्तिमं कामराजविद्यायाः शक्तिकूटमित्यर्थः | एतेन स क ल ह्रीमिति शक्तिकूटमिति पर्यवस्यति | विद्येति इयं द्वितीया विष्णुपूजिता विद्येत्यर्थः | रेकहापातेनास्य संस्थानं प्रदर्श्यते ३२ | अथ द्वितीयां स्कन्दाराधितविद्यामाह-हसेत्यादिना | तत्र वाग्भवकामराजशक्तिकूटानामभेदं दर्शयति हसेत्यादिना | वाचि वाग्भवकूटे कामे कामराजकूटे शक्तौ शक्तिकूटे च हकारः, सकारः, शक्तिरेकारः, कः ककारः, भूः पृथ्वीबीजं लकारः, माया ह्रीं | कूटमिति एतन्मयमेकैककूटमित्यर्थः | एतान् त्रिधा लिखेत् कूटत्रयघटनार्थमित्यर्थः | एवञ्च ह स ए क ल ह्रीमित्येव वाग्भवकूटमपरकूटद्वयञ्चेत्युक्तं भवति | इयमपरा स्कन्दपूज्या देवता भवेदिति सम्बन्धः | समुदितोऽयं मन्त्रः प्रदर्श्यते (द्वितीया स्कन्दाराधिता अष्टादशाक्षरी) वाग्भवकूटम् कामराजकूटम् शक्तिकूटम् ह ह ह स स स ए ए ए क क क ल ल ल ह्रीं ह्रीं ह्रीं ३३ | अथ द्वितीयां शिवाराधितविद्यामभिदधानः प्रथमं वाग्भवकूटमाह अगस्त्य- (प्. ३६३) (अगस्त्यपूजिता द्वितीया लोपामुद्रा) अगस्त्यस्य महाविद्या सैवात्रागस्त्यपूजिता || ३४ || __________________________________________________________________ स्येत्यादिना | वाचि वाग्भवकूटे अगस्त्यस्य मनौ द्वितीयलोपामुद्रामन्त्रे परा माया हसान्तगा ज्ञेयेति सम्बन्धः | द्वितीयलोपामुद्राया वाग्भवकूटे लकारात् परं मायाबीजात् पूर्वञ्च हसेतिवर्णद्वयप्रयोगे एतद्वाग्भवकूटं भवतीति स्पष्टार्थः | एतेन क ए ई ल ह स ह्रीमिति वाग्भवकूटम् | कामराजकूटमाह-काम इत्यनेन | कामे कामराजकूटेऽपि प्रागुक्तरीत्या हसान्तगा परा ज्ञेया | एतेन ह स क ह ल ह स ह्रीमिति कामराजकूटम् | शक्तिकूटमाह-त्रयान्त इत्यादिना | त्रयान्ते त्रयाणां मध्ये अन्ते शक्तिकूटे इत्यर्थः भू-जीवौ भूः पृथ्वीबीजं लकारः, जीवः सकारः, एतयोर्भूजीवयोर्विनियोगस्तु निरुक्तवाग्भव-कामराजरीत्या मायाबीजात् पूर्वमेव कर्तव्यः | तेन स ह स क ल ल स ह्रीमिति शक्तिकूटमित्युक्तं भवति | एतत् कूटत्रयसमष्टिरूपो मन्त्रः प्रदर्श्यते (शिवपूजा द्वितीया त्रयोविंशत्यक्षरी) वाग्भवकूटम् कामराजकूटम् शक्तिकूटम् क ह स ए स ह ई क स ल ह क ह ल ल स ह ल ह्रीं स स ह्रीं ह्रीं ३४ | अथ द्वितीयामगस्त्योपासितामाह-अगस्त्यस्येति | इयं द्वितीया लोपामुद्रेत्यवगन्तव्यम् | अत्रेदमवधेयम्-दशमे कन्दर्पो विष्णुयुक्त इत्यादिना या शाम्भवकामराजविद्या प्रदर्शिता तस्या एव शक्तिकूटस्यादौ सहेति वर्णद्वययोगे द्वितीया लोपामुद्रा भवतीति | व्यक्तमाह तन्त्रसारे- कामराजाख्यविद्यायास्तार्तीयं सुरवन्दिते | सहाद्यंशक्तिबीजं स्याद्विद्याऽगस्त्यप्रपूजिता || इति एतेन वक्ष्यमाणो मन्त्रः पर्यवस्यति वाग्भवकूटम् कामराजकूटम् शक्तिकूटम् क ह स ए स ह ई क स ल ह क ह्रीं ल ल ह्रीं ह्रीं (प्. ३६४) एते भेदाः समाख्याताः शुद्धाः सिद्धिप्रदायकाः || ३५ || (शुद्धभेदान्तरनिरूपणप्रतिज्ञा) शुद्धभेदद्वयं वक्ष्ये भोगमोक्षफलप्रदम् || ३६ || (द्वितीया इन्द्रोपासिता) जीवेशकामभूमाया वाचि कामेऽपि संलिखेत् | इदमेव पुनः शक्तौ विद्येयं शक्रपूजिता || ३७ || (उन्मनी विद्या) कशक्तिबिन्दुशून्यक्ष्माशक्तिकूटं षडक्षरम् | वाचि कामे हकाकाशक्ष्माकाशाग्नीसमन्वितम् || ३८ || शक्तौ सकरलाकाशवह्निमत्परमेश्वरी | उन्मनी नाम विद्येयं केवलं मोक्षदायिनी || ३९ || ________________________________________________________________ ३५ | एत इति | एतेऽपि शुद्धा भेदा एवेत्यर्थः | ३७ | अथ द्वितीयामिन्द्रोपासितां विद्यामाह-जीवेशेति | वाचि वाग्भवकूटे कामे कामराजकूटेऽपि जीवः सकारः, ईशो हकारः, कामः ककारः, भूर्लकारः, माया ह्रीम् इत्येतानि बीजानि संलिखेदित्यर्थः | एवञ्च स ह क ल ह्रीमिति वाग्भवकूटं कामराजकूटञ्च | शक्तिकूटमाह-इदमेवेत्यादिना | एवञ्चास्य मन्त्रस्य कूटत्रयं तुल्यमेवेत्युक्तं भवति | मन्त्रोऽयं रेखापातेन स्फुटं प्रदर्श्यते (इन्द्रोपासिता) वाग्भवकूटम् कामराजकूटम् शक्तिकूटम् स स स ह ह ह क क क ल ल ल ह्रीं ह्रीं ह्रीं ३८-३९ | अथोन्मनीं नाम विद्यामाह-केत्यादिना | वाचि वाग्भवकूटे कः ककारः, शक्तिरेकारः, बिन्दुर्बिन्दुमालिनी ईकारः, शून्यो हकारः, क्ष्मा पृथ्वीबीजं (प्. ३६५) (शुद्धभेदनिगमनम्) एते शुद्धाः सदा जप्ताः सिद्धिदा नात्र संशयः || ४० || (अथ शुद्धाशुद्धोभयरूपाः शबला मन्त्राः) अतः परं प्रवक्ष्यामि मन्त्राः शबलसंज्ञकाः || ४१ || (वरुणपूजिता) कामराजस्य विद्याया मध्यं जीवं विनोच्चरेत् | अन्त्ये जीवः शिवस्थस्तु विद्या वरुणपूजिता || ४२ || _______________________________________________________________ लकारः शक्तिः ह्रीं | एतत्समष्टिरूपं षडक्षरं कूटं वाचि नोयोजयेदित्यर्थः | एवञ्च क ए ई ह ल ह्रीमिति वाग्भवकूटम् | शक्तिकूटमिति कादिशक्त्यन्तात्मकं षडक्षरं कूटमित्यर्थः | कामराजकूटमाह- काम इत्यादिना | कामे कामराजकूटे हः हकारः, कः ककारः, आकाशो हकारः, क्ष्मा लकारः, एतावता ह क ह ल इति प्राप्तम् | आकाशेति आकाशञ्च अग्निश्च ईश्च तैः समन्वितमर्थाद् बिन्दुनापि, बीजस्यान्यत्र तथा दृष्ट्वात् | एतेन ह्रीमिति प्राप्तम् | एवञ्च ह क ह ल ह्रीमिति कामराजकूटम् | शक्तिकूटमाह-शक्तावित्यादिना | शक्तौ शक्तिकूटे स क र लाः सकारः, ककारः, रकारः, लकारश्च | ततश्च आकाशो हकारः वह्नी रकारः ताभ्यां युक्ता परमेश्वरी ईकारः | अर्थाद् बिन्दोरपि संग्रहः | एवञ्च स क र ल ह्रीमिति शक्तिकूटम् | रेखापातेनास्य संस्थानं प्रदर्श्यते (उन्मनी विद्या) वाग्भवकूटम् कामराजकूटम् शक्तिकूटम् क ह स ए क क ई ह र ह ल ल ल ह्रीं ह्रीं ह्रीं ४० | अशुद्धभेदनिर्णयस्तु प्रकाशप्रारम्भे प्रतिज्ञातोऽपि नात्र प्रदर्शितः | ४१-४२ | पूर्वं शुद्धफला अशुद्धफलाश्च मन्त्राः प्रदर्शिताः | सम्प्रति शुद्धाशुद्धरूपत्वात् शबलत्वेन प्रसिद्धा मन्त्राः प्रदर्श्यन्ते अतः परमित्यादिना | तत्र प्रथमं वरुण- (प्. ३६६) (धर्मराजोपासिता) एतस्या एव विद्याया हित्वा बिन्दुस्रजं क्षिपेत् | तत्रैव कामं विद्येयं धर्मराजप्रपूजिता || ४३ || (अग्निपूजिता) क-स-क-क्ष्मादि-हृल्लेखा ह-स-ल-स्मर ह-क्षमा | __________________________________________________________________ पूजितामाह-कामराजस्येत्यादिना | अस्याः प्रागुक्तकामराजविद्याप्रकृतिकतया विशेषानभिधानाच्च क ए ई ल ह्रीमिति कामराजविद्यावाग्भवकूटमेवात्र वाग्भवकूटमिति ज्ञेयम् | कामराजकूटे विशेषमाह-मध्यमित्यादिना | तथा च कामराजविद्याया मध्यं कामराजकूटं जीवं सकारं विनोच्चारयेदित्यर्थः | एवञ्च ह स क ह ल ह्रीमित्यस्य सकारपरित्यागेन ह क ह ल ह्रीमिति कामराजकूटमिति पर्यवस्यति | शक्तिकूटमाह-अन्त्य इति | अन्त्ये शक्तिकूटे जीवः सकारः शिवस्थः शिवेन सह स्थितः | स क ल ह्रीमित्यत्र सकारानन्तरं हकारविनियोगात् स ह क ल ह्रीमिति शक्तिकूटमिति फलितम् | रेखान्यासेनायं मन्त्रः प्रदर्श्यते (वरुणपूजिता) वाग्भवकूटम् कामराजकूटम् शक्तिकूटम् क ह स ए क ह ई ह क ल ल ल ह्रीं ह्रीं ह्रीं ४३ | अथ धर्मराजप्रपूजितां विद्यामाह-एतस्या इत्यादिना | एतस्या एव वरुणपूजितविद्याया अर्थाद् वाग्भवकूटे बिन्दुस्रजमीकारं हित्वा तत्रैव ईकारस्थाने कामं ककारं क्षिपेत् | एवञ्च क ए ई ल ह्रीमिति वाग्भवकूटस्थाने क ए क ल ह्रीमिति वाग्भवकूटमित्येवास्याः पूर्वतो विशेष इति ध्येयम् | मन्त्रोऽयं प्रदर्श्यते (धर्मराजाराधिता) वाग्भवकूटम् कामराजकूटम् शक्तिकूटम् क ह स ए क ह क ह क ल ल ल ह्रीं ह्रीं ह्रीं ४४ | अथाग्निपूजितां विद्यामभिदधानः प्रथमं वाग्भवकूटमाह-क-स-केत्या- (प्. ३६७) हृल्लेखा मन्मथे शक्तौ स-क-लाग्निमयी परा | वह्निना पूजिता विद्या महाविघ्नौघदाहिनी || ४४ || (पन्नगराजोपासिता) अगस्त्यकूटयुगलं वह्निपूज्यान्तिकं लिखेत् | विद्या पन्नगराजेन पूजिता भुक्तिमुक्तिदा || ४५ || ________________________________________________________________ दिना हृल्लेखेत्यन्तेन | क स केति ककारः, सकारः, ककारश्च | क्ष्मादीति क्ष्मा पृथ्वीबीजं लकारस्तस्यादी रकारः, हृल्लेखा ह्रीं | एवञ्च क स क र ह्रीमिति वाग्भवकूटम् | कामराजकूटमाह-ह-स-लेत्यादिना | मन्मथ इत्यभिसम्बन्धः | मन्मथे कामराजकूटे ह स लेति हकारः सकारो लकारश्च | स्मरः ककारः, ततो हकारः, क्षमा पृथ्वीबीजं लकारः | ततो हृल्लेखा ह्रीं | एवञ्च ह स ल क ह ल ह्रीमिति कामराजकूटम् | शक्तिकूटमाह-शक्तावित्यादिना परेत्यन्तेन | सकलाग्निमयीति | सकारः ककारो लकारः अग्नि रकारस्तन्मयी परा ह्रीं | एवञ्च स क ल र ह्रीमिति शक्तिकूटम् | निरुक्तप्रमाणानुसारेणायमेव मन्त्रोभवति | रेखापातेनास्य संस्थानं प्रदर्श्यते (अग्निपूजिता) वाग्भवकूटम् कामराजकूटम् शक्तिकूटम् क ह स स स क क ल ल र क र ह्रीं ह ह्रीं ल ह्रीं ४५ | अथेदानीं पन्नगराजाराधितां विद्यामभिदधानः प्रथमं वाग्भवकामराजकूटयोर्व्यवस्थामाह-अगस्त्येत्यादिना | अगस्त्यकूटयुगलम् अगस्त्योपासित- द्वितीयलोपामुद्रायाः कूटयुगलं वाग्भवकूटं कामराजकूटञ्चेत्यर्थः | एवञ्च क ए ई ल ह्रीमिति (प्. ३६८) (वायुपूजिता) क-शक्तिवह्नियुगलं भूवह्निभुवनेश्वरी | ह-क-लाग्निहला माया सरकक्ष्माग्निमण्डिता | माया वायुप्रपूज्येयं महापापौघभञ्जिनी || ४६ || _______________________________________________________________ अगस्त्यवाग्भवकूटमेवात्र वाग्भवकूटम् | ह स क ह ल ह्रीमिति कामराजकूटमेवात्र कामराजकूटमित्यर्थः | शक्तिकूटव्यवस्थामाह-वह्नीत्यादिना | शक्तिकूटे वह्निपूज्याया अव्यवहितपूर्वोदिताया अन्तिकं शक्तिकूटं लिखेदित्यर्थः | एवञ्च स क ल र ह्रीमिति शक्तिकूटमित्युक्तं भवति | रेखान्यासेनायं मन्त्रः प्रदर्श्यते (पन्नगाराधिता) वाग्भवकूटम् कामराजकूटम् शक्तिकूटम् क ह स ए स क ई क ल ल ह र ह्रीं ल ह्रीं ह्रीं ४६ | अथ वायुपूजितां विद्यामाचक्षाणः प्रथमं वाग्भवकूटमाह-क- शक्तीत्यादिना | कः ककारः, शक्तिरेकारः, वह्नियुगलं रकारद्वयं भूर्लकारः, वह्नी रकारः, भुवनेश्वरी ह्रीं | एवञ्च क ए र र ल र ह्रीमिति वाग्भवकूटम् | कामराजकूटमाह-ह क लेत्यादिना | ह क लेति, हकारः ककारो लकारश्च | अग्नीरकारः, ततो हकारो लकारश्च माया ह्रीं | एवञ्च ह क ल र ह ल ह्रीमिति कामराजकूटम् | शक्तिकूटमाह-सरकेत्यादिना | स र क क्ष्माग्निमण्डितेति मायाविशेषणम् | सकारो रकारः ककारश्च | ततः क्ष्मा लकारः, अग्नी रकारस्तैर्मण्डिता माया ह्रीं | एवञ्च स र क ल र ह्रीमिति शक्तिकूटम् | मन्त्रोऽयं रेखापातेन प्रदर्श्यते (प्. ३६९) (चन्द्राराधिता) कशक्तिबैन्दवीवह्नि-क्ष्मा-माया हकला लरौ | माया सहकशक्राग्निमायेयं सोमपूजिता || ४७ || (ईशानाराधिता) कामाकाशौ क्षमा माया शिवकामहभूभुवा | माया कामे शक्तिकूटे सकला भुवनेश्वरी | ईशानाराधिता विद्या सर्वकामप्रपूरिणी || ४८ || __________________________________________________________________ ४७ | अथ चन्द्राराधितामाह-कशक्तीत्यादिना | तत्र क-शक्ति-बैन्दवी-वह्नि-क्ष्मामाया इत्यनेन वाग्भवकूटमुपदर्शितम् | कः ककारः, शक्तिरेकारः, बैन्दवी माया ईकारः, वह्नी रकारः, क्ष्मा पृथ्वीबीजं लकारः, माया ह्रीं | एवञ्च क ए ई र ल ह्रीमिति वाग्भवकूटम् | कामराजकूटमाह- ह-क-ला लरौ मायेत्यनेन | हकारः ककारः लकारः, पुनर्लकारः, रकारः, माया ह्रीं | एवञ्च ह क ल ल र ह्रीमिति कामराजकूटम् | शक्तिकूटमाह-सहकेत्यादिना | सकारो हकारः ककारः, शक्रो लकारः, अग्नी रकारः, माया ह्रीं | एवञ्च स ह क ल र ह्रीमिति शक्तिकूटम् | कूटभेदेनायं मन्त्रः प्रदर्श्यते (चन्द्राराधिता) वाग्भवकूटम् कामराजकूटम् शक्तिकूटम् क ह स ए क ह ई ल क र ल ल ल र र ह्रीं ह्रीं ह्रीं ४८ | अथेशानाराधितां विद्यामभिदधानः प्रथमं वाग्भवकूटमाह- कामाकाशावित्यादिना | कामः ककारः, आकाशो हकारः, क्ष्मा लकारः, माया ह्रीं | एवञ्च क ह ल ह्रीमिति वाग्भवकूटम् | कामराजकूटमाह-शिवेत्यादिना | शिवकामहभूभुवेति सहार्थे (प्. ३७०) (रतिपूजिता) कामराजस्य युग्मान्ते जीवक्ष्मामदनाः परा | रत्याराधितविद्येयं सर्वकामार्थसाधिनी || ४९ || (नारायणाराधिता षट्कूटा) कामाधिष्ठितविद्यान्ते विलोमां तां समालिखेत् | नारायणाराधितेयं षट्कूटा परमेश्वरी || ५० || _________________________________________________________________ तृतीया, तत्सहिता मायेति सम्बन्धः | कामे शिवो हकारः, कामः ककारः, हः हकारः, भूर्लकारः, ततोऽपि भूर्लकारः, तत्सहिता माया ह्रीं | एवञ्च ह क ह ल ल ह्रीमिति कामराजकूटम् | शक्तिकूटमाह-शक्तीत्यादिना | शक्तिकूटे स-क-लाः सकारः, ककारः, लकारः, ततो भुवनेश्वरी | एवञ्च स क ल ह्रीमिति शक्तिकूटम् | रेखापातेनास्य संस्थानं प्रदर्श्यते (ईशानाराधिता) वाग्भवकूटम् कामराजकूटम् शक्तिकूटम् क ह स ह क क ल ह ल ह्रीं ल ह्रीं ल ह्रीं ४९ | अथ रत्याराधितां विद्यामभिदधानः प्रागुक्तकामराजविद्यैव तद्वाग्भवकूटेऽधिकवर्णद्वययोजनाद् रत्याराधितविद्या भवतीत्येतदेवाह- कामराजस्येत्यादिना | कामराजविद्याया वाग्भवकूटे युग्मान्ते दीर्घेकारस्यान्ते जीवः सकारः क्ष्मा लकारः, मदनः ककारः, परा ह्रीमित्येतेषां योजनाद्रत्याराधितविद्या भवतीति फलितार्थः | रेखापातेनायं मन्त्रः प्रदर्श्यते (रत्याराधिता) वाग्भवकूटम् कामराजकूटम् शक्तिकूटम् क ह स ए स क ई क ल स ह ह्रीं क ल ल ह्रीं ह्रीं ५० | नारायणाराधितां विद्यामाह-कामेति कामाधिष्ठितविद्यायाः अथ विद्यां प्रवक्ष्यामि कामदेवेन सेवितामित्यादिना दशमपटलेऽभिहितायाः कामदेवसेवितशाम्भव- (प्. ३७१) (ब्रह्मपूजिता) कामाद्यं वाग्भवे कामे हकहक्ष्मापरा भवेत् | शक्तावगस्त्यवाक्कूटं विद्येयं ब्रह्मपूजिता || ५१ || __________________________________________________________________ कामराजविद्यायास्त्रिकूटाया अन्ते विलोमां तां कामराजविद्यां समालिखेत्, एवञ्च कामराजविद्यां विलिख्य पुनरादौ कामराजस्य शक्तिकूटं, ततः कामराजकूटं, ततश्च सर्वान्ते वाग्भवकूटं लिखेत् | एतेन प्रागुक्तशाम्भवकामराजे कूटत्रयानन्तरं विलोमेन तत्कूटत्रययोजनान्नारायणाराधितविद्येयं षट्कूटा भवतीति निर्गलितार्थः | रेखापातेनायं मन्त्रः प्रदर्श्यते (नारायणाराधिता षट्कूटा) प्रथम- कूटम् द्वितीय-कूटम् तृतीय-कूटम् चतुर्थ-कूटम् पञ्चम- कूटम् षष्ठ-कूटम् क ह स स ह क ए स क क स ए ई क ल ल क ई ल ह ह्रीं ह्रीं ह ल ह्रीं ल ल ह्रीं ह्रीं ह्रीं ५१ | अथ ब्रह्मपूजितां विद्यामाह कामाद्यमित्यादिना | वाग्भवे कूटे कामाद्यं वामाक्षी भगवर्णस्त्वित्यादिनैकादशपटलेऽभिहितस्याऽकीलित-कामराजस्याद्यं वाग्भवकूटमित्यर्थः | एतेन ई ए क ल ह्रीमिति वाग्भवकूटमिति पर्यवस्यति | कामराजकुटमाह काम इत्यादिना | कामे कामराजकूटे हकारः ककारः, पुनर्हकारः, क्ष्मा लकारः, परा ह्रीं | एवञ्च ह क ह ल ह्रीमिति कामराजकूटम् | शक्तिकूटमाह शक्ताविति | शक्तौ शक्तिकूटे अगस्त्यवाक्कूटम् अगस्त्योपासितद्वितीयलोपामुद्रावाग्भवकूटमेवात्र शक्तिकूटमित्यर्थः | इयं ब्रह्मणाऽराधिता | रेखापातेनास्य संस्थानं प्रदर्श्यते (ब्रह्मपूजिता) वाग्भवकूटम् कामराजकूटम् शक्तिकूटम् ई ह क ए क ए क ह ई ल ल ल ह्रीं ह्रीं ह्रीं (प्. ३७२) (बृहस्पतिपूजिता) अगस्त्यवाग्भवं वाचि ब्रह्मविद्यान्तिमद्वयम् | जीवार्चिता महाविद्या सर्वकामप्रदायिनी || ५२ || (प्रागुक्तद्वादशविद्यानां शुद्धाशुद्धशबलत्वम्) एभिर्द्वादशभिर्भेदैः शबला परमेश्वरी | शुद्धाशुद्धा महाविद्या ज्ञातव्या साधकोत्तमैः || ५३ || विद्याः संलिख्य शुद्धास्तु विपरीतास्ततो लिखेत् | ता एव हि सदा शुद्धाशुद्धभेदा भवन्ति हि || ५४ || (शुद्धादिभेदानां संख्या) यावन्तः शुद्धभेदाः स्युस्तावदन्तःक्रमादपि | तथैव शबलद्वन्द्वभेदा भद्रा भवन्ति हि || ५५ || _______________________________________________________________ ५२ | अथ बृहस्पतिपूजितां विद्यामाह अगस्त्येत्यादिना | तत्र वाग्भवकूटमाह वाचीति | वाचि वाग्भवकूटे अगस्त्यवाग्भवम् अगस्त्योपासितद्वितीयलोपामुद्राया वाग्भवकूटं प्रयोजयेत् | एवञ्च क ए ई ल ह्रीमिति वाग्भवकूटमिति स्थितम् | कामराजशक्तिकूटयोर्व्यवस्थामाह ब्रह्मेत्यादिना | ब्रह्मविद्याया अव्यवहितपूर्वोदितब्रह्मोपासितविद्याया अन्तिमद्वयं कामराजकूटं शक्तिकूटञ्चात्र तत्तत्कूटत्वेन प्रयोजयेदित्यर्थः | रेखापातेनायमर्थः स्फुटं प्रदर्श्यते ५३ | एभिरिति प्रागुक्तैः | शबलेति, शुद्धाशुद्धोभयरूपत्वादेतेषां शबलत्वम् | ५४ | एतेषां शुद्धाशुद्धोभयरूपत्वमुपपादयति विद्या इत्यादिना | शुद्धाः प्रागुक्ताः संलिख्य विपरीता अशुद्धाः प्रागुक्ता लिखेदित्यर्थः | एवञ्च शुद्धाशुद्धशबलत्वादेतेषां भेदानां शुद्धाशुद्धत्वमित्यर्थः | (प्. ३७३) (तेषां स्वरूपं गुरूपदेशवेद्यत्वञ्च) ते ज्ञानगहना ब्रह्मरूपा मोक्षप्रदायकाः | ज्ञातव्या गुरुवक्त्रेण चान्यथा शापमाप्नुयात् || ५६ || (एतेषां प्रामाणिकतन्त्रसंवादित्वम्) दक्षिणामूर्तितन्त्रस्य मतमेतत् प्रकीर्तितम् || ५७ || (अथ दीपनी तद्योगफलञ्च) श्रीमत्त्रिपुरसुन्दर्या अथ वक्ष्यामि दीपनीम् | सुप्तकीलितछिन्नादिदोषशुद्ध्यर्थमेव च || ५८ || (सुप्तत्वादिदोषस्य सिद्धिप्रतिबन्धकत्वम्) आदिमेन तु सा सुप्ता मध्यमेन तु कीलिता | अन्तिमेन तु सा छिन्ना तेन विद्या न सिध्यति || ५९ || (तद्दोषपरिहारक्रमः) अतस्तद्दोषनाशाय मतं परमदुर्लभम् | वक्ष्येऽहं श्रीक्रममन्त्रनिर्णयोक्तक्रमेण तु || ६० || (पञ्चम्या वाग्भवे दीपनीयोगः) वाङ्मायाकमलाबीजं वाग्भवस्यादि योजयेत् | (कामराजे-) प्रणवं लक्ष्मी-वाग्बीजे मन्मथं भुवनेश्वरीम् || ६१ || एवं जप्त्वा तु मन्त्रज्ञो वाग्भवाख्यान्तमुच्चरेत् | (स्वप्नावत्याम्) प्रणवं वाग्भवं बीजं रमामन्मथमायया || ६२ || _______________________________________________________________ ६१-६४ | तत्रादौ प्रथमप्राप्तायाः पञ्चम्या दीपनीमुपदर्शयन् क्रममेकमाह- वागित्यादिना | पञ्चमी पञ्चकूटात्मिका पूर्वमेव विशिष्योपदर्शिता | तस्याः (प्. ३७४) स्वप्नावत्या महाकूटं प्रजपेच्च समाहितः | (मधुमत्याम्) मन्मथं त्वधरं कामं रमाञ्च भुवनेश्वरीम् || ६३ || मधुमतीं ततो जप्त्वा (शक्तिकूटे-) मायां श्रीं वर्मबीजकम् | फट्कारप्रणवाद्यं तं शिवशक्तिपुटीकृतम् | एतद्बीजं समुच्चार्य शक्तिकूटं ततो जपेत् || ६४ || ________________________________________________________________ प्रथमं वाग्भवकूटमधिकृत्य कृत्यमाह-वाङ्मायेत्यादिना | वागभवकूटस्यादौ वाक् वाग्भवबीजम् ऐ/, मायाबीजं ह्रीं, कमलाबीजं श्रीं, एतद्बीजत्रयं योजयेत् | ऐ/ ह्री/ श्रीमित्युक्त्वा वाग्भवकूटमुच्चारयेदिति फलितार्थः | कामराजकूटव्यवस्थामाह- प्रणवमित्यादिना | प्रणवः ओं, लक्ष्मीबीजं श्रीं, वाग्बीजम् ऐ/, मन्मथः क्ली/, भुवनेश्वरी ह्रीं, एवञ्च ओं श्रीं ऐ/ क्लीं ह्रीमित्युक्त्वा वाग्भवाख्यान्तं कामराजकूटमुच्चरेदित्यर्थः | अथ स्वप्नावत्याख्यतृतीयकूटव्यवस्थामाह-प्रणवमित्यादिना | एवञ्च ओं ऐ/ श्री/ क्ली/ ह्रीमित्युच्चार्य स्वप्नावतीकूटमुच्चारयेदित्यर्थः | अथ मधुमत्याख्यचतुर्थकूटव्यवस्थामाह मन्मथन्त्वित्यादिना | एवञ्च क्लीं ऐ/ क्लीं श्री/ ह्रीमित्युच्चार्य मधुमतीकूटमुच्चारयेदित्यर्थः | अथ शक्तिकूटव्यवस्थामाह-मायेत्यादिना | माया ह्रीं, ततः श्रीं, वर्मबीजं हू/, ततः फट्कारम्, प्रणवेति प्रणवाद्यं तं मन्त्रं शिवशक्तिपुटीकृतं शिवशक्तिभ्यां हकारसकाराभ्यां पुटीकृतं मन्त्रस्यादावन्ते च-हं-स बीजयुक्तं शक्तिकूटात् पूर्वं योजयेदित्यर्थः | शिवशक्तिपदस्य हकार- सकारमात्रबोधकत्वेऽपि प्रकृते बिन्दुविसर्गयुक्तावेव हकार-सकारौ बोध्यौ | तन्त्रसारे- प्रणवाद्यञ्च देवेशि हंसबीजपूटीकृतम् इति दर्शनात् | तदयं प्रयोगः ऐ/ ह्रीं श्री/ क ए ई ल ह्रीं (इति वाग्भवकूटम्) ओं श्रीं ऐ/ क्ली/ ह्रीं ह स क ल ह्री/ (इति कामराजकूटम्) ओं ऐ/ श्रीं क्लीं ह्री/ ह क ह ल ह्रीं (इति स्वप्नावतीकूटम्) (प्. ३७५) (अस्याः प्राणरूपत्वं सिद्धिप्रदत्वञ्च) एषा तु दीपनी विद्या अजपा प्राणरूपिणी | पञ्चमी परमा विद्या सिद्धिदा सा तदा भवेत् || ६५ || (प्रकारान्तरम् (प्राणः)) अथापरः प्रकारश्च प्राणः परमदुर्लभः || ६६ || (तत्र वाग्भववादौ बीजयोगः) रमामायाहंसबीजं वाग्भवाद्यं नियोजयेत् | (शक्तिकूटान्ते बीजयोगः) शक्तिकूटस्य चान्तेऽपि हंसमायारमान्ततः || ६७ || (मध्यकूटत्रये बीजध्यानम्, तत्र कामराजे) कामराजत्रये कामबीजं सूर्यसमप्रभम् | स्फुरत्त्रिकोणमध्यस्थं किरणानेकसंवृतम् || ६८ || ________________________________________________________________ क्लीं ऐ/ क्लीं श्रीं ह्री/ क ह य ल ह्रीं (इति मधुमतीकूटम्) हंसः ओं ह्रीं श्री/ हूं फट् हं सः ह क ल स ह्री/ (इति शक्तिकूटम्) इति प्रथमपञ्चम्या दीपनी | एवमन्यास्वपि पञ्चमीष्वनया रीत्या दीपनीयोगः साधकैरुन्नेयः | ६५ | एवेति | सिद्धिदेति | स्वानुष्ठेयमन्त्रजपस्यादावन्ते च निरुक्तदीपनीसमभिव्याहृतमन्त्रजपाद् विद्या सिद्धिदेत्यर्थः | जपनियममाह तन्त्रसारे जपेदादौ जपेत् पश्चात् सप्तवारमनुक्रमात् | इति || ६६-७१ | प्रकारान्तरेण दीपनीमाह अथेत्यादिना | प्राण इति दीपनीयं विद्यायाः प्राणस्वरूपेत्यर्थः | तत्र वाग्भवकूटात् पूर्वं बीजयोगमाह- रमेत्यादिना | रमाबीजं श्रीं, मायाबीजं ह्रीं, हंसबीजं हंस इति | एवञ्च पञ्चम्या वाग्भवकूटस्यादौ श्रीं ह्रीं हंस इत्येतानि बीजानि योजयेदित्यर्थः | शक्तिकूटान्ते बीजयोगमाह शक्तीत्यादिना | शक्तिकूटस्यान्ते हंसः ह्री/ श्रीमित्येतद् बीजत्रयं योजयेदित्यर्थः | कामराजकूटत्रयदीपनी- (प्. ३७६) कामराजं ततो जप्त्वा (स्वप्नावत्याम्-) लक्ष्मीमत्यन्तनिर्मलाम् | सहस्रारे महापद्मे ध्यात्वा साक्षान्महेश्वरीम् || ६९ || द्वितीयं कामराजन्तु प्रजपेत्तदनन्तरम् | (मधुमत्याम्-) भुवनेशीमहाबीजं ज्वलदग्निसमप्रभम् || ७० || कुलाकुलमये पद्मे ध्येयमर्कदले वरे | मधुमतीं ततो जप्त्वा सर्वकामं लभेन्नरः || ७१ || (अस्याः प्राणस्वरूपत्वम्) अयं प्राणो महागुह्यो गुप्तो ग्रन्थे सुविस्तरे || ७२ || _________________________________________________________________ माह-कामराजत्रय इत्यादिना | अत्र पूर्ववद् बीजयोगमकृत्वा तत्तद्बीजध्यानमेव कर्तव्यमिति तत्क्रममाह-कामराजत्रय इति | त्रिकोणमध्यस्थं मूलाधारपद्मकर्णिकान्तस्त्रिकोणस्थितं किरणानेकसंवृतं सूर्यसमप्रभं क्लीमिति कामबीजं विभाव्य कामराजमुच्चारयेदित्यर्थः | निरुक्तत्रिकोणे कामबीजस्यावस्थानन्तु विशिष्य विवृतमस्माभिरत्रैव षष्ठपटले वज्राख्यावक्त्रदेशे इत्यादिषष्ठश्लोकटीकायाम् | ततः करणीयमाह- तत इत्यादिना | सहस्रारे महापद्मे साक्षान्महेश्वरीं लक्ष्मीं श्रीमिति लक्ष्मीबीजं ध्यात्वा द्वितीयं कामराजं स्वप्नावतीकूटमुच्चरयेदित्यर्थः | ततश्च कुलाकुलमये पद्मे द्वादशारे ज्वलदग्निसमप्रभं ह्रीमिति भुवनेश्वरीमहाबीजं ध्यात्वा मधुमतीकूटमुच्चारयेत् | एवं कृते किं स्यादित्यत आह सर्वेति | एवं क्रमेणानुष्ठितायां दीपन्यां सर्वकामसमृद्धिमधिगच्छन्ति साधका इत्यर्थः | तदयं फलितार्थः प्रथमं श्रीं ह्रीं हंसः ततः पञ्चम्याः पञ्चकूटम् ततो हंसः ह्रीं श्रीं, ततो मूलाधारत्रिकोणे सूर्यसमप्रभं क्लीं बीजं विभाज्य कामराजकूटम्, ततः सहस्रारे शुक्लं श्रीं बीजं विभाव्य स्वप्नावतीकूटं ततो हृत्पद्मे ज्वलदनलसमप्रभं ह्रीं बीजं विभाव्य मधुमतीकूटमुच्चारयेदिति | ७२ | अस्य रहस्यत्वमाह-अथमित्यादिना | (प्. ३७७) (प्रकारान्तरम्) अथापरप्रकारन्तु वक्ष्यामि दुर्लभं परम् | (तत्र क्रमः) मायाश्रीमदनैश्चैव श्रीमायामदनैरपि || ७३ || मदनैर्मायया श्रीश्च श्रीश्च मदनमायया | मायया मदनैः श्रीश्च कथिता च त्रिपञ्चिका || ७४ || (अस्याः प्रशस्तिः) नान्याऽस्याः सदृशी विद्या विद्यते भुवनत्रये | भैरव्याश्च महातन्त्रे विद्या परमदुर्लभा || ७५ || सिद्धिदा निर्मला शान्ता त्रैलोक्यवशकारिणी | पञ्चकूटादिके दत्त्वा जपेद् वै पञ्चपञ्चमीम् || ७६ || ________________________________________________________________ ७३-७४ | प्रकारान्तरमाह-अथेत्यादिना | अत्र बीजयोगक्रममभिदधानः प्रथमं वाग्भवकूटे बीजयोजनपरिपाटीमाह-मायेत्यादिना | तथा च ह्रीं श्रीं क्लीमित्युच्चार्य वाग्भवकूटमुच्चरेत् | श्रीमायामदनैरिति श्रीं ह्रीं क्लीमित्युच्चार्य कामराजकूटमुच्चरेत् | मदनैर्मायया श्रीश्चेति क्लीं ह्रीं श्रीमित्युच्चार्य स्वप्नावतीकूटमुच्चरेत् | श्रीश्च मदनमाययेति श्रीं क्लीं ह्रीमित्युच्चार्य मधुमतीकूटमुच्चरेदित्यर्थः | मायया मदनैः श्रीश्चेति ह्रीं क्लीं श्रीमित्युच्चार्य शक्तिकूटमुच्चरेदित्यर्थः | त्रिपञ्चिकेति | प्रतिकूटं बीजत्रययोगात् पञ्चदश बीजानि भवन्तीत्यर्थः | तदयं फलितार्थः प्रथमं ह्रीं श्रीं क्लीं ततो वाग्भवकूटम् | श्रीं ह्रीं क्लीं ततः कामराजकूटम् | क्लीं ह्रीं श्रीं ततः स्वप्नावतीकूटम् | श्रीं क्लीं ह्रीं ततो मधुमतीकूटम् | ह्रीं क्लीं श्रीं ततः शक्तिकूटम् जपेदिति | ७५-७६ | एवं दीपनीयोगदीपितस्य मन्त्रस्य प्रशस्तिमाह-नान्याऽस्या इत्यादिना | पञ्चेति | पञ्चकूटादौ प्रागुक्तक्रमेण निरुक्तानि बीजानि संयोज्य जपेदित्यर्थः | पञ्चपञ्चमीमिति पूर्वोदितपञ्चविधपञ्चमीमित्यर्थः | इति पञ्चमीविद्यायां दीपनीयोगव्यवस्था | (प्. ३७८) (त्रिकूटादिविद्यानां दीपनी) अन्यासां सर्वविद्यानां प्राणान् वक्ष्यामि साम्प्रतम् || ७७ || (तत्र क्रमः) रमा-माया-हंसबीजं वाग्भवाद्ये सुदुर्लभम् | शक्त्यन्ते हंसबीजन्तु महामाया रमा तथा || ७८ || एतैर्युक्तेन नियतं विद्याजपनमाचरेत् || ७९ || (निरुक्तबीजयोगफलम् ) रमाबीजेन सततं धर्ममोक्षसुखप्रदा | ह्रींकारे पुत्रदा नित्यं नानार्थसञ्चयप्रदा || ८० || हंसबीजेन जप्तेन नानाकामप्रदायिनी | मोक्षस्तु प्रणवाद्यन्ते निश्चितं दुर्लभं परम् || ८१ || _______________________________________________________________ ७७ | अथ त्रिकूटादिविद्यानां दीपनीमाह-अन्यासामित्यादिना | अन्यासां त्रिकूटचतुष्कूटादीनाम् | ७८-७९ | तत्र बीजयोगक्रममाह-रमेत्यादिना | वाग्भवाद्ये वाग्भवकूटादौ रमाबीजं मायाबीजं हंसबीजञ्च नियोजयेत् | श्रीं ह्रीं हंस इत्यनन्तरं वाग्भवकूटमुच्चारयेदित्यर्थः | शक्तिकूटस्यान्ते तु आदौ हंसबीजं ततो महामाया ह्रीं, ततश्च रमाबीजं श्रीमिति, शक्तिकूटान्ते हंसः ह्रीं श्रीमित्युच्चारयेदित्यर्थः | एतेन श्रीं ह्रीं हंस इति बीजत्रयसंपुटितं मन्त्रं जपेदिति तात्पर्यम् | संपुटलक्षणमाह तन्त्रसारे मन्त्रमादौ वदेत् सर्वं साध्यसंज्ञामनन्तरम् | विपरीतं पुनश्चान्ते बीजं तत् संपुटं स्मृतम् || इति | एतैरिति | जपस्तु सप्तधेति पूर्वमुक्तम् | ८०-८१ | रमामायाहंसबीजजपफलमाह-रमाबीजेनेत्यादिना | मोक्षार्थिनां विशेषमाह-मोक्षन्त्वित्यादिना | तथाचात्र प्रागुक्तरमामायाहंसबीजसंपुटितस्य मन्त्रस्यादावन्ते च प्रणवयोगः कर्तव्यः | एवञ्च ओं श्रीं ह्रीं हंसः ततो मन्त्रस्ततश्च हंसः ह्रीं श्रीं ओं इति दीपनीक्रमः | (प्. ३७९) एतच्च कथितं सारं (प्रकारान्तरम्) परञ्च कथयाम्यथ || ८२ || तारमायारमाकामवाग्भवैर्वाग्भवं भवेत् | तदेव विपरीतन्तु कामराजं ततो जपेत् || ८३ || सतारं वाग्भवं कामरमामायासमन्वितम् | चैतन्यं कथितं सारं (प्रकारान्तरम्) परञ्च कथयाम्यथ || ८४ || वाङ्माया कमलाबीजं वाग्भवस्यादि योजयेत् | वेदाद्यं लक्ष्मीवाग्बीजे मन्मथं तदनन्तरम् || ८५ || मायाबीजं ततो दत्त्वा वाग्भवाख्यंसमुद्धरेत् | आद्यन्ते तारमायान्तु मध्ये श्रीबीजसंयुतम् || ८६ || तारस्यान्ते वाग्भवन्तु कामबीजं तथा स्थितम् | एवमेतत् समुच्चार्य कामराजं समुच्चरेत् || ८७ || _________________________________________________________________ ८२-८४ | प्रकारान्तरमाह-परञ्चेत्यादिना | तत्रवाग्भवकूटात् पूर्वं बीजयोगमाह-तारेत्यादिना | तारःप्रणवः, माया ह्रीं, रमा श्रीं, कामः क्लीं, वाग्भवः ऐ/, एतैः पूर्वं योजितैः वाग्भवकूटं दीपनीयुक्तं भवेदित्यर्थः | एवञ्च ओं ह्रीं श्रीं क्लीं ऐ/ इत्युच्चार्य वाग्भवकूटं जपेदित्यर्थः | अथ कामराजकूटे बीजयोगमाह-तदेवेत्यादिना | प्रागुक्तबीजपञ्चकमेव विपरीतं विलोमेन संस्थापितमुच्चार्य कामराजकूटं जपेदित्यर्थः | एवञ्च ऐ/ क्लीं श्रीं ह्रीं ओं इत्युच्चार्य कामराजकूटं जपेदिति फलितार्थः | शक्तिकूटे बीजयोगमाह-सतारमित्यादिना | सतारं वाग्भवं तारो वाग्भवञ्च ततः कामरमामायासमन्वितं शक्तिकूटमित्यर्थादाहृतस्य विशेषणम् | एवञ्च ओं ऐ/ क्लीं श्रीं ह्रीमित्यनन्तरं शक्तिकूटं जपेदिति फलितम् | ८४-८९ | प्रकारान्तरमाह-परञ्चेत्यादिना | तत्रायं क्रमः वाग्भवस्यादि (प्. ३८०) एतस्या एव विद्याया मध्ये कामं नियोजयेत् | मन्मथादिस्थमधरं श्रीबीजं मन्मथान्तरम् || ८८ || एवं क्रमेण संयोज्य शक्तिकूटं तदोच्चरेत् | इयन्तु दीपनी विद्या सर्वतन्त्रेषु गोपिता || ८९ || ________________________________________________________________ वाग्भवकूटस्यादावित्यर्थः | वागित्यादि, वाक् वाग्भवबीजम् ऐ/, मायाबीजं ह्रीं, कमलाबीजं श्रीं, इत्येतद् बीजत्रयं योजयेदित्यर्थः | एतद्बीजत्रयात् पूर्वं बीजान्तरयोगमाह- वेदाद्यमित्यादिना | वेदाद्यः प्रणवः, लक्ष्मीः श्रीं, वाग्बीजम् ऐ/, मन्मथः क्लीं, मायाबीजं ह्रीं एतद्बीजपञ्चकं निरुक्तवाग्भव-मायाश्रीबीजेभ्यः पूर्वं विन्यस्य वाग्भवकूटं जपेदिति सम्बन्धः | अत्र वाग्भवस्यादि योजयेदित्युक्तेर्वाङ्मायाकमलाबीजानां वाग्भवकूटाव्यवहितपूर्ववर्तित्वावगमाद् वेदादिबीजपञ्चकस्य तत्पूर्वमवस्थितिरर्थादवगन्तव्या | एवञ्च ओं श्रीं ऐ/ क्लीं, ह्रीं ऐ/ ह्रीं श्रीं इत्युक्त्वा वाग्भवकूटमुच्चारयेदिति फलितार्थः | कामराजकूटात् पूर्वं बीजयोगमाह-आद्यन्त इति | अत्राद्यन्तत्वं वक्ष्यमाण श्रीबीजमपेक्ष्य | तथा च श्रीबीजस्यादौ तारो मायाबीजञ्च, अन्तेऽपि तथैव तारमायायोगः, अनेन ओं ह्रीं श्रीं ओं ह्रीमिति प्राप्तम् | तारस्यान्त इति | आद्यतारस्यान्ते वाग्भवबीजं कामबीजञ्च | तथा स्थितमित्यनेनान्त्यतारस्यान्तेऽपि वाग्भव-कामबीजयोग उक्तः | एतेन ओं ऐ/ क्लीं ह्रीं श्रीं ओं ऐ/ क्लीं ह्रीमित्येतेषां बीजानां संग्रहः | एवमेतदिति एतद् बीजनवकं समुच्चार्य कामराजकूटमुच्चरेदित्यर्थः | अथ शक्तिकूटात् पूर्वं बीजयोगमाह- एतस्या इति | एतस्याः कामराजादौ प्रयोज्याया दीपनीविद्याया इत्यर्थः | मध्ये कामबीजं प्रयोजयेत् | अयम्भावः शक्तिकूटदीपनीयं कामराजकूटदीपनीवदेव, बीजानां केषाञ्चित् पौर्वापर्यविपर्यय एवात्र विशेषः, तमेव विशेषं दर्शयितुमाह-मध्ये कामं नियोजयेदिति | कामबीजप्रयोगस्तु श्रीबीजात् पूर्वमेव कर्तव्यः श्रीबीजं मन्मथान्तरमिति वक्ष्यमाणत्वात् | एवञ्च कामराजदीपन्या मायाबीजस्थाने कामबीजस्य कामबीजस्थाने च वाग्भवबीजस्याऽदानात् मायाबीजस्य वाग्भवबीजात् पूर्वं निवेशः कर्तव्य इत्यर्थादवगम्यते | तथा च ओं ह्रीं ऐ/ क्लीं श्री/ ओं ऐ/ क्लीं ह्रीमित्युच्चार्य वाग्भवकूटमुच्चारयेदिति फलितम् | (प्. ३८१) (अन्यादृशी दीपनी) रमा माया हंसबीजं वाग्भवाद्ये नियोजयेत् | कामराजं ततः पश्चाद् ब्रह्मबीजं तदन्तिके | शक्त्यन्ते हंसबीजन्तु प्रजपेत् साधकोत्तमः || ९० || (अन्यादृशी दीपनी) अथवा प्रणवं लक्ष्मीं मान्मथं वाग्भवं पराम् | एतज्जप्त्वा वाग्भवाख्यमुच्चरेत् साधकोत्तमः || ९१ || प्रणवञ्चैव वाग्बीजं रमा मन्मथमायया | एवमेव तदा जप्त्वा कामराजं समुच्चरेत् || ९२ || प्रणवञ्चाधरं कामं रमाञ्च परमेश्वरीम् | एवं क्रमेण संयोज्य शक्तिकूटं समुच्चरेत् || ९३ || एतच्च कथितं सारं सर्वसिद्धिप्रदायकम् | एता गुप्ततमाः सर्वा विद्याश्चैतन्यकारिकाः || ९४ || _______________________________________________________________ ९० | क्रमान्तरेण दीपनीमाह रमेत्यादिना | वाग्भवकूटादौ रमाबीजं मायाबीजं हंसबीजञ्च नियोजयेत् | श्रीं ह्रीं हंस इत्यनन्तरं वाग्भवकूटमुच्चरेत् जपेदित्यर्थः | कामराजमिति | ततः कामराजकूटमुच्चार्य ब्रह्मबीजं प्रणवमुच्चारयेदित्यर्थः | शक्त्यन्त इति | ततः शक्तिकूटमुच्चार्य हंसबीजं हंस इति वर्णद्वयात्मकं बीजं जपेदित्यर्थः | जपस्तु तत्तत्कूटसमभिव्याहृतस्येति सर्वत्र बोध्यम् | ९१-९३ | अथ दीपनीमन्यादृशीमभिदधानः प्रथमं वाग्भवकूटे बीजयोगमाह- अथवेति | प्रणवः ओं, लक्ष्मीः श्रीं मान्मथं क्लीं, वाग्भवं ऐ/, परा ह्रीं | एवञ्च ओं श्रीं क्लीं ऐ/ ह्रीमिति जप्त्वा वाग्भवकूटमुच्चारयेदित्यर्थः | कामराजकूटे बीजयोगमाह-प्रणवञ्चेत्यादिना | एवञ्च ओं ऐ/ श्रीं क्लीं ह्रीमिति जप्त्वा कामराजकूटमुच्चरयेदित्यर्थः | शक्तिकूटात् पूर्वं बीजयोगमाह प्रणवमित्यादिना | एवञ्च ओं ऐ/ क्लीं श्रीं ह्रीमिति जप्त्वा शक्तिकूटमुच्चारयेदित्यर्थः | (प्. ३८२) आसामेकतमां दत्त्वा जपेद् विद्यां समाहितः || ९५ || (वामकेशीविद्याया दीपन्यां विशेषः) वामकेश्याञ्च विद्यायां विशेषः पुनरुच्यते | वाग्भवे कामराजे च शक्तिकूटे च तत्क्रमात् || ९६ || कामबीजत्रयेणैव दीपन्यादि समीरितम् | जपस्याऽदौ जपस्यान्ते सप्तवारमनुक्रमात् || ९७ || (वामकेशीविद्यास्वरूपनिरूपणप्रतिज्ञा) वामकेशी च या विद्या शब्दब्रह्मस्वरूपिणी | तस्या रूपप्रभावञ्च संक्षेपात् कथयाम्यथ || ९८ || _______________________________________________________________ ९५ | आसामिति | पूर्वं ये दीपनीभेदा दर्शितास्तेषामेकतमं यं कञ्चन दत्त्वा विद्यां स्वेष्टमन्त्रं जपेदित्यर्थः | दीपनीजपस्तु स्वेष्टमन्त्रजपस्यादावन्ते च सप्तकृत्वः कर्तव्य इति स्वयमेव वक्ष्यति | ९६-९७ | एवं सर्वविद्यासाधारण्येन दीपनीयोगमभिधाय वामकेशीविद्यायां विशेषमाह-वामकेश्यामित्यादिना | वाग्भव इत्यादि | तथा चात्र कूटत्रयादौ क्लीमिति कामबीजत्रयं योजयेदित्यर्थः | दीपन्यादीत्यादिपदेन प्राणचैतन्यादीनां परिग्रहः | दीपनीजपव्यवस्थामुपदीशति जपस्येति | तथा च स्वेष्टमन्त्रजपादौ सप्तधा दीपनीजपः तत्तत्संख्यातजपस्यान्तेऽपि तथा | ९८ | अथेदानीं शब्दब्रह्मस्वरूपाया वामकेशीविद्यायाः स्वरूपं प्रभावञ्च वक्तुं प्रतिजानीते वामकेशीत्यादिना | अथ केयं वामकेशी नाम ? उच्यते दशमे प्रकाशे कन्दर्पो विष्णुयुक्तोऽधरमुखसहितो दक्षकर्णोर्द्ध्ववर्ण (१५९ श्लो) इत्यादिना या सुरगणसेव्या कीलिता शाम्भवकामराजविद्याऽभिहिता सैव वामकेशीविद्येत्युक्तं तत्रैव वामकेशी शाम्भवई सा पूर्वाम्नायैः प्रकीर्तिता | ज्ञेया सा कीलिता विद्या सिद्धिदा न हि भूतले || (१६२ श्लो०) इत्यनेन | एवञ्चात्र प्रागुक्तशाम्भवकामराजविद्यैव वामकेशीति स्थितम् | शब्दब्रह्मस्वरूपिणीत्यनेन मन्त्रघटकवर्णान् देवतास्वरूपत्वं सूचितम् | तस्या इति | तस्या रूपस्य मन्त्रघटकवर्णात्मकस्य प्रभावं संक्षेपात् कथयामि वक्ष्यामाण- (प्. ३८३) (वामकेशीविद्यास्वरूपम्, तत्र वाग्भवकूटार्थः) सहस्रदलमध्ये तु त्रिकोणं शिरसि स्थितम् | तत्रैव मादनं बीजं बिन्दुमाश्रित्य दीपवत् || ९९ || कोटिचन्द्रप्रतीकाशं चिदानन्दमयं परम् | अनुत्तरपदं गुह्यं ललाटोर्द्ध्वव्यवस्थितम् || १०० || भगमाधारसंस्थानं त्रिकोणपदमाश्रितम् || १०१ || _________________________________________________________________ वचनैः प्रतिपादयामीत्यर्थः | रूपप्रभेदञ्चेति पाठे रूपे क ए ई ल ह्रीमिति मन्त्रे यः प्रभेदः मन्त्रघटकवर्णानामर्थगतः प्रकृष्टो भेदस्तं कथयामीत्यर्थः | ९९-१०० | तत्र क ए ई ल ह्रीमिति वाग्भवकूटं व्याचक्षाणः प्रथमं ककारस्य स्वरूपमाह-सहस्रेत्यादिना | शिरसि सहस्रारपद्मकर्णिकाभ्यन्तरे त्रिकोणं स्थितम् | तदुक्तमत्रैव सहस्रारं प्रकृत्य षष्ठप्रकाशे त्रिकोणं तस्यान्तः स्फुरति च सततं विद्युदाकाररूपम् इति | तत्रैवेति | तत्र निरुक्तत्रिकोणे बिन्दुं तदन्तः शून्यं तत् सकलसुरगणैः सेवितञ्चातिगुह्यमिति षष्ठप्रकाशोक्तशिवशक्त्यैकात्म्यरूपं परं बिन्दुमाश्रित्य मादनं कामबीजं ककारो वर्तत इत्यर्थः, परबिन्दोः स्वरूपं व्यक्तमाह अमृतानन्दनाथकृतयोगिनीहृदयद्वितीयपटलटीकाधृत-सौभाग्यसुभगोदये रक्तो बिन्दुः शक्तिः शुक्लः शम्भुः परस्तदैकात्म्यम् | इति | एवञ्च शिवशक्तिसामरस्यरूपपरबिन्दुमाश्रित्य दीपवत् मादनं बीजं ककारो वर्तते इत्युक्तं भवति | दीपवदिति यथा दीपो मल्लिकादिकमाश्रित्यैव स्वां द्युतिं प्रकटयति तथा कामबीजमपि परं बिन्दुमाश्रित्यैवेत्यर्थः | तस्य स्वरूपमाह कोटिचन्द्रप्रतीकाशमित्यादिना | अनुत्तरपदमिति | यदपेक्षया साधकानामुत्तरं चरमं पदं नास्तीत्यर्थः | एवञ्च कोटिचन्द्रसदृशदीप्तिमत्त्व-चिदानन्दमयत्वादिस्वरूपस्य तस्याराधनेन तदैक्य भावनया च तत्स्वरूपावाप्तिर्भवतीति | एवमन्यत्रापि बोध्यम् | १०१ | अथ द्वितीयमेकारं व्याचष्टे भगमित्यादिना | भगं योनिबीजमेकारम् आधारसंस्थानं मूलाधारेऽवस्थितम् | तत्रापि त्रिकोणपदमाश्रितम्, मूलाधारकमलकर्णिकान्तरालस्थ-योन्याकार-त्रिकोणस्थितमित्यर्थः | परिचिन्तयेदिति वक्ष्यमाणक्रिययाऽभिसम्बन्धः | (प्. ३८४) मृणालतन्तुरूपा सा विश्वयोनिरुदाहृता | चतुर्थी हृदये पद्मे मेरुमाश्रित्य संस्थिता || १०२ || इच्छा-ज्ञाना-क्रियारूपा शम्भुशक्तिः परापरा | हकारार्द्धकलारूपा तडित्कोटिसमप्रभा || १०३ || शक्रो ललाटमध्ये तु दीपितां परिचिन्तयेत् || १०४ || विद्युत्पुञ्जप्रतीकाशां पञ्चमीं नेत्रनासिके | वाग्भवेयं महाविद्या वागीशत्वप्रदायिनी || १०५ || ________________________________________________________________ १०२-१०३ | अथ तृतीयमीकारं व्याचष्टे मृणालेत्यादिना | चतुर्थी अकारादिस्वरचतुर्थवर्णरूपा ईकाररूपेत्यर्थः | परापरा शम्भुशक्तिः अनाहताख्ये हृत्पद्मे मेरुमाश्रित्य संस्थितेति सम्बन्धः | तामेव विशिनष्टि-मृणालतन्तुरूपेति, मृणालतन्तु वदतिशयसूक्ष्मा | तथा विश्वयोनिः, ईकारस्य शम्भुशक्तिरूपतया- तस्याः पुनः पुनः सृष्टिर्जायते लीयते सदा | तस्माच्छक्तिः प्रधाना च शक्त्या व्याप्तमिदं जगत् || इति गन्धर्वतन्त्रतृतीयपटलवचनेन शक्त्या एव जगत्सृष्टेरभिदानात् तस्या विश्वयोनित्वम् | इच्छाज्ञानाक्रियारूपेति | इच्छाशक्तिप्रधानः प्रकाशाख्यः शम्भुः, क्रियाशक्तिप्रधाना च विमर्षरूपा परा शक्तिः, ज्ञानशक्तिप्राधान्यमुभयसाधारणम् | तत्र च प्रकाशविमर्षात्मकयोरभेदेन विमर्षरूपायाः शक्तेरिच्छाज्ञानाक्रियारूपत्वमुपपन्नम् | एतदभिप्रायेणैव हकारार्द्धकलारूपेत्युक्तम् | हकारः शिवस्तदर्द्धकलारूपा हरार्द्धाङ्गविहारिणीत्यर्थः | तथा तडित्कोटिसमप्रभा | तदुक्तं षष्ठप्रकाशेऽनाहतपद्मं प्रकृत्य एतन्नीरजकर्णिकान्तरलसच्छक्तिस्त्रिकोणाभिधा विद्युत्कोटिसमानकोमलवपुरित्यादि | इति चतुर्थस्वरस्वरूपनिर्णयः | १०४-१०५ | अथ चतुर्थमक्षरं लकारं व्याचष्टे शक्र इति | शक्र इन्द्रबीजं लकारो ललाटमध्ये संस्थित इति सम्बन्धः | एतेनास्य बीजस्येन्द्ररूपत्वं सूचितम् अस्य विशेषोऽग्रे वक्ष्यते | अथ पञ्चमं मायाबीजं व्याचष्टे-दीपितामित्यादिना | पञ्चमी ककारमपेक्ष्य पञ्चमवर्णरूपाम् | नेत्रनासिके नेत्राणि च नासिके च तेषां समाहारः नेत्रनासिकं तस्मिन् | तथा च नेत्रत्रये नासिकयोश्च विद्युत्पुञ्जप्रतीकाशां पञ्चमीं (प्. ३८५) (कामराजकूटार्थः) शिवो ज्ञानाख्यसंयुक्तस्त्रिशून्येषु व्यवस्थितः || १०६ || सूर्यकोटिप्रतीकाशं महापद्मोपरि स्थितम् | सकारं मुखमध्ये तु बालार्कसदृशं परम् || १०७ ||| मादनं जठरे चैव जवाभं परिचिन्तयेत् || १०८ || हकारेण बहिर्याति द्वादशाङ्गुलमानतः | प्राणो वायुरिति प्रोक्तो हंसाभः परमेश्वरः || १०९ || सहस्रस्य दलाग्रन्तु कला षोडशपूर्वकम् | इन्द्रन्तु तत्र मध्ये तु ओंकाररूपभेदकम् || ११० || ह्रींकारं हृदये मध्ये कोटिसूर्यसमप्रभम् | बिन्दुद्वये कुचे युग्मे जवाभमर्द्धचन्द्रकम् || १११ || नादबिन्दू तदग्रे च शिवशक्तिसमन्विते | कामराजे महाबीज आकर्षणकरे परे || ११२ || _______________________________________________________________ दीपितां चिन्तयेदित्यर्थः | अनेन हकार-रकारेकाराणां नेत्रत्रये नादबिन्द्वोश्च नसोश्चिन्तनमुपदिष्टमिति प्रतिभाति | एवं वाग्भवकूटं व्याख्याय तत्फलमाह वाग्भवेयमित्यादिना | १०६-१०८ | अथ ह स क ह ल ह्रीमिति द्वितीयं कामराजकूटं व्याचक्षाणः प्रथमं हकारार्थमाह-शिव इति | शिवो हकारः, ज्ञानाख्यसंयुक्तः ज्ञानेच्छाक्रियाशक्तियुक्त इत्यर्थः, त्रिशून्येषु ऊर्द्ध्वाधोमध्यबिन्दुत्रये व्यवस्थित इत्यर्थः | महापद्मोपरि सहस्रारे | द्वितीयं सकारध्यानमाह-सकारमिति | तृतीयं ककारमाह- मादनमिति | १०९ | चतुर्थं हकारं व्याचष्टे-हकारेणेत्यादिना | प्राणो मुखनासिकाग्रवर्ती वायुः | हकारः प्रानवाचकः | अत्र हकारेण द्वादशाङ्गुलमानतः प्राणो वायुर्बहिर्याति इति प्रोक्तः | अथ प्राणापरपर्यायस्ये हकारस्य किं स्वरूपमित्यत आह- हंसाभ इति | हंसाभः शुक्लवर्णः परमेश्वरः शिव इत्यर्थः | ११०-११२ | पञ्चमं लकारमाह-सहस्रस्येति | सहस्रारस्य दलाग्रे चन्द्रस्य षोडश कला विलसन्तीत्यर्थः | इन्द्रमिति तत्र लकारं चिन्तयेदित्यर्थः | (प्. ३८६) (शक्तिकूटार्थः) नाभिपद्मत्रिकोणे च दाडिमाभं सकारकम् | पद्मद्वयप्रकोष्ठे च मादनं पीतसन्निभम् || ११३ || पृष्ठोपस्थकयोश्चैवं शक्रं तेजःस्वरूपिणम् | चतुर्थी योनिमध्ये तु दीपितां परिचिन्तयेत् || ११४ || शिवस्यापि च यद् बीजं तदण्डयुगलं भवेत् | देव्या बीजञ्च परमं योनित्वेन विचिन्तयेत् || ११५ || (अन्यादृशं ध्यानतत्त्वम्) भूयोऽहं कथयिष्यामि ध्यानतत्त्वं समाहितः || ११६ || _________________________________________________________________ अथ मायाबीजमाह- ओंकारेत्यादिना | ओंकाररूपभेदकं ह्रींकारं कोटिसूर्यसमप्रभं हृदये ध्यायेदित्यर्थः | बिन्द्विति बिन्दुद्वयरूपे कुचद्वन्द्वे जवाभं जवाकुसुमसदृशरक्तवर्णम् अर्द्धचन्द्रं तदग्रे नादबिन्दू च ध्यायेदिति सम्बन्धः | ११३-११५ | अथ स क ल ह्रीमिति शक्तिकूटं व्याचक्षाणः प्रथमं सकारं व्याचष्टे नाभीत्यादिना | नाभिपद्मत्रिकोणे इत्यर्थः | दाडिमाभं रक्तवर्णं सकारं परिचिन्तयेदित्यर्थः | चतुर्थीं ह्रीमिति बीजम् | पूर्वमेव व्याख्यातमन्यदिति नात्र पुनः प्रपञ्च्यते | ११६ | अथ वामकेशीविद्याया अन्यादृशं स्वरूपमाह-भूय इत्यादिना | ध्यानतत्त्वमिति | ध्यानं स्वरूपचिन्ता तस्य तत्त्वं याथार्थ्यम् | मन्त्रदेवतयोरभेदस्य सर्वागमप्रसिद्धत्वेन तत्तन्मन्त्रघटकवर्णानां कया रीत्या तत्तद्देवतावाचकत्वं येन तयोरभेदः साधकैरनुभूयेत इत्येतच्चिन्तनमेव ध्यानं तस्य तत्त्वमित्यर्थः | समाहित इति विक्षिप्ते चेतसि सूक्ष्मातिसूक्ष्मतया दुरधिगमस्य ध्यानतत्त्वस्य प्रवेशासम्भवात् समाहित इत्युक्तम् | एतेन समाहितचेतसामेव ध्यानतत्त्वं कथञ्चिदनुभवगोचरतामवगाहते नेतरेषामिति सूचितम् | (प्. ३८७) (तत्र कामराजकूटार्थः) कामराजे महाकूटे सृष्टिस्थितिशिवद्वयम् | शक्तिबीजन्तु तत्रैव शङ्करस्य त्रिनेत्रकम् || ११७ || हकारः सृष्टिरूपत्वाद् दद्यादैश्वर्यमष्टधा | द्वितीयः स्थितिरूपत्वान्महाभोगं प्रयच्छति || ११८ | सकारः सृष्टिरूपत्वात्तेषु भोगं नियच्छति | त्रिकूटत्रयह्रींकारं देव्या नेत्रत्रयं शुभम् || ११९ || (वाग्भवकूटस्थमायाबीजार्कः) हकारः शाम्भवो भावो रेफोऽप्रतिहतद्युतिः | रेफाच्चैव महामाया सर्वव्याप्तिं प्रयच्छति || १२० || _________________________________________________________________ ११७ | तत्र पञ्चदशाक्षरशाम्भवकामराजविद्यायाः कामराजकूटघटकवर्णानामर्थान् विविनक्ति-कामराज इति | कामराजकूटघटकवर्णाः ह स क ह ल ह्रीमिति षट् | तत्र हकारद्वयार्थमाह-सृष्टीत्यादिना | शिवद्वयं हकारद्वयं सृष्टिस्थितिरूपम्, तत्र प्रथमो हकारः सृष्टिरूपो द्वितीयः स्थितिरूपः | तदुक्तं सौभाग्यसुभगोदये अत्र कलमध्यस्थितो हकारः स्थितिस्वरूपत्वम् | अस्य द्योतयति परं स्थितिरूपं सम्बिदम्बिकाकारः | इति | एवञ्चानयोः सृष्टिस्थितिरूपत्वाभिधानाद् ब्रह्मविष्णुशक्तिस्वरूपत्वमवगन्तव्यम् | शक्तिबीजन्त्विति | शक्तिबीजं निरुक्तकुटघटकवर्णानामन्यतमः सकारः शङ्करस्य त्रिनेत्रकं तृतीयनेत्रस्वरूपः संहाररूप इत्यर्थः | एतेन सकारोऽयं संहारिणी रौद्री शक्तिरित्यवगम्यते | कूटत्रयस्थित-ककारत्रयस्य स्वरूपन्त्वग्रे वक्ष्यति | ११८ | निरुक्तवर्णानां सृष्ट्यादिरूपत्वमभिधाय तत्फलमाह-हकार इत्यादिना | ऐश्वर्यमष्टधेत्यणिमाद्यष्टैश्वर्याणीत्यर्थः | द्वितीय इति | द्वितीयो हकार इत्यर्थः | स्थितिरूपतया द्वितीयहकारस्य भोगसाधकत्वमित्यर्थः | ११९ | सकार इति | अथेदानीं कूटत्रयान्त्यभूतं ह्रींकारत्रयं व्याचष्टे त्रिकूटेत्यादिना | १२० | एवं सामान्यतः कूटत्रयस्थितस्य ह्रींकारत्रयस्य स्वरूपमभिधाय कूटभेदे- (प्. ३८८) (कामराजकूटस्थमायाबीजार्थः) कामराजस्य ह्रींकारे फलं वक्ष्यामि तत्परम् || १२१ || हकारो लयरूपत्वात् संहरेद् भेदसन्ततिम् | रेफः कालाग्निरूपत्वात् पापौघक्षयकारकः | महामाया कामकला चिदानन्दप्रकाशिका || १२२ || (शक्तिकूटस्थमायाबीजार्थः) शक्तिबीजस्य ह्रींकर एतदेव फलं लभेत् | हकारो हन्ति वै मृत्युं रेफः सर्वप्रकाशकः || १२३ || नास्याः स्वरूपमाह-हकार इत्यादिना | शाम्भवो भावः परशिवसत्त्वानतिरिक्तसत्त्वाकत्वम्, परशिवसामरस्यरूपत्वमिति यावत् हकारस्येत्यर्थः | रेफ इति | रेफः ह्रीं बीजघटको रकारः अप्रतिहतद्युतिः मायानभिभूततेजःप्रसरः | रेफादिति | रेफात् परिवर्तिनी महामाया ईकारः सर्वव्याप्तिं प्रयच्छति | तथा च परशिवसामरस्यरूपा भगवत्यप्रतिहततेजःप्रसरा शिवादिक्षित्यन्तषट्त्रिंशत्तत्त्वात्मकं सर्वं जगद् व्याप्य तिष्ठतीति वाग्भवकूटघटकह्रींकारार्थः | १२१-१२२ | अथ कामराजकूटस्य ह्रींकारं व्याचष्टे कामराजस्येत्यादिना | हकार इति | लयरूपत्वात् संहाररूपत्वात् | हकारस्य संहाररूपत्वं शिवबीजत्वेन | तथा चायं संहाररूपी हकारो भेदसन्ततिं षट्त्रिंशत्तत्त्वपरशक्त्योर्भेदज्ञानं संहरेदित्यर्थः | रेफ इति | कालाग्निस्वरूपतया पापसमूहं दहतीत्यर्थः | महामायेति | महामाया ईकारः, कामकला तुरीयचैतन्यस्वरूपा अत एव चिदानन्दप्रकाशिका | तथा च कामराजकूट-ह्रींकारः सकलभेदज्ञाननिरसनपुरःसरं पापराशिं भस्मसात् कृत्वा चिदानन्दमयब्रह्मस्वरूपं साधकहृदये प्रकाशयतीति फलितार्थः | १२३-१२४ | एवं कामराजस्य ह्रींकारं व्याख्याय शक्तिकूटस्थं ह्रींकारं व्याचष्टे शक्तिबीजस्येत्यादिना | एतदेवेति वक्ष्यमाणरूपम् | तदेवाह-हकार इत्यादिना | हकारो मृत्युं हन्ति तस्य यमपाशसंयमनकृतं मरणं न भवतीत्यर्थः | रेफः सर्व- (प्. ३८९) चिदानन्दमयी माया चिदैक्यं परिभावयेत् | देव्या नेत्रत्रयं प्रोक्तं (कूटत्रयस्थलकारत्रयार्थाः) शेषञ्च कथयाम्यथ || १२४ || लकारोऽपीन्द्ररूपत्वान्महैश्वर्यं प्रयच्छति | लकारः पृथिवीशत्वाद्रूपैश्वर्यकरः सदा || १२५ || लकारो महदैश्वर्यं मोक्षरूपं प्रयच्छति | शक्रस्त्रिभुवने राजा त्रिकूटेषु व्यवस्थितः || १२६ || (कूटत्रयस्थककारार्थाः) कूटत्रये ककारे च कामस्त्रिभुवनेश्वरः | चिदानन्दमयं रूपं प्रयच्छति न संशयः || १२७ || ककारः कामरूपत्वात् महाकान्तिं प्रयच्छति | तत्त्वातीतं पदं पश्चात् ककारो मस्तकान्तकः || १२८ || _______________________________________________________________ प्रकाशकः प्रकाश-विमर्षात्मकं सर्वं प्रकाशयतीत्यर्थः | चिदिति | चिदानन्दमयी ज्ञानानन्दस्वरूपा माया ईकारः चिदैक्यं चिदात्मकेन ब्रह्मणा ऐक्यमभेदं परिभावयेत् सम्पादयेदित्यर्थः | तथा चायं ह्रींकारो मरणदुःखमपाकृत्य सर्वं खल्विदं ब्रह्मेतिश्रतिप्रतिपादितब्रह्मस्वरूपतां प्रकाश्य चिदानन्दस्वरूपत्वमवगमयतीति फलितार्थः | १२४-१२६ | अथ त्रिकूटेष्ववस्थितानामपरेषामपि वर्णानामर्थान् वक्तुं प्रतिजानीते- शेषञ्चेत्यादिना | अत्र प्रथमं वाग्भवकूटस्थं लकारं व्याचष्टे लकारोपीत्यादिना | इन्द्ररूपत्वात् इन्द्रबीजत्वात् लकारो निरतिशयमैश्वर्यं प्रयच्छति | इन्द्रस्थ परमैश्वर्याधीश्वरत्वात्तद्बीजस्य परमैश्वर्यदानदाक्ष्यं सुतरामुपपद्यत इति भावः | अथ द्वितीयकूटस्थं लकारमाह-लकारः पृथिवीशत्वादित्यादिना | तृतीयकूटस्थं लकारं व्याचष्टे लकार इत्यादिना | फलितमाह-शक्र इत्यादिना | १२७-१२८ | अथ कूटत्रयेऽवस्थितस्य ककारत्रयस्य स्वरूपमभिदधानः प्रथमं (प्. ३९०) (अस्याः सर्वयोनित्वम्) योनिरेषा महाकामा शक्तिरेषा प्रकीर्तिता | एतादृशी महाविद्या अर्द्धनारिश्वरः शिवः || १२९ || (सौभाग्यामन्त्रार्थः) सौभाग्याया बीजभेदं वक्ष्यामि परमाद्भुतम् || १३० || आद्यन्ते च हकारौ द्वौ मध्ये द्वौ च हकारकौ | चतुर्वेदः शिवः शम्भुश्चतुर्दिक्षु व्यवस्थितः || १३१ || प्रथमे मध्यमे कूटे ककारौ च प्रकीर्तितौ | शक्तिकूटे ककारौ द्वौ ब्रह्मणस्तु चतुर्मुखम् || १३२ || त्रिकूटेष्विन्द्रबीजन्तु त्रिकोणा पृथिवी परा | त्रिपुरा च महामाया शक्तिरेका प्रकीर्तिता || १३३ || _________________________________________________________________ वाग्भवकूटस्थं ककारं व्याचष्टे-काकार इत्यादिना | ककारेऽर्थाद् वाग्भवकूटस्थिते ककारे स्थितः कामः ककारस्य कामबीजत्वात्तत्र कामस्य स्थितिरुपपद्यते | त्रिभुवनेश्वरः | त्रिभुवनेशितृत्वाच्च अनिर्वचनीयचिदानन्दमयत्वस्य तत्राव्यभिचाराच्चिदानन्दमयं रूपं स्वरूपं प्रयच्छति साधकायेति शेषः | अथ द्वितीयं कामराजकूटस्थं ककारं व्याचष्टे ककार इत्यादिना | कामरूपत्वाद् वाच्यवाचकयोरभेदेन कामस्वरूपत्वात् महाकान्तिं प्रयच्छतीति सम्बन्धः | तथा च ककारस्य निरुपमसौन्दर्यास्पदीभूतकामदेवरूपार्थबोधकतया तस्यालौकिककान्तिदानदाक्ष्यमुपपद्यत इति भावः | अथ तृतीयं शक्तिकूटस्थं ककारं व्याचष्टे तत्त्वातीतमित्यादिना | तथा च शक्तिकूटस्थितः ककारस्तत्त्वातीतं पदं परं ब्रह्मरूपं पदं निर्वाणमुक्तिमित्यर्थः, प्रयच्छतीति सम्बन्धः | १३०-१३३ | पूर्वमेकादशे प्रकाशे अथ वक्ष्यामि सौभाग्यामित्यादिना (५९-६० श्लो०) या पञ्चदशाक्षरी सौभाग्याविद्या प्रदर्शिता तस्यास्त्रिकूटघटकानामक्षराणां स्वरूपं निर्वक्ति-सौभाग्याया इत्यादिना | बीजभेदमिति | बीजानामर्थभेदमित्यर्थः | आद्यन्त इति आदौ स ह क ल ह्रीमिति वाग्भवकूटे एको हकारः क ह क ल ह्रीमिति अन्ते शक्तिकूटे चापर इति कूटद्वये द्वौ हकारावित्यर्थः | तथा मध्ये ह क ह ल ह्री- (प्. ३९१) (एतद्विद्याज्ञानफलम्) यो जानाति महाविद्यां सौभाग्यां परमाक्षरीम् | स स्वर्गभागी मुक्तश्च देवीपुत्रो महीतले || १३४ || इति श्रीपूर्णानन्दपरमहंसविरचिते श्रीतत्त्वचिन्तामणौ द्वादशः प्रकाशः || १२ || ________________________________________________________________ मिति कामराजकूटे द्वौ हकाराविति मिलित्वा चत्वारो हकाराः | एतेषां स्वरूपमाह-चतुर्वेद इत्यादिना | अथ ककारचतुष्टयं व्याचष्टे प्रथम इत्यादिना | प्रथमे वाग्भवकूटे मध्यमे कामराजकूटे च पूर्वोपदर्शिते | द्वौ ककारौ तथा शक्तिकूटे द्वाविति चत्वारः ककाराः | तेषां स्वरूपमाह-ब्रह्मणस्त्विति | ककारस्य ब्रह्मबीजतयाऽत्र ककारचतुष्टयं ब्रह्मणो मुखचतुष्टयस्वरूपमित्यर्थः | अथ त्रिकूटस्थ-लकारत्रयं व्याचष्टे-त्रिकूटेष्वित्यादिना | त्रिकूटेषु इन्द्रबीजं लकारत्रयं त्रिकोणपृथिवीस्वरूपमित्यर्थः | त्रिपुरेति | महामाया ह्रीमिति बीजत्रयं तथा एका शक्तिः सकारस्त्रिपुरा प्रकीर्तितेत्यर्थः | १३४ | य इति | परमाक्षरीं परः परशिवस्तेन मा मानं येषां तथाभूतान्यक्षराणि यत्र तादृशीं शिवशक्तिसामरस्यरूपां निरुक्तपञ्चदशाक्षरीं यो जानातीति सम्बन्धः | त्रयोदशः प्रकाशः (षोडशीविद्यानिर्वचनम्) (षोडशीस्वरूपनिरुपणप्रतिज्ञा) अथ वक्ष्यामि तां विद्यां सर्वाद्यां सर्वसिद्धिदाम् | शब्दब्रह्ममयीं नित्यां षोडशार्णस्वरूपिणीम् | ब्रह्मविद्यास्वरूपाञ्च भुक्तिमुक्तिफलप्रदाम् || १ || (दीक्षामन्तरेण श्रीविद्याजपे दोषः) विना गुरूपदेशेन श्रीविद्यां यो जपेद् बुधः | योगिनीनां भवेद् भक्ष्यः श्रीगुरोः शासनादपि || २ || (अनधिकारिणी श्रीविद्यादाननिषेधः) षोडशार्णां महाविद्यां न दद्याद् यस्य कस्यचित् | राज्यं देयं धनं देयं वरं नेयं कदाचन || ३ || प्रकाशात् सिद्धिहानिः स्यादित्याज्ञा शम्भुना कृता || ४ || राज्ञे राज्यप्रदायापि पुत्राय प्राणदाय च | देयन्तु सर्वसाम्राज्यं पुत्रं मित्रं कलत्रकम् | शिरोऽपि प्राणसहितं न देया षोडशाक्षरी || ५ || ________________________________________________________________ १ | एवं दशमैकादशद्वादशपटलैः श्रीविद्यामन्त्रान् विस्तरतः प्रतिपाद्य पटलेऽस्मिन् पूर्वोपदर्शितषोडशीं विशेषतो निर्वक्ति अथेत्यादिना | ३ | षोडशार्णामिति | वरं राज्यं देयं धनं देयमियं कदाचन न देयेत्यर्थः | (प्. ३९३) (अस्या रहस्यत्वम्) गोपितव्या महाविद्या स्वयोनिरिव सर्वदा || ६ || (गुरुभक्ताय देयत्वम्) उदके लवणं लीनं यथा भवति वै तथा | मनो भवति वै लीनं पादयोः श्रीगुरोर्यदि | तदा देया महाविद्या कृपया षोडशाक्षरी || ७ || (षोडशीविद्याया अनुच्चार्यत्वम्) उच्चार्यमाणा ये मन्त्रास्ते सर्वे वाचिकाः स्मृताः | उच्चाररहितं वस्तु श्रीविद्या षोडशाक्षरी || ८ || (अस्याश्चातुर्विध्यम्) चतुर्विधप्रकारेण कथयामि सुदुर्लभाम् || ९ || (षोडशीविद्यानिर्णयः) दक्षिणामूर्तितन्त्रस्य या या विद्या समुद्धृता | सा सा च षोडशी विद्या सकला बीजभेदतः || १० || (विद्याया जाग्रद्रुपतासम्पादनम्) चन्द्राद्यं वरुणान्तञ्च शक्रादिसहितं पृथक् | वामाक्षिबिन्दुनादाढ्यं विश्वमातृकलात्मकम् | विद्यादौ योजनादेव जाग्रद्रूपा च षोडशी || ११ || ________________________________________________________________ १० | समुद्धृतेति, एकादशप्रकाशे इत्यर्थः | ११ | अथ पारिभाषिकीं षोडशीमाह-चन्द्राद्यमिति | चन्द्रबीजं सकारस्तदाद्यं हकारः, तथा वरुणान्तं वरुणबीजं वकारस्तदन्तं शकारः | शक्रादीति | शक्रो लकारस्तस्यादी रकारस्तत्सहितम् | पृथगित्यनेन प्रागुक्तयोर्हकारशकारयोः प्रत्येकेन रकारयोगः सूचितः | एतेन ह्र श्र इति प्राप्तम् | वामाक्षीति | वामाक्षि ईकारः बिन्दुनादौ (प्. ३९४) (जाग्रद्रूपतायां साधकस्यावस्था) उत्पत्तिर्जागरो बोधो व्यावृत्तिर्मनसः सदा | कलाचतुष्टयं जाग्रदवस्थायां व्यवस्थितम् || १२ || (जाग्रदवस्थास्वरूपम्) जाग्रत् सत्त्वगुणा प्रोक्ता केवला शक्तिरूपिणी || १३ || (त्रिकूटादिविद्यानां पञ्चकूटादित्वम्) त्रिकूटाः सकला भेदाः पञ्चकूटा भवन्ति हि | वैष्णवी वसुकूटा स्यादेवं नारायणी भवेत् || १४ || द्वितीयोऽयं प्रकारः स्याद् दुर्लभो भुवनत्रये || १५ || एषैव शिवरूपा च व्यापकत्वाच्च निश्चला | (विद्यायाः सुषुप्तिरूपता) सुषुप्तिरूपिणी साक्षाद् ब्रह्मरूपा यतो भवेत् || १६ || ________________________________________________________________ प्रसिद्धौ तैराढ्यं युक्तमित्यर्थः पृथगित्यस्यात्रापि सम्बन्धः | एवञ्च ह्र श्र इत्येतयोः प्रत्येकेन चतुर्थस्वरनादबिन्दुयोगे ह्रीं श्रीमिति बीजद्वयं लभ्यते | विद्यादाविति | अत्र तन्त्रसारकृता, पारिभाषिकीं षोडशीमाह ज्ञानार्णवे इति प्रक्रम्य चन्द्रान्तं वरुणान्तञ्च शक्रादिसहितं पृथक् | वामाक्षिबिन्दुनादाढ्यं विश्वमातृकलात्मकम् | विद्यादौ योजयेद्देवि साक्षाद् ब्रह्मस्वरूपिणी || इत्याद्येतत्समानानुपूर्वीकं वचनद्वयमुद्धृतम् | चन्द्रान्तं हकार इति व्याख्यातञ्च | तदिह चन्द्रः सकार आद्यो यस्य हकारस्य इति बहुव्रीह्याश्रयणे चन्द्राद्यशब्देन हकार एव लभ्यते इति न ज्ञानार्णववचनविरोधः | विद्यादौ पूर्वोक्तद्वादशविद्यादाविति व्याख्यातं तन्त्रसारे | एवञ्चात्रापि प्रागुक्तमन्वाद्याराधितद्वादशविद्यानामादौ निरुक्तबीजानां योजनात् महेश्वरी षोडशी जाग्रद्रूपा भवतीत्यर्थः | १२ | देव्या जाग्रद्रूपतायां साधकस्यावस्थाचतुष्टयमाह-उत्पत्तिरित्यादिना | १४-१६ | पूर्वं चन्द्राद्यमित्यादिना यद् विद्यादौ बीजद्वययोग उक्तस्तस्य फलमाह (प्. ३९५) (तत्र साधकस्यावस्था) मरणं विस्मृतिर्मूर्च्छा निद्रा च तमसावृता | सुषुप्तेस्तु कला ज्ञेया सुषुप्तिः शिवरूपिणी || १७ || जाग्रद्रूपा शाम्भवी तु बीजैकविनियोजनात् | (विद्यायाः स्वप्नरूपता) सुषुप्त्यन्ते जागरादौ स्वप्नावस्था रजोमयी || १८ || (तत्र साधकस्यावस्था) अभिलापो भ्रमश्चिन्ता विषयेषु मनःस्मृतिः | कलाचतुष्टयं स्वप्नावस्थायान्तु विधीयते || १९ || ______________________________________________________________ - त्रिकूटा इत्यादि | तन्त्रसारेऽपि चन्द्रान्तं वरुणान्तञ्चेत्यादि साक्षाद् ब्रह्मस्वरूपिणीत्यन्तमभिधाय त्रिकूटाः सकला भेदाः पञ्चकूटा भवन्ति हि | वैष्णवी वसुकूटा स्यात् षट्कूटा शाङ्करी भवेत् | इत्युक्तम् | एवञ्च प्रकृते त्रिकूटभेदानामादौ ह्रीं श्रीमित्येकाक्षरकूटद्वययोगे पञ्चकूटत्वम् | तथा षट्कूटात्मकविष्णूपासितविद्यायाः पूर्वं निरुक्तबीजद्वययोगेऽष्टकूटत्वम् | यथा ह्रीं | श्रीं | क ए ई ल ह्रीं | ह स क ह ल ह्रीं | स क ल ह्रीं इति पञ्चकूटा | यथा ह्रीं | श्रीं | ह स क ल ह्रीं | ह स क ह ल ह्रीं | स क ल ह्रीं | स ह क ल ह्रीं | स ह स क ल ह्रीं | ह स क ल ह्रीं | इत्यष्टकूटा | एवं नारायणी भवेदिति | तन्त्रसारे षट्कूटा शाङ्करी भवेदित्यभिधानादत्र नारायणी शाङ्करीत्यर्थः | तथा चा.गस्त्यस्य द्विधा विद्यामित्यादिना (१२|२१) या शङ्करोपासिता चतुष्कूटा विद्या प्रदर्शिता सा ह्रीं श्रीमिति बीजद्वयात्मककूटद्वययोगात् षट्कूटा भवेदिति फलितार्थः | तथा च ह्री/ | श्री/ | क ए ई ल ह्री/ | ह स क ह ल ह्री/ | स ह स क ल ह्री/ | क ए ई ल ह स क ह ल स ह स क ल ह्री/ | इति षट्कूटा | प्रागुक्तद्वादशभेदानां निरुक्तरीत्या कूटवृद्धिरिति ज्ञेयम् | षोडशाक्षरत्वव्यभिचारादेतासां पारिभाषिकषोडशीति संज्ञा | एवमन्यत्रापि | (प्. ३९६) (निरुक्तपञ्चकूटात्मकविद्यानां प्रणवयोगे विशेषः) पञ्चकूटात्मिका या या षोडशी शिवशक्तिका | वेदादिमण्डिता सा तु शिवशक्तिमयी भवेत् || २० || (एतदुपास्तिफलम्) अस्याः स्मरणमात्रेण गजदानशतं भवेत् | (निगमनम्) भेदत्रयन्तु कथितं सारात् सारतरं महत् || २१ || (शाम्भवकामराज-प्रथमलोपामुद्रयोर्विशेषः) वामकेश्याश्च लोपाया विशेषो भेद उच्यते | समयाङ्कमहातन्त्रभेदमालक्ष्य दुर्लभः || २२ || (कामराजषोढश्यास्त्रैविध्यम्) षोडशी कामराजाख्या त्रिधा भवति बीजतः || २३ || ________________________________________________________________ २० | पञ्चकूटात्मिकेति | पूर्वं चन्द्राद्यमित्यादिना त्रिकूटाः सकला भेदा इत्यादिना चादौ मायारमायोगनिर्वाह्यपञ्चकूटात्मिका शिवशक्तिका निरूक्तबीजद्वयरूपशिवशक्तिमयी या या विद्या प्रदर्शिता, सा सा वेदादिमण्डिता वेदादिः प्रणवस्तेन मण्डिता प्रणवपूर्विका इति भावः षट्कूटाद्यात्मिका विद्या भवतीत्यर्थः | अत्रेदमवधेयम् पूर्वं त्रिकूटानां ह्री/ श्रीमितिबीजद्वययोगेन यत् पञ्चकूटत्वमुपदर्शितं ह्री/ श्रीमित्येतयोः पूर्वं प्रणवयोगेन तासां षट्कूटत्वम् | अत्र पञ्चकूटात्मिकेत्युपलक्षणं पूर्वोपदर्शितानामष्टकूटाद्यात्मिकानां नवकूटाद्यात्मकत्वमपि साधकैरुन्नेयम् | व्यक्तमाह तन्त्रसारे वेदादिमण्डिता देवि शिवशक्तिमयी यदा | तदा भेदास्तु सकलाः षट्कूटाः परमेश्वरि | वैष्णवी नवकूटा स्यात् सप्तकूटा च शाङ्करी || इति | तथा च ओं | ह्री/ | श्री/ क ए ई ल ह्री/ | ह स क ह ल ह्री/ | स क ल ह्री/ | इति त्रिकूटायाभेदो दिङ्मात्रमुपदर्श्यते | अन्ये भेदास्त्वनेन क्रमेणोह्याः | (प्. ३९७) (तत्र प्रथमा) दत्त्वा गोपालबीजन्तु कामराजस्य पूर्वतः | षोडशी कामराजाख्या कन्दर्पाराधिता मता || २४ || (अस्याः प्रशस्तिः) अस्याः प्रसादात् कामोऽपि त्रैलोक्यविजयान्वितः | सर्वसौन्दर्यसुभगः कारयेत्त्रिजगद् वशम् || २५ || (द्वितीया) मायापुरस्कृता विद्या षोडशी सर्वदुर्लभा | श्रीकृष्णाराधिताख्येयं (अस्याः प्रशस्तिः) यतोऽभूदीश्वरः स्वयम् | यत्प्रसादात् स्वयं कृष्णो बिभर्ति च गुणत्रयम् || २६ || (तृतीया) श्रीमती षोडशी विद्या सर्वसौभाग्यदायिनी | _________________________________________________________________ २४-२५ | अथ कामराजषोडशीभेदानाह-दत्त्वेत्यादिना | दशमप्रकाशे अथ विद्यां प्रवक्ष्यामि कामदेवेन सेविताम् इत्युपक्रम्य कन्दर्पो विष्णुयुक्तं इत्यादिना या शाम्भवकामराजविद्या प्रदर्शिता सैवात्र कामराजाख्येति पदेन ग्राह्या, प्रथमप्राप्तत्वात् कन्दर्पाराधितत्वश्रवणाच्च | तथा च-क ए ई ल ह्रीं | ह स क ह ल ह्रीं | स क ल ह्रीं | इति पूर्वोपदर्शितपञ्चदशाक्षरशाम्भवकामराजविद्यायाः पूर्वतो यदि क्लीमिति गोपालबीजं योजयेत्तदैको भेदः | २६ | मायापुरस्कृतेति | निरुक्तकामराजविद्या यदि मायापुरस्कृता ह्रीमिति मायाबीजपूर्विका स्यात्तदा द्वितीया | २७ | श्रीमतीति | सा चेच्छ्रीमती आदितः श्रीमिति लक्ष्मीबीजयुक्ता स्यात्तदा तृतीया | यथा (प्. ३९८) लक्ष्म्या चाराधिता विद्या बिभर्त्ति च गुणत्रयम् | (अस्याः प्रशस्तिः) यत्प्रसादादभूल्लक्ष्मीर्वैष्णवी विष्णुवल्लभा || २७ || (अन्यादृशषोडशीस्वरूपनिरूपणप्रतिज्ञा) अपराञ्च प्रवक्ष्यामि षोडशीं सर्वदुर्लभाम् || २८ || (तत्र क्रमः) कामराजाख्यविद्यादौ कामयोनिश्रियः क्रमात् | जप्त्वा तु साधकश्रेष्ठो वागीशत्वमुपेयिवान् || २९ || ________________________________________________________________ (१) क्ली/ क ए ई ल ह्री/ | ह स क ह ल ह्री/ | स क ल ह्री/ | (२) ह्री/ क ए ई ल ह्री/ | ह स क ह ल ह्री/ | स क ल ह्री/ | (३) श्री/ क ए ई ल ह्री/ | ह स क ह ल ह्री/ | स क ल ह्री/ | वामकेश्याश्च लोपाया इत्यनेन निरुक्तकामराज्विद्यावत् प्रथमलोपामुद्राया अप्येतद् भेदत्रयमुपदिष्टमिति तदपि प्रदर्श्यते (१) क्लीं ह स क ल ह्रीं | ह स क ह ल ह्रीं | स क ल ह्रीं | (२) ह्रीं ह स क ल ह्रीं | ह स क ह ल ह्रीं | स क ल ह्रीं | (३) श्री/ ह स क ल ह्रीं | ह स क ह ल ह्रीं | स क ल ह्रीं | अत्र पञ्चदशाक्षरमन्त्रादावेकाक्षरयोजनात् षोडशाक्षरत्वं ज्ञेयम् | २८-३० | प्रकारान्तरेण षोडशीं वक्तुं प्रतिजानीते अपराञ्चेत्यादिना | कामराजेत्यादि | पञ्चदशाक्षर्याः शाम्भवकामराजविद्याया आदौ क्रमात् कामयोनिश्रियी जपेदित्यर्थः | अत्र योनिर्मायाबीजं ह्रींकारः | क्रमादिति कामयोनिश्रियः, योनिश्रीकामाः, श्रीयोनिकामाश्च | एतान् यदि क्रमेण योजयेत् तदा अष्टादशाक्षरं विद्यात्रयं भवतीत्यर्थः, अयमर्थस्तु क्रमादित्यनेन लब्धः | व्यक्तमाह तन्त्रसारधृतकुलोड्डीशे काममायारमापूर्वो माया लक्ष्मीः स्मरस्तथा | रमा माया तथा कामो वसुचन्द्राक्षरी त्रिधा || इति | एवञ्च (प्. ३९९) अस्या रहस्यत्वं प्रकर्षश्च) एषा गुप्ततमा विद्या सर्वतन्त्रेषु गोपिता | अनया सदृशी विद्या न भूता न भविष्यति || ३० || (अजपाविद्या) अपरं परमं गुह्यं कथयामि विशेषतः | अजपा च महाविद्या सर्वतन्त्रेषु निर्मला || ३१ || _________________________________________________________________ (१) क्लीं ह्रीं श्री/ क ए ई ल ह्रीं | ह स क ह ल ह्रीं | स क ल ह्रीं | (२) ह्रीं श्री/ क्लीं क ए ई ल ह्रीं | ह स क ह ल ह्रीं | स क ल ह्री/ | (३) श्री/ ह्रीं क्लीं क ए ई ल ह्री/ | ह स क ह ल ह्रीं | स क ल ह्रीं | एवं प्रथमलोपामुद्रायाः पूर्वं निरुक्तबीजयोगेन मन्त्रत्रयं भवतीति ज्ञेयम् | वामकेश्याश्च लोपाया विशेषो भेद उच्यते इति पूर्वमुक्तत्वात्, यथा तु कामराजस्य प्रकारः परिकीर्तितः | लोपामुद्राख्यविद्यायाः प्रकार ईदृशः स्मृत || इति वक्ष्यमाणत्वाच्च | तदयं लोपामुद्रायां बीजयोगः प्रदर्श्यते (१) क्लीं ह्रीं श्रीं ह स क ल ह्रीं | ह स क ह ल ह्रीं | स क ल ह्रीं | (२) ह्रीं श्रीं क्लीं ह स क ल ह्रीं | ह स क ह ल ह्रीं | स क ल ह्रीं | (३) श्रीं ह्रीं क्लीं ह स क ल ह्रीं | ह स क ह ल ह्रीं | स क ल ह्री/ | ३१ | अथाजपामन्त्रं वक्तुं प्रतिजानीते अपरमित्यादिना | अजपेति | अजपामन्त्रमाह तन्त्रसारे वियदर्द्धेन्दुलसितं तदादिः सर्गसंयुतः | अजपाख्यो मनुः प्रोक्तो द्व्यक्षरः सुरपादपः || इति | अस्यार्थः वियत् आकाशबीजं हकारस्तच्च अर्द्धेन्दुरनुस्वारस्तेन लसितम्, एतेन हम् इति प्राप्तम् | तदादिरिति | तस्य हकारस्य आदिः सकारः स च सर्गेण विसर्गेण संयुतः, एतेन सः इति प्राप्तम् | एवञ्च हंसः इत्यजपामन्त्र इत्युक्तं भवति | अस्या अजपानामबीजमाह प्राणतोषणीधृत-कुलमूलावतारकल्पसूत्रटीकायाम् विना जपेन देवेशि जपो भवति मन्त्रिणः | अजपेयं ततः प्रोक्ता भवपाशनिकृन्तिनी || (प्. ४००) यत्स्मृतेर्यज्जपाद् ध्यानादत्यन्तविनियोजनात् | सिद्धिदा सर्वकामानां शिवकण्ठविभूषिता || ३२ || (अन्यादृशषोडशीनिरूपणप्रतिज्ञा) अथापरां प्रवक्ष्यामी वागीशत्वप्रदायिनीम् || ३३ || (तत्र बृहस्पतिसेविता) गीर्वीजाद्या महाविद्या जीवेनाराधिता परा | यत्प्रसादात् सुराचार्यो वागीशत्वमुपालभत् || ३४ || (शिवसेविता) बिन्दुस्रग्बीजपूर्वा सा शम्भुना परिपूजिता || ३५ || _________________________________________________________________ ३२ | यत्स्मृतेरित्यादि | यस्या अजपायाः स्मृत्यादिना शिवकण्ठविभूषिता शक्तिः सर्वकामानां सिद्धिदा भवतीति सम्बन्धः | ३३-३४ | भगवत्याः षोडशीदेव्याः स्वरूपान्तरमाह-अथेत्यादिना | अत्रेदमवधेयम् प्रागुक्तशाम्भवकामराजविद्या प्रथमलोपामुद्रा च गोपालबीजाद्या मायाबीजाद्या श्रीबीजाद्येति त्रिधा, तथा गीर्बीजाद्या शक्तिबीजाद्या प्रणवाद्येति त्रिधा | एव~च समयाङ्कमतानुसारेण षड् भेदाः षोडश्या उपदिश्यन्ते | तत्र दत्त्वा गोपालबीजन्त्वित्यादिना विष्णुवल्लभेत्यन्तेन पूर्वभेदत्रयमुपदर्शितम् | अथान्त्यं भेदत्रयमभिदधानः प्रथमं गीर्बीजाद्यामाह-अथापरामित्यादिना | गीर्बीजाद्या वाग्भवबीजाद्या | एवञ्च ऐ/ क ए ई ल ह्रीं | ह स क ह ल ह्रीं | स क ल ह्रीं | इति षोडशाक्षरो मन्त्रः पर्यवस्यति | अनया रीत्या प्रथमलोपामुद्राया अपि ऐ/ ह स क ल ह्रीं | ह स क ह ल ह्रीं | स क ल ह्रीं | इति षोडशाक्षरो मन्त्रोऽवगन्तव्यः | ३५ | द्वितीयामाह बिन्दुस्रगिति | अत्र बिन्दुस्रग्बीजं सौरिति | सौरिति परा बीजाद्या इति आगमचन्द्रिकासंवादात् | ततश्च सौः क ए ई ल ह्रीं | ह स क ह ल ह्रीं | स क ल ह्रीं | (प्. ४०१) (कामराजलोपामुद्रयोस्तुल्यत्वम्) यथा तु कामराजस्य प्रकारः परिकीर्तितः | लोपामुद्राख्यविद्यायाः प्रकार ईदृशः स्मृतः || ३६ || (तस्या रहस्यत्वं प्रशस्तिश्च) स तु गुह्यतमस्तन्त्रे मनोरथप्रदायकः || ३७ || (निरुक्तकामराजविद्यायाः प्रणवयोगेन षोडशीत्वम्) कामराजमहाविद्या तारपूर्वा च षोडशी | उपास्या नारदेनेयं यतोऽभून्मानसी गतिः || ३८ || ________________________________________________________________ इति पराबीजघटितः षोडशाक्षरो मन्त्रः | प्रणवाद्यस्तु ३८श - श्लोकेन वक्ष्यते | अनया रीत्या प्रथमलोपामुद्राया अपि सौः ह स क ल ह्रीं | ह स क ह ल ह्रीं | स क ल ह्रीं | इति षोडशाक्षरो मन्त्रो वेदितव्यः | ३६ | यथा त्विति | अनेन कामराजविद्यावत् प्रथमलोपामुद्राया अपि निरुक्तबीजयोगेन षोडशाक्षरत्वमुपदिष्टम् | क्रमस्तु प्रदर्शित एव | ३८ | कामराजेति | इयमपि शाम्भवकामराजविद्यैव | सा तारपूर्वा प्रणवाद्या चेत्तदापि षोडश्या अपरो भेदः | पूर्ववचने यथा त्वित्यादिना प्रकार ईदृशः स्मृत इत्यन्तेन च कामराजलोपामुद्रे उपसंहृत्य पुनः कामराजविद्यामात्राभिधानात् ताराद्या कामराजमहाविद्यैव न तु प्रथमलोपामुद्राऽपीति ग्रन्थकृतामाशयः प्रतीयते | यद्वा, तारपूर्वा चेति चकारस्य कामराजमहाविद्येत्यतः परं योजनात् लोपामुद्राया अपि संग्रहोऽत्र बोध्यः | आगमचन्द्रिकादौ लोपामुद्राया अपि पूर्वं प्रणवयोगे षोडशीत्वस्य व्यक्तमभिधानात् | अत्रतदवधेयम् इतः पूर्वं शाम्भवकामराजलोपामुद्रयोरादौ तत्तद्बीजयोगेन षोडशीत्वमुपदर्शितम्, शाक्तकामराज-लोपामुद्रयोरपि निरुक्तबीजपूर्वकयोरेते भेदा बोध्याः | आगमचन्द्रिकायाम् ई ए क ल ह्रीं | ह स क ह ल ह्रीं | स क ल ह्रीं | इति शाक्तकामराजमभिधाय इयं श्रीबीजाद्या सौः इत्याद्या ऐ/ बीजाद्या ह्रीं बीजाद्या ओं बीजाद्या क्लीं बीजाद्या इति षट्प्रकारा इति व्यक्तमुक्तत्वात् | (प्. ४०२) (अन्यादृशी षोडशी विद्या) इदानीन्तु प्रवक्ष्यामि षोडशीं सर्वदुर्लभाम् | यस्या विज्ञानमात्रेण ब्रह्म साक्षान्न संशयः || ३९ || (तस्याः स्वरूपम्) सुषुप्त्यादौ जागरान्ते स्फुरत्तामात्रलक्षणा | अवस्थाशेषतां प्राप्ता तुर्या तु परमा कला | भावाभावविनिर्मुक्ता गुणातीता निगद्यते || ४० || (अस्याः कलाचतुष्टयम्) वैराग्यञ्च मुमुक्षुत्वं समाधिरमलं मनः | सदसद्वस्तुनिर्द्धारस्तुर्यायास्तु कला इमाः || ४१ || (अस्याः प्रशस्तिः) यत् प्रसादाच्छिवो देवो जगतामीश्वरो विभुः | विद्यानामुत्तमा विद्या सर्वशास्त्रेषु दुर्लभा || ४२ || एकोच्चारेण नश्यन्ति महापातककोटयः || ४३ || तीर्थस्नानसहस्राणि यज्ञदानशतानि च | तुलापुरुषलक्षाणि वाजिमेधशतानि च || ४४ || तुलां नार्हन्ति कुत्रापि नात्र कार्या विचारणा | एकोच्चारणमात्रेण किं पुनर्ब्रह्म केवलम् || ४५ || वाजपेयसहस्राणि प्रादक्षिण्यं भुवस्तथा | काश्यादितीर्थयात्राश्च सार्द्धकोटित्रयान्विताः | तुलां नार्हन्ति कुत्रापि नात्र कार्या विचारणा || ४६ || _______________________________________________________________ ३९ | अथ षोडशीमन्यादृशीं वक्तुं प्रतिजानीते इदानीन्त्वित्यादिना | (प्. ४०३) (उद्दिष्टविद्यास्वरूपनिरूपणप्रतिज्ञा) सङ्केतेन प्रवक्ष्यामि श्रीगुरोः कृपया पराम् | सर्वथा गोपयेद् विद्यां यदीच्छेदात्मनो हितम् || ४७ || (विद्यायाः स्वरूपम्) सान्तान्तं शिवपूर्वसप्तमयुतं सूक्ष्मान्तमन्त्रान्वितं देवीं दक्षिणबाहुशक्रनयनं कामं कलालाञ्छितम् | दन्तान्तोर्द्ध्वमुखं सजीवदशनं शेषं मुखेनान्वितं बीजं पञ्चकमित्थमेवमुदितं सर्वार्थसिद्धिप्रदम् || ४८ || (बीजान्तरयोगः) वेदाद्यं त्रिगुणां रमामथ वदेत् कामेन संसेवितां लोपां वा पुनरेव पञ्चकमथो पूर्वं विलोमक्रमात् | _______________________________________________________________ ४८ | अथ षोडशीमन्यादृशीमाह सान्तान्तमित्यादिना | सः अन्तो यस्य स सान्तः षकारः, सोऽपि षकारोऽन्तो यस्य स सान्तान्तः शकारस्तं, शिवपूर्वसप्तमयुतं शिवो हकारस्तत्पूर्ववर्ती विलोमेन पठितः सप्तमो रकारस्तद्युतम् | एतेन श्र इति प्राप्तम् | सूक्ष्ममिकारस्तस्यान्त ईकारः तथा मस्तं मस्तकमनुस्वारस्ताभ्यामीकारानुस्वाराभ्यामन्वितं युक्तमिति सान्तान्तविशेषणम् | एतेन श्रीमिति रमाबीजं लभ्यते | अथा मायाबीजमाह-देवीमिति | देवीं मायां ह्रीमिति मायाबीजमित्यर्थः | ततः कामबीजमाह-दक्षिणेत्यादिना | दक्षिणबाहुः ककारः, शक्रो लकारः तयोर्नयनं मेलनं यत्र तथाभूतं कामं बिन्दुं कला कामकला ईकारस्तेन लाञ्छितम् | एतेन क्लीमिति बीजं लभ्यते | दन्तान्तोर्द्ध्वमुखमिति | दन्तान्त ऐकारः, ऊर्द्ध्वमुखं मुखस्योर्द्ध्व बिन्दुः | एतेन ऐ/ इति वाग्भवबीजं प्राप्तम् | सजीवेति | जीवः सकारस्तेन सह वर्तमानं दशनमौकारं मुखेन विसर्गेणान्वितम्, लिखेइदिति शेषः | बीजमिति | इत्थं प्रागुक्तरूपं श्रीं ह्रीं क्लीं ऐ/ सौः इति बीजपञ्चकं सर्वार्थसिद्धिप्रदमुदितमिति सम्बन्धः | ४९ | निरुक्तबीजपञ्चकानन्तरं योज्यानि बीजान्याह वेदाद्यमित्यादिना | वेदाद्यः प्रणवः, त्रिगुणा माया ह्रीं, रमा श्रीं इति वदेदिति सम्बन्धः | अथ श्रीं ह्रीं क्लीं ऐ/ (प्. ४०४) (अस्याः प्रशस्तिः) एषा श्रीः परमा परात् परतरा सर्वार्थसिद्धिप्रदा सारात् सारतरा समस्तजगतामुत्पत्तिभूता शिवा || ४९ || साक्षाद् ब्रह्मस्वरूपा सुरमुनिनिवहैर्वन्दितानन्दरूपा संसारस्यैकसारा त्रिभुवनजननी धर्मकर्मोदया या | सेयं श्रीब्रह्मविद्या सकलगुणमयी निर्गुणा निष्प्रपञ्चा विद्येयं सर्वपूर्वा सकलहितकरी चित्कलानन्तरूपा || ५० || (अस्या रहस्यत्वं प्रशस्तिश्च) राज्ञे साम्राज्यराज्यं वरमपि च शिरः स्वर्णरत्नञ्च देयं पुत्रो मित्रं कलत्रं सकलपरिजनश्चाथवा नैव देया | श्रीविद्या षोडशार्णा सकलगुणमयी देवदेवैकवन्द्या सर्वाम्नायैः प्रपूज्या सकलहितकरी गोपनीया प्रयत्नात् || ५१ || (अस्या अनिर्वाच्यस्वरूपत्वम्) वक्त्रकोटिसहस्रैस्तु जिह्वाकोटिशतैरपि | वर्णितुं नैव शक्तेयं श्रीविद्या षोडशाक्षरी || ५२ || ________________________________________________________________ सौः ओं ह्रीं श्रीमिति निरुक्तबीजानन्तरम्, कामेन संसेवितां क ए ई ल ह्रीं | ह स क ह ल ह्रीं | स क ल ह्रीमिति कामदेवसंसेवितशाम्भवकामराजविद्याम्, लोपां वेति ह स क ल ह्रीं | ह स क ह ल ह्रीं | स क ल ह्रीमिति प्रथमलोपामुद्रां वा वदेदिति सम्बन्धः | अन्ते बीजयोगमाह पुनरेवेति | अथो पुनः पूर्वं पञ्चकं सान्तान्तमित्यादिना रमामित्यन्तेनोक्तं श्रीं ह्रीं क्लीं ऐ/ सौः इति बीजपञ्चकं विलोमक्रमात् सौः ऐ/ क्लीं ह्रीं श्रीमिति क्रमाद् वदेदिति सम्बन्धः | (प्. ४०५) (वैखर्याद्यनभिव्यज्यत्वम्) वैखरी वाच्यभावत्वादशक्ता गुणवर्णने | यतो निरक्षरं वस्तु परा तत्र तु कारणम् || ५३ || ________________________________________________________________ ५३-५४ | वक्त्रकोटिसहस्रैस्त्वित्यादिना यदस्या निरुपाख्यरूपत्वमुक्तं तत्र हेतुमाह- वैखरीत्यादिना | अत्रेदमवधेयम् वाक् चतुर्धा भिद्यते परा पश्यन्ती मध्यमा वैखरी चेति | आसां स्वरूपं संक्षेपेण विविच्यते | सारदातिलके प्रथमपटले सृष्टिप्रकरणे अर्थसृष्ट्यनन्तरं शब्दसृष्टिनिरुपणावसरे द्विचत्वारिंशता मूले गुणिता विश्वनायिका | सा प्रसूते कुण्डलिनी शब्दब्रह्ममयी विभुः || शक्तिं ततो ध्वनिस्तस्मान्नादस्तसान्निरोधिका | ततोऽर्द्धेन्दुस्ततो बिन्दुस्तस्मादासीत् परा ततः || पश्यन्ती मध्यमा वाचि वैखरी शब्दजन्मभूः | इत्युक्तम् | एवञ्च शब्दब्रह्मस्वरूपिणी कुण्डलिनी प्रथमं शक्तिं प्रसूते | ततो ध्वनिस्तस्मान्नाद् इत्यादिक्रमेण बिन्द्वन्ताः परशक्तेरेवावस्थाभेदा ग्रन्थगौरवभिया न व्याख्यायन्ते, विस्तरस्तु सारदातिलके राघवभट्टकृतायां तट्टीकायाञ्चानुसन्धेयः | तस्माद् बिन्दोः परा नादात्मिका शब्दसृष्टिर्भवति | तस्या एव परायाः क्रमेण पश्यन्ती मध्यमा वैखरी चेति त्रिविधा शब्दसृष्टिः | तत्र परा मूलाधारे सूक्ष्मा ज्योतिर्मात्रस्वरूपा | तत ऊर्द्ध्वगामिनी पश्यन्ती स्वाधिष्ठाने | ततोऽप्युद्गच्छन्ती मध्यमा हृदये | ततोऽप्युद्गच्छन्ती वैखरी मुखे | आसु च क्रमेणोत्तरोत्तरं स्थूलरूपता मवाप्तासु चरमं स्थौल्यमधिगच्छन्ती वैखरी शब्दप्रपञ्चं जनयति | तथा च राघवभट्टधृतं वचनम् सूक्ष्मा कुण्डलिनी मध्ये ज्योतिर्मात्रात्मरूपिणी | अश्रोत्रविषया तस्मादुद्गच्छत्यूर्द्ध्वगामिनी || स्वयंप्रकाशा पश्यन्ती सुषुम्णामाश्रिता भवेत् | सैव हृत्पङ्कजं प्राप्य मध्यमा नादरुपिणी || ततः संजल्पमात्रा स्यादविभक्तोर्द्ध्वगामिनी | सैवोरःकण्ठतालुस्था शिरोघ्राणरदस्थिता || (प्. ४०६) जिह्वामूलोष्ठनिस्यूतसर्ववर्णपरिग्रहा | शब्दप्रपञ्चजननी श्रोत्रग्राह्या तु वैखरी || इति | तन्त्रराजे षड्विंशपटलेऽपि स्वात्मेच्छाशक्तिघातेन प्राणवायुस्वरूपतः | मूलाधारे समुत्पन्नः पराख्यो नाद उत्तमः || स एवोर्द्ध तया नीतः स्वाधिष्ठाने विजृम्भितः | पश्यन्त्याख्यामवाप्नोति तथैवोर्द्ध्व शनैः शनैः || अनाहते बुद्धितत्त्वसमेतो मध्यमाभिधः | तथा तयोर्द्धनुन्नः स विशुद्धौ कण्ठदेशतः || वैखर्याख्यस्ततः शीर्षकण्ठताल्वोष्ठदन्ततः | जिह्वामूलाग्रपृष्ठस्थस्तथा नासाग्रतः क्रमात् || कण्ठताल्वोष्ठकण्ठौष्ठाद्दन्तौष्ठद्वयतस्तथा | समुत्पन्नान्यक्षराणि क्रमादादिक्षकावधि || आदि-क्षान्तरतेत्येषामक्षरत्वमुदीरितम् | तेषु स्वराः स्वतन्त्राः स्युस्तैर्व्यज्याद् व्यञ्जनं भवेत् || इति (५-१०) एवञ्च सर्वेषां प्राणिनां मूलाधारे ज्योतिर्मात्रात्मिका | मूलाधारोद्भवो वायुः प्राणाद्याख्यां समश्नुते | इति तन्त्रराजसप्तविंशपटलोक्त रूपप्राणवायुस्वरूपा परमात्मनः स्वेच्छाशक्त्याघातेन समुत्पना नादात्मिका परा वाक् अतिसूक्ष्मरूपेत्युक्तं भवति, इयमेव प्रथमावस्था | सैव नादात्मिका परा तया परमात्मन इच्छाशक्त्या प्रेरिता क्रमेणोर्द्ध्वगामिनी स्वाधिष्ठाने विजृम्भिता पूर्वतो व्यक्तरूपा पश्यन्तीत्याख्यां भजते | तयैवेच्छाशक्त्या प्रेरिता क्रमादनाहतपद्मे विजृम्भिता मध्यमेत्याख्यामवाप्नोति | ततश्च तथैवेच्छाशक्त्या प्रेरिता क्रमेण कण्ठदेशस्थिते विशुद्धाख्ये चक्रे विजृम्भिता वैखरीत्याख्यामधिगच्छन्ती स्वेच्छावशात् शीर्षकण्ठताल्वोष्ठदन्तादि- सम्बन्धतोऽकारादिक्षकारान्तानेकपञ्चाशद्वर्णान् सृजति | एतदभिप्रायेणैव लक्ष्मणाचार्यैरपि सारदायां प्रथमपटले क्रमेणानेन सृजति कुण्डली वर्णमालिकाम् | इत्युक्तम् | इदानीं प्रकृतमनुसरामः | वैखरीति | प्राणान्ते नापि वक्तव्या तुरीया षोडशाक्षरी | शब्दातीतपरा वस्तु सम्बिज्ज्ञानस्वरूपिणी | (प्. ४०७) मूकीभूता हि पश्यन्ती मध्यमा मध्यमा भवेत् | (प्रशस्तिः) ब्रह्मविद्यास्वरूपा च भुक्तिमुक्तिफलप्रदा || ५४ || प्राणान्ते नापि वक्तव्या तुरीया षोडशाक्षरी | शब्दातीतपरा वस्तु सम्बिज्ज्ञानस्वरूपिणी || ५५ || (अस्या विद्यान्तरप्रकृतित्वम्) अस्मान्मन्त्रान्निःसरन्ति महामन्त्राः सहस्रशः | विस्फुलिङ्गा यथा यान्ति सुतप्तलोहगोलकात् || ५६ || (पुनरस्या रहस्यत्वम्) विद्यया सह मर्तव्यं न देया यस्य कस्यचित् || ५७ || _________________________________________________________________ इति वक्ष्यमाणवचनेन अस्या विद्यायास्तुरीयचैतन्यस्वरूपत्वं प्रतिपादयिष्यते, तुरीयचैतन्यस्वरूपत्वाच्चेयं शब्दातीता श्रवणेन्द्रियाग्राह्या च, अत एव सा परा प्रागुक्तानां परा-पश्यन्ती-मध्यमा-वैखरीरूपाणां शब्दब्रह्मणोऽवस्थाभेदानां प्रथमावस्थारूपाऽतिसूक्ष्मा मूलाधारमात्रस्थिता शब्दातीतत्वादवाच्या च | वैखरी तु श्रवणेन्द्रियविषयीभूतस्थूलशब्दमात्रविषयिणी कण्ठस्थिते विशुद्धाख्यचक्रे विजृम्भमाणा कथं सूक्ष्मातिसूक्ष्मातिदूरे मूलाधारे विहरन्तीं पराविद्यामिमां विषयीकुर्यादित्येवाह वैखरी वाच्यभावत्वादित्यादिना | वाच्यभावत्वात् वाच्यो वाग्विषयो भावः सत्ता यस्यास्तथाभूतत्वात् इन्द्रियगोचरवर्णमात्रविषयत्वादित्यर्थः, वैखरी पूर्वोक्तरूपा अस्या विद्याया इन्द्रियागोचरीभूताया गुणवर्णने अशक्ता इत्यर्थः | एतदेवाह-यत इत्यादिना | यत् इयं विद्या निरक्षरम् अक्षरातीतं वस्तु अतोऽक्षरव्यञ्जिका वैखरी गुणवर्णने अशक्तेति सम्बन्धः | तर्हि का शक्ता इत्यत आह-परेति, तस्या गुणवर्णने कारणं परैव, शक्त्यन्तरं मूकीभूतेत्यर्थः | अथापराभ्यां पश्यन्तीमध्यमाभ्यां शक्तिभ्यां कथं नास्याः स्वरूपोपलब्धिरित्यत आह-मूकीभूतेति | एतेन पूर्वोक्तयुक्त्या पश्यन्तीमध्यमयोरप्यस्या गुणवर्णनेऽसामर्थ्यमिति ज्ञेयम् | मध्यमा मध्यमा भवेदिति | पश्यन्ती-वैखर्योर्मध्ये (प्. ४०८) (सच्छिष्याय देयत्वम्) शिष्याय भक्तियुक्ताय सत्यवाक्यपराय च | प्रदद्यान्मन्त्रराजन्तु (दाने क्रमः) जले संलिख्य साधकः || ५८ || शिष्यमूर्ध्नि पदं दत्त्वा दिव्याचारक्रमेण तु | लक्षमेकं तदर्द्धं वा गजान्तकसहस्रकम् || ५९ || एकाकी शिवगेहे तु जप्त्वा मन्त्रं प्रकाशयेत् | श्रीमत्त्रिपुरसुन्दर्या (निरुक्तक्रमविपर्यये दोषः) नान्यथा सिद्धिदा भवेत् || ६० || (अथास्या अपरे भेदाः) अथास्या अन्यभेदास्तु कथ्यन्ते तन्त्रयोगतः | (तत्र परिपाटी) अस्या मध्यात् कामराजं लोपां वा संत्यजेत्ततः || ६१ || दक्षिणामूर्तितन्त्रस्य सर्वविद्याः क्षिपेत् क्रमात् | तदा च सकला भेदास्तुरीया षोडशी भवेत् || ६२ || __________________________________________________________________ वर्तमानत्वात् मध्यमा मध्यस्थिता मध्यमानाम्नी शक्तिरपि अस्या गुणवर्णने मूकीभूतेति सम्बन्ध इत्यास्तां विस्तरः | ६१-६२ | सान्तान्तं शिवपूर्वसप्तमयुतमित्यादिना षोडश्या मन्त्रभेदमभिधाय अस्मान्मन्त्रान्निःसरन्तिमहामन्त्राः सहस्रश इत्युक्तम्, इदानीं तेषामेव कांश्चिन्मन्त्रान् दर्शयति अस्या मध्यादित्यादिना | तथा च सान्तान्तमित्यादिनोपदर्शितान् आद्यन्तयोरनुलोमविलोमपठितान् वर्णान् यथापूर्वमुच्चारयेत् | निरुक्तं शाम्भवकामराजं लोपामुद्रां च मध्यतः परित्यज्य तत्र प्रागुपदर्शिता दक्षिणामूर्तितन्त्रोक्ताः सर्वा विद्याः क्रमेण क्षिपेत् | एवञ्चैतद्बीजैस्तत्तन्मन्त्रयोजनादेकैका विद्या भवतीति | (प्. ४०९) (तत्रैकतमस्यापि ज्ञानं शिवतासम्पादकम्) एषामन्यतमं ज्ञात्वा ज्ञातव्यं नावशिष्यते | स ईशो वा नास्ति भेदः सत्यं सत्यं सुनिश्चितम् || ६३ || (एतन्मन्त्राभ्यासजन्यः साधकस्य शक्तिप्रकर्षः) विषं निर्विषतां याति जलं स्तम्भयति ध्रुवम् | जलीकरोति भुवनं भुवनीकुरुते जलम् || ६४ || वह्निं जलमयं कुर्याज्जलं वह्निञ्च कारयेत् | व्यत्ययं कुरुते सर्वं दृढाभ्यासान्न संशयः || ६५ || इति श्रीपूर्णानन्दपरमहंसविरचिते श्रीतत्त्वचिन्तामणौ त्रयोदशः प्रकाशः || १३ || चतुर्दशः प्रकाशः (प्रातःकृत्यम्, तत्र श्रीगुरुमन्त्र-नवकुलनाथ- गुरुमण्डलादिनिरूपणम्) (श्रीमत्त्रिपुरासपर्यावतारः) नित्यानन्दमहोदयां स्मितमुखीमालोलनेत्रत्रया- मुद्यत्सूर्यजवाङ्गरागरुचिरां भक्तैककल्पद्रुमम् | नत्वा तां त्रिपुरां परां परशिवक्रोडे समुल्लासितां पूर्णानन्द-यतिस्तनोति विमलं तत्पादपद्मार्चनम् || १ || (प्रातःकृत्यम्, तत्र सहस्रारे श्रीगुरोर्ध्यानम्) सहस्रदलपङ्कजे सकलशीतरश्मिप्रभं वराभयकराम्बुजं निजकुलेन संश्लेषितम् | प्रसन्नवदनेक्षणं सकलदेवतारूपिणं स्मरेच्छिरसि हंसगं तदभिधानपूर्वं गुरुम् || २ || (गुरु-शक्त्योः पूजनं तन्मन्त्रजपश्च) प्रातर्यथाक्रमवशाद् गुरुदेवशक्ती पद्मासनः शिवशिवामभिरूपतश्च | ________________________________________________________________ १ | एवं पूर्वप्रकाशान्तेन ग्रन्थेन श्रीमत्त्रिपुरसुन्दरीविद्यानिरूपणान्तमभिधाय प्रकाशेऽस्मिन् प्रातःकृत्यादिकमभिधास्यन् प्रथमं देवीनमस्कारपुरःसरं सपर्यानिरूपणमवतारयति नित्यानन्देत्यादिना | २ | श्रीगुरुध्यानस्वरूपमाह-सहस्रेति | अस्य व्याख्यानन्तु दशशतदलपद्म इत्यादिग्रन्थादिमश्लोकव्याख्यानदृष्ट्याऽवगन्तव्यम् | निजकुलेन स्वशक्त्या | ३ | प्रातरिति | प्रातरिति पदं पूर्वश्लोकेऽपि योजनीयम्, प्रातः शिरसि (प्. ४११) नानाविधोपकरणादिभिरेव मन्त्री संपूज्य तन्मनुवरं मनसा जपेत् त्रिः || ३ || (श्रीगुरुमन्त्रः) हसौः पदं समालिख्य ह-स-क्ष-म-ल-वानिलान् | वह्नियुक्तांस्त्रिधा जप्त्वा पूर्वदीर्घत्रयान्वितान् || ४ || बिन्दुनादकलायुक्ताञ् श्रीपरान्ते च पारकम् | सर्वाराध्यपदं पश्चात् सर्वमूर्द्धपदं ततः || ५ || नाथसर्वगुरुप्रान्ते गुरुः स्वयं ततो गुरुः | श्रीगुरुनाथशब्दान्ते स-ह-क्ष-म-ल-वानिलान् || ६ || रेफदीर्घश्रुतियुतान् बिन्दुनादकलान्वितान् | पिण्डीकृतं लिखेदाद्यं चतुर्थञ्च ततो लिखेत् || ७ || ________________________________________________________________ शुक्लाब्जे द्विनेत्रं द्विभुजं गुरुम् इत्यादिदर्शनात् | गुरुदेवशक्तीति गुरुदेवञ्च शक्तिञ्च, अभिरूपतः अभिरूपे शिवशिवात्मिके गुरुदेवशक्ती नानाविधोपकरणादिभिर्मानसैरिति शेषः, संपूज्येति सम्बन्धः | ५-९ | पूर्ववचने तन्मनुवरं मनसा जपेदित्युक्तम्, तमेव मनुमाह-हसौरित्यादिना गुरोर्मनुरित्यन्तेन | प्रथमं हसौरिति पदं लिखेत् ततश्च ह स क्ष म ल वानिलानिति | अनिलो वायुबीजं यकारः | अनेन ह स क्ष म ल व य इति प्राप्तम् | वह्नियुक्तानिति वह्नी रकारस्तद्युक्तान् एतेन ह स क्ष म ल व य र इति प्राप्तम् | ततश्च पूर्वदीर्घत्रयान्वितान् पूर्वदीर्घत्रयेण द्वितीयचतुर्थषष्ठस्वरैः अन्वितान् अनु पश्चादन्त्यावच्छेदे इतान् युक्तान् | एतेन रकार एव दीर्घस्वरयोग उक्तः | तथा बिन्दुनादकलायुक्तान् तान् हकारादिरकारान्तवर्णान् त्रिधा कृत्वा निरुक्तदीर्घस्वरत्रयभेदेन क्रमशो विभज्येत्यर्थः | एवञ्च ह्सौः ह स क्ष म ल व य रां, ह स क्ष म ल व य रीं, ह स क्ष म ल व य रूं इत्यन्तं प्राप्तम् | श्रीपरान्त इति | श्रीपरान्ते श्रीपरेत्यनन्तरं पारकं पर एव पारकम् | अत्र पर इति वक्तव्ये छन्दोऽनुरोधात् स्वार्थेऽण्-क-प्रत्ययौ | अनेन श्रीपरापर इति प्राप्तम् | ततः सर्वाराध्येति, ततश्च सर्वमूर्द्ध्वनाथेति ततश्च (प्. ४१२) तृतीयञ्च द्वितीयञ्च पूर्ववद् विलिखेततः | मन्त्री श्रीशम्भुगुर्वन्ते पुनराद्यं समालिखेत् || ८ || आद्यकूटचतुर्थञ्च पुनराद्यं तृतीयकम् | चत्वारिंशन्नागवर्णैर्मण्डितोऽयं गुरोर्मनुः || ९ || (श्रीगुरोर्मन्त्रान्तरम्) अथवा वाग्भवं मायां लक्ष्मीबीजं समुद्धरेत् | ह स ख फ्रें तथाऽनन्दभैरवाख्यं स ह ख फ्रेम् | गुरुनाम तथा शक्तिनाम श्रीपादुकां स्मरेत् || १० || ________________________________________________________________ सर्वगुर्वित्यनन्तरं गुरुस्वयंगुरुश्रीगुरुनाथेति वदेदित्यर्थः | स ह क्षेति रेफो रकारः दीर्घश्रतिः दीर्घाणां तृतीयवर्ण उकारः, रेफेण सहिता दीर्घश्रुतिस्तद्युतान् इत्यर्थः | तथा बिन्दुनादकलान्वितान् एतेन रूं इति प्राप्तं समष्ट्या तु स ह क्ष म ल व य रूं इति लब्धम् | पिण्डीकृतमिति समष्टिरूपमाद्यं लिखेत् | एतेन ह्सौः इति प्राप्तम् | ततश्चतुर्थं ह स क्ष म ल व य रूं इति | तृतीयं ह स क्ष म ल व य रीं इति | द्वितीयं ह स क्ष म ल व य रां इति पूर्ववल्लिखेत् | ततः श्रीशम्भुगुर्वन्ते श्रीशम्भुगुवित्यनन्तरं पुनराद्यं हसौः इति समालिखेदित्यर्थः | पाठोऽयं प्रामादिक इति प्रतिभाति | आद्येति | आद्यकूटं हसौरिति तस्य चतुर्थं ह स क्ष म ल व य रूं | पुनराद्यं ह्सौरिति लिखेत् | तृतीयकमिति आद्यकूटमपेक्ष्य | ततश्च ह स क्ष म ल व य रीं इति लिखेदिति श्रीगुरुमन्त्रः | मन्त्रोऽयं समाहारेण प्रदर्श्यते | ह्सौः ह स क्ष म ल व य रां ह स क्ष म ल व य रीं ह स क्ष म ल व य रूं श्रीपरापरसर्वाराध्यसर्वमूर्द्धनाथ-सर्वगुरु- गुरु-स्वयंगुरु-श्रीगुरुनाथ स ह क्ष म ल व य रूं ह्सौः ह स क्ष म ल व य रूं ह स क्ष म ल व य रीं ह स क्ष म ल व य रां श्रीशम्भु (मद्) गुरु ह्सौः ह स क्ष म ल व य रूं ह्सौः ह स क्ष म ल व य रीं इति श्रीगुरुमन्त्रः | कौलावलीनिर्णये प्रथमोल्लासेऽप्येवमेव प्रमाणं दृश्यते | वर्णसंख्यानिरूपणपूर्वकं मन्त्रं निगमयति | चत्वारिंशदिति | हसक्षेत्यादिनवकूटानि तत्तत्कूटत्वेन एकैकाक्षराणीति नवाक्षरलाभः | हसौरित्यादयोऽपरे ऊनचत्वारिंशद्वर्णा इति मिलित्वाऽष्टचत्वारिंऽसद्वर्णात्मकोऽयं गुरुमन्त्र इत्यर्थः | १० | पूर्वतः संक्षिप्तं मन्त्रान्तरमाह-अथवेत्यादिना | वाग्भवः ऐ/, माया ह्रीं, (प्. ४१३) (निरुक्तगुरुमन्त्रजपसंख्या) दशधा सप्तधा वापि त्रिधा वैनां जपेत् सुधीः | (जपसमर्पणम्) जपं समर्पयेन्मन्त्री श्रीगुरोर्दक्षिणे करे || ११ || (प्रातः श्रीगुरुस्तोत्रपाठस्य कर्तव्यता) स्तुवीत पञ्चभिः श्लोकैस्तं नित्यं सर्वसिद्धये | प्रातः प्रबोधसमये जपात् सुदिवसं भवेत् || १२ || (श्रीगुरुस्तुतिः) नमस्ते नाथ भगवञ् शिवाय गुरुरूपिणे | विद्यावतारसंसिद्ध्यै स्वीकृतानेकविग्रह (१) || १३ || नारायणस्वरूपाय परमात्मस्वरूपिणे | सर्वज्ञान-तमोभेदभानवे च चिदात्मने (२) || १४ || स्वतन्त्राय दयाकॢप्तविग्रहाय शिवात्मने | परत्रेह च भक्तानां भव्यानां भव्यदायिने (३) || १५ || _________________________________________________________________ लक्ष्मीबीजं श्रीं, एवञ्च प्रथमम् ऐ/ ह्रीं श्रीमिति बीजत्रयमुद्धरेत् | ततो ह स ख फ्रें इति | ततश्च आनन्दभैरवाख्यम् आनन्दभैरवस्य मनुं ह स क्ष म ल व र यूं इत्यानन्दभैरवमन्त्रः | ततश्च स ह ख फ्रें ह स क्ष म ल व र यूं (आनन्दभैरवाय वौषट्) स ह ख फ्रें | श्री अमुकानन्दनाथ श्री अमुकीदेव्यम्बा श्रीपादुकां स्मरामी (पूजयामी)ति मन्त्रः पर्यवस्यति | अत्र गुरुरानन्दनाथान्तश्चाम्बान्ता शक्तिरीरिता इति मातृकाभेदतन्त्रसप्तमपटलवचनदर्शनाद् गुरुनामशक्तिनामेत्यनेन आनन्दनाथान्ताम्बान्तश्रीगुरुतच्छक्तिनाम ग्रहणीयम् | (प्. ४१४) विवेकिनां विवेकाय विमर्षाय विमर्षिणाम् | प्रकाशिनां प्रकाशाय ज्ञानिनां ज्ञानरूपिणे (४) || १६ || पुरस्तात् पार्श्वयोः पृष्ठे नमस्कुर्यादुपर्यधः | सदा सच्चित्तभावेन विधेहि तव दासताम् (५) || १७ || (श्रीगुरु-नमस्कारः) स्तुतीः कृत्वा नमस्कुर्यादनेन मनुना ततः || १८ || अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया | चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः || १९ || त्वत्प्रसादादहं देव कृतकृत्योऽस्मि सर्वतः | मायामृत्युमहापाशाद् विमुक्तोऽस्मि शिवोऽस्मि च || २० || (कुलनाथ-(श्रीगुरु)ध्यानस्थाननिरूपणम्) ततः कुलमुखस्योर्द्ध्वं कुलनाथान् विचिन्तयेत् || २१ || (कुलनाथतत्पूजननिरूपणप्रतिज्ञा) कुलनाथान् प्रवक्ष्यामि शिवरूपपरिग्रहान् | विद्यावतारसोपानभूतांस्तत्पूजनं तथा || २२ || ________________________________________________________________ २१ | एवं श्रीगुरुनमस्काअरान्तमभिधाय कुलनाथचिन्तनमुपदिशति तत इत्यादिना | कुलनाथान् श्रीगुरून् विचिन्तयेत् | क्वेत्यत आह-कुलमुखस्येति | अत्र कुलशब्देन कुलकुण्डलिनीसहस्रारगमनपथरूपा सुषुम्णा नाड्युच्यते, तस्य मुखं सहस्रारादधो वर्तमानं तस्योर्द्ध्वे सहस्रारे इत्यर्थः | कुलनाथान् विचिन्तयेदित्यर्थः | तदुक्तं पादुकापञ्चके तत्र नाथचरणारबिन्दयोः कुङ्कुमासवपरीमरन्दयोः | द्वन्द्वमिन्दुमकरन्दशीतलं मानसं स्मरति मङ्गलास्पदम् || इति | २२ | अथ क इमे कुलनाथा नाम इत्याकाङ्क्षायामाह कुलनाथानित्यादि | (प्. ४१५) (दिव्यकुलनाथत्रयनिरूपणम्) प्रकाशोऽथ विमर्षोऽन्य आनन्दोऽपर इत्यपि | नामभेदादहं लोके कल्पयन् दिव्यरूपतः || २३ || (सिद्धकुलनाथत्रयनिरूपणम्) त्रयस्तेभ्यः समुत्पन्नाः सिद्धाश्च त्रय एव ते | ज्ञानः सत्यः पूर्ण इति श्रीमुखास्ते समीरिताः || २४ || __________________________________________________________________ शिवरूपपरिग्रहान् शिवस्य परमशिवस्य यद्रूपं स्वरूपं तत् परिगृह्यते यैस्तथाभूतान् | एतेनैतेषां शिवरूपत्वं नित्यविग्रहत्वञ्चोक्तम् | व्यक्तमाह तन्त्रराजे प्रथमपटले अथ नाथान् प्रवक्ष्यामि मद्रूपान् नित्यविग्रहान् इति | विद्यावतारेति | विद्यायास्तन्त्रविद्याया अवतारस्य सोपानभूतान् | भगवान् परमशिव एव तत्तत्कुलनाथरूपेणावतीर्य तन्त्राण्यशेषाण्युपदिशतीति तात्पर्यम् | तत्पूजनं तथेति | कुलनाथान् तथा तत्पूजनं तेषां कुलनाथानां पूजनं प्रवक्ष्यामीति सम्बन्धः | २३ | कुलनाथास्त्रिविधा भवन्ति दिव्याः, सिद्धा भौमाश्चेति | तत्र प्रथमं दिव्यानाह प्रकाश इत्यादिना | अहं पूर्णाहन्तारूपः परमशिवः नामभेदात् प्रकाशविमर्षानन्दरूपनामत्रयभेदादित्यर्थः दिव्यरूपत आत्मानं कल्पयन् अस्मीति शेषः | तथा च प्रकृतिभूतस्य परमशिवस्य प्रकाशविमर्षानन्दरूपतया तद्विकृतिभूतस्य नाथत्रयस्यापि तत्तद्रूपत्वम् | दिव्यरूपत इत्यनेनैतेषां दिव्यगुरुत्वमुक्तम् | व्यक्तमाह गन्धर्वतन्त्रे षड्विंशपटले गुरुर्भूत्वैव भगवान् महाविद्यां ददाति वै | दिव्यो गुरु ऋषिः सोऽथ दिव्यां विद्यां प्रकाश्य च || दिव्यौघानकरोच्छिष्यान् वक्ष्येऽथ शृणु पार्वति | प्रकाशोऽथ विमर्शोऽन्य आनन्दोऽपर इत्यपि || नामभेदादहं लोके कल्पयन् दिव्यरूपतः | इत्यादि | २४ | एवं दिव्यान् कुलनाथान् निरूप्य सिद्धानाह-त्रय इत्यादिना | तेभ्यः प्रागुक्तप्रकाशादिदिव्येभ्यस्त्रयः समुत्पन्नास्त्रय एव ते सिद्धाश्चेत्यर्थः | तेषां संज्ञा आह-ज्ञान इत्यादिना | तथा च ज्ञानः सत्यः पूर्ण इत्येते त्रयः कुलनाथाः सिद्धव्यपदेशिनः प्रागुक्तदिव्यगुरुभ्यः समुत्पन्ना इति स्थितम् | तान् विशेषयति श्रीमुखा इति श्रीशब्दपूर्वका इत्यर्थः | (प्. ४१६) दिव्या वसन्ति खे नित्याः सिद्धा भूमाविहापि च | (तेभ्योऽपरकुलनाथत्रयोत्पत्तिः) निवसन्ति ततस्तेभ्यः समुत्पन्नास्त्रयस्तथा || २५ || (भौमकुलनाथत्रयम्) स्वभावः प्रतिभस्तद्वत् सुभगश्चेति नामतः | ते भूमावेव सततं निवसन्ति शिवात्मकाः || २६ || (निरुक्तकुलनाथैस्तन्त्रशास्त्रस्य प्रवर्तनम्) एतैश्च नवभिस्तन्त्रं लोके प्रथितवैभवम् | अकल्पयत् कादिशक्तीस्तदनन्या कृते युगे || २७ || (एतेषां रूपम्) एते द्विनेत्रा द्विभुजा ललिताकारसंयुताः | प्रसन्नवदनाः स्मेरा वराभयकरान्विताः || २८ || _______________________________________________________________ २५ | अथैतेषां स्थानं निर्वक्ति दिव्या इत्यादिना | तत्र दिव्याः प्रकाश- विमर्षानन्दरूपाः नित्याः नित्यविग्रहाः कुलनाथाः खे सहस्रारान्तर्वर्तिनि शून्ये वसन्ति | अत्र तन्त्रराजप्रथमपटल-गन्धर्वषड्विंशपटलयोरेतत्समानानुपूर्वीके वचने दिव्या मदन्तिके नित्यमिति पाठो दृश्यते | सिद्धानां स्थानमाह-सिद्धा इत्यादिना | सिद्धाः ज्ञान-सत्य-पूर्णात्मानः भूमौ इहापि च वसन्ति | अथ भौमान् कुलनाथानाह | तेभ्यः प्रागुक्तसिद्धेभ्यः त्रयो वक्ष्यमाणाः समुत्पन्नाः | २६ | अथ किमभिधानास्ते इत्यत आह-स्वभाव इत्यादि | स्वभावः प्रतिभः सुभगश्चेतिनामानस्त्रयः कुलनाथा भूमावेव सर्वदा निवसन्ति नान्यत्रेत्यर्थः | तेऽपि त्रयः शिवात्मकाः शिवस्वरूपा एव | २७ | एतेषां तन्त्रप्रवर्तकत्वमाह-एतैरित्यादिना | प्रागुक्तैर्नवभिः कुलनाथैः | (प्. ४१७) (पूज्यत्वम्) पूज्या एवंविधाः स्वस्वमण्डलादिषु पूजने | देवीश्रीचक्रसंस्थास्तु दिव्याकारास्तदाज्ञया || २९ || त्र्यक्षराद्याभिधानास्ते सर्वेऽप्यानन्दसंयुताः | स्वमण्डलेषु नाथान्ताः शक्त्यन्ता एव मण्डले || ३० || (प्रागुक्तमन्त्राणां नवाक्षरत्वसम्पादनम्) मायालक्ष्म्यादिकास्तद्वन्नवार्णाख्यास्तथाऽभवन् | नवानां नवशक्तीनां देवतानाञ्च पूजने || ३१ || ________________________________________________________________ २९ | स्वस्वमण्डलादिष्विति | मण्डलमग्रे वक्ष्यति | आदिपदेन स्वशीर्षादीनामपि ग्रहणम् | ३० | अथ निरुक्तानां नवानां नाथानां स्वस्वमण्डले पूज्यानां नवार्णमन्त्रान् निरूपयति त्र्यक्षरेत्यादिना | अत्रेदमवधेयम् प्रकाशोऽथ विमर्षोऽन्य इत्यादिना ये त्र्यक्षरा नव कुलनाथाः पूर्वमुपदर्शिताः तानादितः कृत्वा सर्वेषामेव तेषामन्ते आनन्दपदं योजयेत् | अनेन प्रकाशानन्द-विमर्षानन्देत्येवमादिरूपाः पञ्चाक्षरा मन्त्रा भवन्ति | स्वमण्डलेष्विति | वक्ष्यमाणस्वमण्डलेषु पूज्यास्ते नाथान्ता नाथेति द्व्यक्षरान्ताश्चेत् तदा प्रकाशानन्दनाथविमर्षानन्दनाथेत्येवंरूपेण सप्ताक्षरा जायन्ते | कुलनाथशक्तिनवाक्षरं दर्शयितुमाह शक्त्यन्ता इति | ते पञ्चाक्षराः शक्त्यन्ताः शक्तीतिद्व्यक्षरान्ताश्चेत्तदापि प्रकाशानन्दशक्ति- विमर्षानन्दशक्तीत्येवंरूपेण सप्ताक्षराः कुलशक्तिमन्त्रा भवन्ति | ३१ | नवाक्षरत्वमुपपादयति मायेत्यादिना | ते सप्ताक्षरा नाथान्ताः शक्त्यन्ता वा मायालक्ष्म्यादिकाः, माया ह्रीं लक्ष्मीः श्रीं इत्यादिकाश्चेत् प्रकाशानन्दनाथ इत्यादेः प्रकाशानन्दशक्तीत्यादेर्वा पूर्वं यदि ह्रीं श्रीमिति बीजद्वयं योज्येत तदा नवार्णाख्या मन्त्रा भवन्तीत्यभिप्रायेणाह-नवार्णाख्यास्तथाऽभवन्निति | एवञ्च ह्रीं श्रीं प्रकाशानन्दनाथः ह्रीं श्रीं विमर्षानन्दनाथः ह्रीं श्रीं आनन्दानन्दनाथः (प्. ४१८) (सप्ताक्षरयोगेण निरुक्तनवाक्षरस्य षोडशाक्षरत्वम्) या विद्या सर्वसन्तोषकारिणी सर्वसिद्धिदा | सप्ताक्षर्या तया मन्त्री पूजयेन्नामपूर्वकम् || ३२ || (सप्ताक्षरमन्त्रः) जवी मरुत्समोपेतो गोत्रा च धरया युता | प्राणोऽपि मरुता युक्तः खेन च स्यात्तृतीयकम् || ३३ || पुनर्जवी क्ष्मयोपेतो ज्या च वातसमन्विता | व्याप्तं मरुत्सखं षष्ठं नभोऽग्निः सप्तमाक्षरम् || ३४ || (निगमनम्) एवं सप्ताक्षरी प्रोक्ता शक्तितन्त्रेषु सिद्धिदा || ३५ || _________________________________________________________________ इत्यादयो नवनवार्णा मन्त्रा ऊह्याः | एतेषां मण्डले विनियोगस्तु तत्परिपाट्यां प्रदर्शयिष्यते | ३२ | अथ वक्ष्यमाणसप्ताक्षरीयोगेण नवार्णाया अस्याः षोडशाक्षरत्वसम्पादनाय प्रस्तौति या विद्येत्यादि | ३३-३५ | पूर्ववचने सप्ताक्षर्या तयेत्युक्तम् | तां सप्ताक्षरीमेवाह-जवीत्यादिना | जवी पकारः, स च मरुत्समोपेतः मरुता आकारेण युक्तः | एतेन पा इति प्राप्तम् | गोत्रेति ग्रोता दकारः सा च धरया उकारेण युक्ता | एतेन दु इति प्राप्तम् | प्राण इति, - प्राणः ककारः स च मरुता आकारेण खेन नभोबीजेन मकारेण बिन्दुरूपेण युक्तः एतेन कां इति प्राप्तम् | तृतीयकमिति, मन्त्रस्य तृतीयमक्षरमित्यर्थः | पुनरिति, जवी पकारः, क्ष्मया ऊकारेणोपेतः | एतेन पू इति प्राप्तम् | ज्या जकारः सा च वातेनाकारेण समन्विता | एतेन ज इति प्राप्तम् | व्याप्तमिति | व्याप्तं यकारः मरुत् पूर्ववदाकारः | एतेन या इति लब्धम् | नभः पूर्ववत् मकारः अग्निरिकारः एतेन मि इति प्राप्तम् | सप्तमाक्षरमिति | एतन्मन्त्रस्य सप्तममक्षरमित्यर्थः | एवमिति, पादुकां पूजयामि इति सप्ताक्षरात्मिकेत्यर्थः | जवीत्यादि सप्तमाक्षरमित्यन्तं वचनद्वयं तन्त्रराजे (प्. ४१९) (मन्त्रयोर्गोगः) सर्वासामपि शक्तीनां देवतानाञ्च नामभिः | योजयेन्नामपूर्वां तां सिद्ध्यै साधारणान् यथा || ३६ || (शक्तीतरतन्त्रेषु विशेषः) शक्तितन्त्राद् बहिर्भूततन्त्रेषु मनसा स्मृतिः || ३७ || (नवार्णसप्तार्णयोर्योगे षोडशार्णत्वम्) नवानां नव नामानि नवार्णानि पृथक् पृथक् | तानि सप्ताक्षरीयोगात् प्रत्येकं षोडशाक्षरम् | (तेषां षोडशार्णानां षोडशनित्यारूपत्वम्) नित्याषोडशरूपाणि तानि जातान्यनुक्रमात् || ३८ || (गुरुमण्डलपूजाकालः) गुरुमण्डलपूजाञ्च कुर्यात् सप्तसु पर्वसु | (पूर्णासु पर्वसु च नाम्नो विशेषः) पूर्णासु षोडशार्णानि नामान्यालिख्य पूजयेत् || ३९ || अन्यत्र पर्वषट्के तु नवार्णान्येव लेखयेत् | (उभयोरेव पूजने मन्त्रस्याभेदः) पूजयेत्तत्र तत्रापि वदन् सप्ताक्षरीं बुधः || ४० || __________________________________________________________________ प्रथमपटलेऽपि तुल्यरूपं दृश्यते | तट्टीकाकृता सुभगानन्दनाथेनाप्ययमेव मन्त्रोद्धारक्रमः प्रदर्शितः | ३६ | प्रागुक्तनवाक्षरमन्त्रेण निरुक्तसप्ताक्षरमन्त्रयोगे षोडशाक्षरो मन्त्रो भवतीति प्रतिपादयितुमाह सर्वासामित्यादि | सर्वासां शक्तीनां प्रागुक्तानां नवानामित्यर्थः | देवतानां नाथानाम् | नामभिरिति आनन्दशक्त्यानन्दनाथादिभिः | नामपूर्वां प्रकाशविमर्षादिनामपूर्विकां तां प्रागुक्तसप्ताक्षरीं योजयेदित्यर्थः | साधारणान् यथेति | प्रागुक्तान् प्रकाशादीन् यथानन्दनाथेन योजयेत्तद्वदित्यर्थः | (प्. ४२०) (गुरुमण्डलपूजाया नवोपहारसाध्यत्वम्) गुरुमण्डलपूजासु सर्वत्र नव चोदिताः | उपचारास्ततस्तांस्तैः पूजयेच्छ्रणु तानपि || ४१ || (उपचारनवकनिर्णयः) गन्धं पुष्पं तथा धूपं दीपं नैवेद्यकं तथा | ताम्बूलाचमनं स्तोत्रं स्वात्मतेति समीरिताः || ४२ || (गुरुमण्डलनिर्माणाधारः) गुरुमण्डलनिर्माणं पीठे कुर्यात् प्रसन्नधीः | फलकायां स्थले वापि सुशुद्धे सुसमे स्थिते || ४३ || (मण्डलनिर्माणोपकरणनिर्णयः) रक्तचन्दनकाश्मीर-लघुकस्तूरिकायुतैः | पङ्कैर्विदध्यात् सर्वत्र गुरुमण्डलकल्पनम् || ४४ || (मण्डलपूजान्ते कर्तव्यम्) पूजनान्ते मार्जयित्वा भाले चोरसि चांशयोः | धारयेत् सर्वतो लक्ष्मीरस्य स्यात् सर्वदुर्लभा || ४५ || प्राक् प्रत्यग् दक्षिणोदक् च सूत्राणि दश विन्यसेत् | पञ्चाङ्गुलान्तरालानि तानि कोष्ठानि योजयेत् || ४६ || एकाशीतिपदोपेतं चतुरस्रन्तु मण्डलम् || ४७ || ________________________________________________________________ ४६-४७ | अथ गुरुमण्डलनिर्माणमुपदिशति प्रागित्यादिना | पूर्वतः पश्चिमान्तानि दश, तथा दक्षिणत उत्तरान्तानि दश सूत्राणि पातयेत् | सूत्राणां पातनं पञ्चाङ्गुलव्यवधानेन कार्यम् | तथा कृते पञ्चाङ्गुलान्तरालैकाशीतिपदं मण्डलं भवति | परितः पञ्चाङ्गुलान्तरालनवनवकोष्ठात्मकतया पञ्चचत्वारिंशदङ्गुलात्मकमिदं मण्डलमित्यपि सुधीभिरवधेयम् | (प्. ४२१) तत्सर्वमध्ये प्रथमं द्वितीयं तत्पुरोगते | तृतीयञ्च तृतीये च लिखेन्नवनवस्वपि || ४८ || एवं नवनवोपेतं मण्डलं सर्वपर्वसु || ४९ || नवकं नवधा कृत्वा मध्ये सूत्रद्वयार्पणात् | तेषु नामार्णनवकं समालिख्यार्चयेत् क्रमात् || ५० || _________________________________________________________________ ४८-४९ | मण्डलेऽस्मिन् कुलनाथानां क्रमेणावस्थितिं वर्णयति तदित्यादिना | तत्सर्वमध्ये तेषां सर्वेषां नवकानां मध्ये नवके प्रथमं ह्रीं श्रीं प्रकाशानन्दनाथेत्येवं रूपं प्रथमोद्दिष्टकुलनाथं लिखेत् इत्यर्थः | तत्पुरोगते तस्य मध्यनवकस्य पुरोगते अग्रतः स्थिते पूर्वदिग्वर्तिनीत्यर्थः नवके नवकोष्ठात्मकेऽसे द्वितीयं ह्रीं श्रीं विमर्षानन्दनाथेत्येवं रूपं लिखेत् | तृतीयञ्चेति, तृतीये आग्नेयनवके तृतीयं ह्रीं श्रीं विमर्षानन्दनाथेत्येवं रूपं लिखेत् | तृतीयञ्चेति, तृतीये आग्नेयनवके तृतीयं ह्रीं श्रीं आनन्दानन्दनाथेत्येवं रूपं तृतीयं कुलनाथं लिखेत् | नवनवस्वपीति, अनेनैव क्रमेण प्रादक्षिण्येनापरेष्वपि नवकेष्वपरान् कुलनाथान् लिखेत् | एतेन दक्षिणनवके ह्रीं श्रीं श्रीज्ञानानन्दनाथम्, नैर्-ऋतनवके ह्रीं श्रीं श्रीसत्यानन्दनाथम्, प्रतीच्यनवके ह्रीं श्रीं श्रीपूर्णानन्दनाथम्, तथा वायव्यनवके ह्रीं श्रीं स्वभावानन्दनाथम्, कौबेरनवके ह्रीं श्रीं प्रतिभानन्दनाथम्, ऐशाननवके च ह्रीं श्रीं सुभगानन्दनाथं लिखेदिति बोध्यम् | पर्वाण्यग्रे वक्ष्यन्ते | ५० | अथ मण्डलस्य नवधा विभागमुपदिशति नवकमित्यादिना | मध्ये मण्डलमध्ये उभयतस्त्रीणि त्रीणि पदानि त्यक्त्वेत्यर्थः | सूत्रद्वयार्पणादिति | पूर्वापरायतस्य दक्षिणोत्तरायतस्य च सूत्रद्वयस्यार्पणात् नवकं नवधा कृत्वेति सम्बन्धः | तेषु नवकेषु नवनाथनामार्णविन्यासपरिपाटीमाह तेष्विति | तेषु नवकेषु प्रागुक्तक्रमेणैव नामार्णनवकं समालिख्यार्चयेत् | एतदुक्तं भवति प्रथमं मध्यनवकस्य मध्ये ह्रीं श्रीं प्रकाशानन्दनाथेति नवार्णमन्त्रस्य प्रथमाक्षरं लिखेत् | तत्पूर्वकोष्ठे द्वितीयमक्षरं श्रीमिति | तृतीये आग्नेये तृतीयमक्षरं प्रेति | चतुर्थे याम्ये चतुर्थमक्षरं केति | पञ्चमे नैर्-ऋते पञ्चममक्षरं शेति | षष्ठे पश्चिमे षष्ठमक्षरं नेति | सप्तमे वायव्ये सप्तममक्षरं न्देति | अष्टमेऽष्टममक्षरं नेति | नवमे नवममक्षरं थेति | एवञ्च मध्यमनवके मध्यतः पूर्वादि प्रादक्षिण्येन ह्रीं श्रीं प्र का शा न न्द ना थेति नव वर्णानेकैकशो लिखेदिति मध्यमनवकप्रक्रिया | एवमन्येष्वप्यष्टसु कोष्ठेष्ववशिष्टानामष्टानां नाथानां विनियोगः सुधीभिरुन्नेयः | स्फुटमवधानाय गुरुमण्डलचित्रं प्रदर्श्यते (प्. ४२२) पूर्णापर्वणि तन्मध्ये कृत्वा सूत्रं त्रयं त्रयम् | षोडशीकृत्य तेष्वेव लिखेन्नामानि तानि वै || ५१ || __________________________________________________________________ गुरुमण्डलम् (१) (९) (२) (३) (९) थः (२) श्रीं (३) सु (९) थः (२) श्रीं (३) वि (९) थः (२) श्री (३) आ (८) ना (१) ह्रीं (४) भ (८) ना (१) ह्रीं (४) म (८) ना (१) ह्रीं (४) न (७) न्द (६) न (५) गा (७) न्द (६) न (५) र्षा (७) न्द (६) न (५) न्दा (९) थः (२) श्रीं (३) प्र (९) थः (१) (२) श्रीं (३) प्र (९) थः (२) श्रीं (३) श्री (८) (४) ना (१) ह्रीं (४) ति (८) ना (१) ह्रीं (४) का (८) ना (१) ह्रीं (४) ज्ञा (४) (७) न्द (६) न (५) भा (७) न्द) (६) न (५) शा (७) न्द (६) न (५) ना (९) थः (२) श्रीं (३) स्व (९) थः (२) श्रीं (३) श्री (९) थः (२) श्रीं (३) श्री (८) ना (१) ह्रीं (४) भा (८) ना (१) ह्रीं (४) पू (८) ना (१) ह्रीं (४) स (७) न्द (६) न (४) वा (७) न्द (६) न (५) र्णा (७) न्द (६) न (५) त्या (७) (६) (५) ५१ | अथ प्रागुक्त-षोडशाक्षरकुलनाथार्णन्यासाय प्रतिनवकं षोडशकोष्ठसम्पत्तये निरुक्तैकाशीतिपद-मण्डले विशेषमाह पूर्णेत्यादिना | अत्र तु तन्मध्ये प्रागुक्तनवकमध्ये त्रीणि त्रीणि सूत्राण्युभयतो विन्यस्य षोडशीकृत्य उभयतः सूत्रत्रयन्यासेनेति शेषः तेष्वेव षोडशपदकोष्ठेषु तानि षोडशाक्षराणि नामानि लिखेदित्यर्थः | (प्. ४२३) एतदुक्तं भवति प्रागुक्त-गुरुमण्डले नवकानां मध्यमकोष्ठमध्यदेशे एकैकशः पूर्वापरायता नवकत्रयव्यापिन्यस्तिस्रः दक्षिणोत्तरायताश्च तिस्रो रेखाः कर्तव्याः | एवं कृते सर्वाणि नवकानि षोडशकोष्ठात्मकानि जायन्ते इति | इत्यभिप्रायेणैव षोडशीकृत्येत्युक्तम् | लिखेदिति | तत्र नामानि ह्रीं श्रीं प्र का शा न न्द ना थ पा दु कां पू ज या मि इत्यादि रूपाणि प्रागुपदर्शितानि लिखेदित्यर्थः | अत्र षोडशकोष्ठेषु षोडशाक्षरनामार्णन्यासविधानात् प्रतिकोष्ठमेकैकं वर्णं लिखेदिति बोध्यम् | लिखनन्तु पूर्वोक्तरीत्या प्रादक्षिण्येनैव, विशेषानभिधानात् | तथा प्रागुक्तमण्डले मध्यकोष्ठतो वर्णन्यासविधानादत्रापि प्रथमं मध्यमकोष्ठचतुष्के ततो बहिःकोष्ठेष्वित्यवधेयम् | अत एव तन्त्रराजे द्वितीयपटले पूर्णेत्याद्येतत्समानानुपूर्वीकवचनव्याख्यायां सुभगानन्दनाथेन मध्यचतुष्टये वामाधःस्थितं कोष्ठमारभ्य मध्यचतुष्टयं प्रादक्षिण्येन परीत्यामुक्तक्रमं बहिरपि तथा परीयादित्युक्तम् | तदत्र कुलनाथानां तन्नामार्णानाञ्च संस्थानं द्वितीयेन गुरुमण्डलचित्रेण प्रदर्श्यते गुरुमण्डलम् (२) (९) (२) (३) पा १० दु ११ कां १२ पू १३ पा १० दु ११ कां १२ पू १३ पा १० दु ११ कां १२ पू १३ थ ९ श्री २ सु २ ज १४ थ ९ श्री २ वि ३ ज १४ थ ९ श्रीं २ आ ३ ज १४ ना ८ ह्रीं १ भ ४ या १५ ना ८ ह्रीं १ म ४ या १५ ना ८ ह्रीं १ न ४ या १५ न्द ७ न ६ गा ५ मि १६ न्द ७ न ६ र्षा ५ मि १६ न्द ७ न ६ न्दा ५ मि १६ पा १० दु ११ कां १२ पू १३ पा १० दु (१) ११ कां १२ पू १३ पा १० दु ११ कां १२ पू १३ थ ९ श्रीं २ प्र ३ ज १४ थ ९ श्रीं २ प्र ३ ज १४ थ ९ श्रीं २ श्री ३ ज १४ ना ८ ह्रीं १ ति ४ या १५ ना ८ ह्रीं १ का ४ या १५ ना ८ ह्रीं १ ज्ञा ४ या १५ न्द ७ न ६ भा ५ मि १६ न्द ७ न ६ शा ५ मि १६ न्द ७ न ६ ना ५ मि १६ पा १० दु ११ कां १२ पू १३ पा १० दु ११ कां १२ पू १३ पा १० दु ११ कां १२ पू १३ थ ९ श्रीं २ स्व ३ ज १४ थ ९ श्रीं २ श्री ३ ज १४ थ ९ श्रीं २ श्री ३ ज १४ ना ८ ह्रीं १ भा ४ या १५ ना ८ ह्रीं १ पू ४ या १५ ना ८ ह्रीं १ स ४ या १५ न्द ७ न ६ वा ५ मि १६ न्द ७ न ८ र्णा ५ मि १६ न्द ७ न ६ त्या ५ मि १६ (७) (६) (५) (प्. ४२४) (जीवतो मृतस्य वा गुरोः क्रमेणानेन पूजायाः कर्तव्यत्वम्) एवं पूजा गुरौ जीवत्यपेतेऽपि समीरिता | स्थानानि मण्डलीकृत्य तत्रार्चा-लेखने मते || ५२ || (निरुक्तक्रमेणानुष्ठितायाः पूजायाः फलम्) एवं यः पूजयेन्नाथान् पर्वस्ववहितो बुधः | स देशिकवरः सिद्धस्तस्माद् विद्याप्तिरुत्तमा || ५३ || (वैपरीत्ये दोषः) अन्यथावाप्तिरुभयोरनर्थाय सुनिश्चितम् | व्याधिशस्त्रादिपीडा वा वितन्द्रा विजने मृतिः || ५४ || इत्यादिव्यसनाप्तिश्च नृपादशनितो मृतिः | तस्मादुक्तक्रमेणैव कुर्यात् सर्वार्थसिद्धये || ५५ || (पर्वसप्तकम्) गुरोस्तु जन्मदिवसं विद्याप्राप्तिदिनं तथा | स्वजन्मदिवसञ्चाथ व्याप्तिवासरमेव वा || ५६ || _________________________________________________________________ ५२ | गुरौ जीवति मृते चायमेव गुरुमण्डलपूजाक्रम इत्येवाह एवं पूजेत्यादिना | परन्तु मृते गुरौ मण्डलपूजायां यस्मिन्नंशे विशेषस्तमाह स्थानानीत्यादिना | तत्र स्थानानि मण्डलीकृत्येति वृत्तरूपेणालिख्येत्यर्थः | तत्र वृत्तीकृते मण्डले अर्च्चा-लेखने अर्चा पूजा लेखनं मन्त्रार्णानाम् | एते मते इत्यर्थः | ५४ | पूर्वं मण्डलपूजादीनां यः क्रम उक्तस्तदन्यथाकरणे दोषमाह-अन्यथेति | अन्यथा निरुक्तक्रमवैपरीत्येनोभयोर्गुरुशिष्ययोरवाप्तिरनर्थाय भवतीति शेषः | अनर्थानेव दर्शयति व्याधीत्यादिना | (प्. ४२५) अक्षरत्रयसम्पातदिनं पूर्णादिनं तथा | षट् पर्वाणि विशिष्टानि सदर्शं सप्त पर्विकाः || ५७ || (अत्र पूजायाः कर्तव्यता) मासतो वर्षतो वापि कुर्यादेतेषु पूजनम् || ५८ || (तत्र विशेषः) गुरोस्तु जीवतो नित्यं व्याप्ते तत्पुत्रकादिकम् | पूजयेत्तत्समं तन्तु प्रणामाद्यैरुपाचरेत् || ५९ || (गुरुतत्पुत्रादीनामभावे कर्तव्यम्) तदभावे तत्कुलीनं तदुक्तं वा समर्चयेत् | (निगमनम्) प्रसङ्गान्नाथवर्गाणां पूजामण्डलमीरितम् || ६० || (ततः कुण्डलिन्युत्थापनम्) मूलाधारचतुर्दलादथ परां विद्युल्लताभासुरां सूक्ष्मां पद्ममृणालतन्तुसदृशीं हंसेन मोक्षालये | नीत्वा ब्रह्मसनातनेन महतामेकात्मरूपं भजेत् पश्चान्मूलसरोरुहेऽमृतमयीं सोऽहं स्मरन् प्रार्थयेत् || ६१ || _________________________________________________________________ ५६-५७ | पूर्वम् एवं नवनवोपेतं मण्डलं सर्वपर्वस्वित्युक्तम्, तान्येव पारिभाषिकाणि पर्वाणि निर्दिशति गुरोरित्यादिना | विद्याप्राप्तिदिनं दीक्षादिनम् | व्याप्तिवासरं मृत्युदिनं गुरोरिति शेषः | अक्षरत्रयसम्पातदिनम् इति, वर्गाक्षरद्वयं घटिकाक्षरञ्चेति त्रीण्यक्षराणि यस्मिन् दिने सङ्गतानि भवन्ति तदक्षरत्रयसम्पातदिनमिति तन्त्रराजद्वितीयपटलटीकायां सुभगानन्दनाथः | वर्गाक्षरादिस्वरूपन्तु तन्त्रराजपञ्चविंशपटले विशिष्याभिहित इति विस्तरभयान्नेह प्रपञ्च्यते | ५८ | मासत इति | प्रतिमासं तद्सम्भवे प्रतिवर्षमेतेषु गुरार्जन्मदिवसादिषु पूजनं कुर्यादिति सम्बन्धः | ६१ | मूलाधारेति | अयमर्थः षष्ठे प्रकाशे नीत्वा तां कुलकुण्डलीमित्यादिकुण्डलिन्युत्थापनक्रमप्रतिपादकश्लोकटीकायां विस्तरेण प्रपञ्चितमस्माभिः | (प्. ४२६) (शययातो भूमौ पादक्षेपः) त्यजेत् प्रभाते चरणं विधिज्ञः समीरणानुक्रमतो धरायाम् | शिवोक्तमन्त्रं परिभाव्य तल्पात् समस्तदोषापनुदं जनानाम् || ६२ || (तत्र प्रार्थनमन्त्रः) ओं समुद्रवलये मातः पर्वतस्तनमण्डले | विष्णुपत्नि ! नमस्तुभ्यं पादस्पर्शं क्षमस्व मे || ६३ || (निरुक्तमन्त्रेण भूमौ पादक्षेपस्योपदेशः) अनेन मनुना मन्त्री भूमौ पादं विनिक्षिपेत् | (कुलवृक्षाणां दर्शनं नतिश्च) कुलवृक्षान् विलोक्याथ नमस्कुर्यादलक्षितः || ६४ || _________________________________________________________________ ६४ | कुलवृक्षानिति | कुलवृक्षानाह कुलार्णवपञ्चमखण्ड एकादशोल्लासे श्लेष्मातकं करञ्जाख्यं निम्बाश्वत्थकदम्बकाः | विल्ववटोडुम्बराश्च तिन्तिडी नवमी स्मृता || इति | कौलावलीनिर्णये द्वितीयोल्लासेऽपि बहिर्गत्वा यदा पश्येत् कुलवृक्षं सुसाधकः | नमस्कुर्यात् प्रयत्नेन कुलं कुलपतिं तथा || अशोकः केशरः कर्णिकारश्चतस्तिलस्तथा | नमेरुश्च पियालश्च सिन्धुवारकदम्बकौ || मरुवकश्चम्पकशाखी कुलवृक्षाश्च द्वादश || इति | प्रकारान्तरमपि प्रागुक्तकुलार्णवसम्मतमाह तत्रैव अथवा कुलवृक्षांश्च कथयामि सुसिद्धये | श्लेष्मातककरञ्जानि निम्बाश्वत्थकदम्बकाः | बिल्वो वटोडुम्बरश्च चिञ्चेति नवमी स्मृता || इति | (प्. ४२७) (विण्मूत्रादित्यागो दन्तशोधनमन्त्रश्च) विण्मूत्रादिविरेचनं यतमनाः कृत्वा तु शुचं स्मरे- न्मूलं मृज्जलसेचनेन करपत् संशोद्य पूर्वाननः | कामं काम च सर्वमेव जनतो ङेऽन्तः प्रियो हृद्युतो मन्त्रो दन्तविशोधनाय गदितस्तन्त्रानुसारक्रमात् || ६५ || (शिखाबन्धादीनि सन्ध्यान्तानि कर्माणि) मूलेनैव शिखां त्रिपुण्ड्रतिलकं कृत्वा च तत्र क्रमा- दाचामेत् त्रिपुरां विधाय पुरतो न्यासौ कराङ्गौ ततः | कुर्याच् श्रीक्रमसंहितोक्त-परमां सन्ध्यां यतान्तर्मना यां कृत्वा त्रिपुरां परां भगवतीमाराध्य देवो भवेत् || ६६ || _________________________________________________________________ ६५ | दन्तधावनमन्त्रमाह काममित्यादिना | कामं कामबीजं क्लीं | ततः काम कामदेवपदम् | ततः सर्वपदम् | ततो जनतः जन इति पदात् ङेऽन्तश्चतुर्थ्यन्तः प्रिय इति पदम् | एतेन प्रियायेति प्राप्तम् | हृद्युतः नमःपदान्तः | एवञ्च क्लीं कामदेवसर्वजनप्रियाय नमः | इति चतुर्दशाक्षरो मन्त्रः पर्यवस्यति | अत्र द्वितीयकामपदेन कामदेवेत्यक्षरचतुष्टयं बोध्यम् | व्यक्तमाह कौलावलीनिर्णये प्रथमोल्लासे कामबीजं कामदेवं सर्वान्ते जनमालिखेत् | प्रियाय हृदयान्तोऽयं मनुर्दन्तविशुद्धये || इति | गन्धर्वतन्त्रे पञ्चमपटलेऽपि क्लीमात्मकं कामदेवसर्वान्ते जनमालिखेत् | प्रियाय हृदयान्तोऽयं मनुर्दन्तविशुद्धये || चतुर्दशाक्षरैर्वक्त्रं क्षालयेच्छुद्धिहेतवे || इति | एवमेव प्राणतोषणीधृतदक्षिणामूर्तावपि | एवञ्च कौलावलीनिर्णयगन्धर्वादिषु कामदेवपदस्य मन्त्रघटकत्वदर्शनाद् देवपदानुपादाने चतुर्दशाक्षरिर्वक्त्रमित्यादिगन्धर्वादिवचनविरोधसम्भवाच्च प्रकृते कामपदेन कामदेवेत्यक्षरचतुष्टयं मन्त्रघटकत्वेनोपादेयमिति निष्कर्षः | ६६ | मूलेनैवेति | अत्र सन्ध्यापदेन प्रातःकृत्यादिरूपा मानसी सन्ध्यावगन्तव्या, (प्. ४२८) (अथ सन्ध्या, तत्र स्वदेहे पञ्चदशाक्षरन्यासः) शिरः कण्ठे मुखे श्रोत्रे नेत्रनासाभुजेषु च | हृदि गुह्ये पृष्ठदेशे नाभौ च जठरे गुदे | पादे गुल्फे महादेव्या न्यसेत् पञ्चदशाक्षरम् || ६७ || (ध्यानम्) संपूर्णां चिन्तयेद् विद्यां ब्रह्मरन्ध्रेऽरुणप्रभाम् | सरत्सुधाषोडशार्णां महासौभाग्यदां स्मरेत् || ६८ || (सौभाग्यदण्डिनीमुद्राविनियोगः) वामांसदेशे सौभाग्यदण्डिनीं भ्रामयेदथ | (रिपुजिह्वाया विनियोगः) रिपुजिह्वाग्र्हां मुदां पादमूले च विन्यसेत् || ६९ || त्रैलोक्यस्य त्वहं कर्ता ध्यात्वैवं तिलके न्यसेत् | संपूर्णामेव वदने वेष्टनत्वेन विन्यसेत् || ७० || पुनः संपूर्णवदने गलोर्द्धे विन्यसेदथ | व्यापकत्वे योनिमुद्रां मुखे क्षिप्त्वाऽभिवन्द्य च || ७१ || _______________________________________________________________ पञ्चदशे स्नानानन्तरं तान्त्रिकसन्ध्याया वक्ष्यमाणत्वात् अत्र तदनवसरत्वाच्च | सुगममन्यत् | ६७ | शिर इति | पूर्वश्लोके प्रातःकृत्याङ्गतया श्रीक्रमसंहिताक्तमानससन्ध्योपासनमुद्दिष्टं तदेव प्रदर्शयति शिर इत्यादिना | तथा च शिर-आदिषु पञ्चदशसु स्थानेषु क्रमेण पूर्वोपदर्शितश्रीविद्या- पञ्चदशाक्षरमन्त्रस्यैकैकं वर्णं न्यसेदित्यर्थः | (प्. ४२९) (सौभाग्यदण्डिन्याः स्वरूपं फलञ्च) मुष्टिं बद्ध्वा तले मन्त्री तर्जनीं दण्डवच्चरेत् | सौभाग्यदण्डिनी नाम रिपून् दण्डयते क्षणात् || ७२ || (रिपुजिह्वाग्रहा मुद्रा करशुद्धिश्च) अङ्गुष्ठं मुष्टिगं कुर्याद् रिपुजिह्वाग्रहा भवेत् || ७३ || अनामिकां परिभ्राम्य मूर्द्धासं परितः सुधीः | ब्रह्मरन्ध्रे क्षिपेच्चैव मणिबन्धे न्यसेत्ततः || ७४ || ललाटेऽनामिकां कुर्यात् षोडशार्णां स्मरन् बुधः | त्रैलोक्यमरुणं ध्यायञ् श्रीविद्यां मनसि स्मरेत् || ७५ || ओंकारं वाग्भवं कूटमांकारं कामराजकम् | शान्तान्तं कादिसंयुक्तम् ऐकारान्तान्तयोजितम् || ७६ || त्रिपुरा परमेशानी करशुद्धौ समीरिता || ७७ || _________________________________________________________________ ७२ | मुष्टिमिति | अत्र तले इत्यनेन वामहस्ततले इति बोध्यम् | तन्त्रसारे मुद्राप्रकरणे वामहस्तेन मुष्टिन्तु बद्ध्वा कर्णप्रदेशके | तर्जनीं सरलां कृत्वा भ्रामयेन्मनुवित्तमः | सौभाग्यदण्डिनी मुद्रा न्यासकालेऽपि सूचिता || इति वचनेन तथा व्यक्तमभिधानात् | ७३ | अङ्गुष्ठमिति | तन्त्रसारे तु अन्तरङ्गुष्टमुष्ट्या तु निरुध्य तर्जनीमिमाम् | रिपुजिह्वाग्रहा मुद्रा न्यासकाले तु सूचिता || इत्यनेन मुष्टावङ्गुष्ठेन तर्जन्या अपि निरोध उक्त इति विशेषो दृश्यते | (प्. ४३०) (विद्याध्यानम्) अथाऽधारे वाग्भवन्तु तडिद्वर्णं त्रिकोणके | तदुद्भवां तडिद्वर्णां द्विभुजां बालरूपिणीम् || ७८ || पुस्तकाक्षलसत्पाणिपद्मां चारुत्रिलोचनाम् | विम्बाधरां पीतवर्णां विषतन्तुतनीयसीम् || ७९ || वाग्भवाख्यस्वरूपां तां परशक्तौ समानयेत् | शुद्धस्फटिकसङ्काशां गोक्षिररजतोपमाम् || ८० || कदम्बगोलकाकारां ब्रह्मरन्ध्रव्यवस्थिताम् | अभयमक्षसूत्रञ्च पाशं विद्याञ्च धारिणीम् || ८१ || (त्रिपुरार्घ्यदानम्) वाग्भवन्तु समुच्चार्य त्रिपुरा वाग्भवेश्वरी | पादुकां पूजयामीति त्रिधा चार्घ्यं निवेदयेत् || ८२ || _________________________________________________________________ ७८-८१ | अथाऽधार इत्यादि अत्रेदमवधेयम् पूर्वं यन्मानससन्ध्योपासनमुद्दिष्टं तत् प्रातर्मध्याह्ने सायमर्द्धरात्रे चेति कालचतुष्टयेऽनुष्ठेयम्, अन्यथा सायाह्ने शक्तिबीजन्तु श्वेतं वै सोममण्डले इति, अर्द्धरात्रे तदन्तरम् इति, तुरीयं बीजमुच्चार्येति च वक्ष्यमाणवचनैर्विशिष्य सायमर्द्धरात्रयोरुपादानं व्यर्थं स्यात् | एवञ्च तत्र तत्र सायमर्द्धरात्रयोर्व्यवस्थापनात् पूर्वोक्तकल्पद्वयं प्रातर्मध्याह्नकालविषयमिति स्थितम् | तत्र शिरःकण्ठ इत्यादिना करशुद्धौ समीरितेत्यन्तेन ग्रन्थेनोक्ताः प्रक्रियाः कालचतुष्टयसाधारणाः | अथाधार इत्यादिना तु प्रथमप्राप्तं प्रातःकालीनध्यानादिप्रक्रियामभिधत्ते | आधारे मूलाधारे त्रिकोणके मूलाधारस्थिते त्रिकोणे इत्यर्थः | तडिद्वर्णं वाग्भवबीजं ध्यात्वेति शेषः तदुद्भवां तद्वाग्भवबीजोद्भवां द्विभुजां बालरूपिणीमित्यादिसर्वविशेषणविशिष्टां तां परशक्तौ सहस्रारस्थितायां समानयेदिति सम्बन्धः | तत्रापि शुद्धस्फटिकसङ्काशामित्यादिविशेषणविशिष्टां तां ध्यायेदित्यर्थः | ८२ | ध्यानानन्तरमर्घ्यदानमुपदिशति वाग्भवन्त्वित्यादिना | (प्. ४३१) (त्रिपुरागायत्री) त्रिपुरादेवि विद्महे वाग्भवेश्वरीपदं भवेत् | धीमहीति ततस्तन्नो मुक्तिः प्रचोदयादिमाम् || ८३ || (पूरकादिक्रमेण तज्जपः) त्रिर्जपेदथ मन्त्रज्ञः पूरकादिविधानतः || ८४ || (देव्या ध्यानम्) हृदयाम्बुजमध्यस्थे केशरे सूर्यमण्डले | द्वितीयं कामराजन्तु तरुणारुणसन्निभम् || ८५ || तदुद्भवां रक्तवर्णां चतुर्भुजां त्रिलोचनाम् | पाशाङ्कुशधनुर्बाणधारिणीं यौवनान्विताम् || ८६ || (तत्र क्रमान्तरम्) अथवारुणसंदीप्तां कामकूटस्वरूपिणीम् | सहस्रकमले नीत्वा ध्यायेदादित्यसुप्रभाम् || ८७ || चतुर्भुजां महादीप्तां त्रिनेत्राञ्च वराननाम् | सर्वज्ञानमयं वामे पुस्तकं प्रणवात्मकम् || ८८ || दक्षिणेऽक्षस्रजं सूर्यकान्तितुल्यां वराभयौ | दक्षवामकराभ्याञ्च विभ्रतीं परमेश्वरीम् || ८९ || ________________________________________________________________ ८३-८४ | अर्घ्यत्रयदानानन्तरं पूरक-कुम्भक-रेचक-रीत्या त्रिधा गायत्रीजपमुपदिशति-त्रिपुरेत्यादिना त्रिर्जपेदित्यन्तेन | ८५ | एवं प्रातःकालीनध्यानादिप्रक्रियामभिधाय माध्याह्निकं ध्यानमाह- हृदयाम्बुजमध्यस्थ इत्यादिना | एवं वक्ष्यमाणस्थलेष्वपि बोध्यम् | (प्. ४३२) (अर्घ्यदानम्) एवं ध्यात्वा कामराजमुद्धरेत् त्रिपुरापदम् | कामेश्वरीपादुकाञ्च स्मृत्वाऽर्घ्यं त्रिः प्रकल्पयेत् || ९० || (गायत्री तज्जपश्च) कामराजं समुच्चार्य त्रिपुरादेवि विद्महे | महाकामेश्वरी धीमहि तन्नः पदतस्ततः | क्लिन्ने प्रचोदयान्मन्त्री त्रिधा च प्रजपेदिमाम् || ९१ || (सायाह्ने देव्या ध्यानम्) सायाह्ने शक्तिबीजन्तु श्वेतं वै सोममण्डले | तदुद्भवां श्वेतवर्णां जटामुकुटधारिणीम् | त्रिनेत्रां द्विभुजामीषत्स्फुरद्दंस्ट्राङ्गुलां शुभाम् || ९२ || (तत्र कल्पान्तरम्) अथवा शक्तिरूपां तां ध्यायेच्छुद्धसरोरुहे || ९३ || सर्वालङ्कारभूयिष्ठां दक्षिणे च वरप्रदाम् | अक्षमालां वरं वामे दधतीं पुस्तकाभयौ || ९४ || (तत्रार्घ्यदानक्रमः) शक्तिबीजं समुच्चार्य त्रिपुरा अमृतेश्वरी | पादुकां पूजयामीति त्रिधाऽर्घ्यं परिकल्पयेत् || ९५ || (गायत्री तज्जपश्च) गायत्रीं प्रजपेन्मन्त्री शक्तिबीजस्वरूपिणीम् || ९६ || (प्. ४३३) त्रिपुरादेवि विद्महे स्वशक्तीश्वरि धीमहि | तन्नोऽमृते प्रचोदयाद् (अर्द्धरात्रे ध्यानम्) अर्द्धरात्रे तदन्तरम् || ९७ || तुरीयं बीजमुच्चार्य पद्मरागसमप्रभम् | आकाशे परमानन्दे समावाह्य सुरेश्वरीम् || ९८ || तदुद्भवां महादेवीं पद्मरागसमप्रभाम् | पाशाङ्कुशधरां चापधारिणीं लोचनत्रयाम् || ९९ || (तत्रार्घ्यक्रमः) तुरीयं बीजमुच्चार्य महात्रिपुरसुन्दरी | पादुकां पूजयामीति त्रिधाऽर्घ्यं परिकल्पयेत् || १०० || (तत्र गायत्री तज्जपश्च) गायत्रीं प्रजपेन्मन्त्री तुरीयबीजरूपिणीम् | त्रिपुरसुन्दरीशब्दान्ते विद्महे तदनन्तरम् || १०१ || कामेश्वरी धीमहीति तन्नः क्लिन्ने प्रचोदयात् | अष्टोत्तरशतं त्रिंशद्दशधा प्रजपेदिमाम् || १०२ || (निगमनम्) प्रसङ्गात् सकला सन्ध्या क्रमेण परिकीर्तिता || १०३ || (प्रातःकृत्यस्यावश्यकत्वम्) अथ प्राभातिकं कृत्वा विरमेच्च यथाक्रमम् | प्राभातिकविहीनेन कृतं तदकृतं भवेत् || १०४ || (प्. ४३४) (ततो देवगृहेऽनुष्ठानम्) ततो देवस्थलं गत्वा निर्माल्यमपकृत्य च | दद्यात् पुष्पाञ्जलिं विद्वानर्घ्यपाद्ये तथैव च || १०५ || मुखप्रक्षालनं दद्याद् दद्याद्वै दन्तधावनम् | दद्यादाचमनीयञ्च दद्याद् वासोऽमलं शुभम् || १०६ || नमस्कृत्य जपं कृत्वा स्तुत्वा नत्वा सुखी भवेत् || १०७ || इति श्रीपूर्णानन्दपरमहंसविरचिते श्रीतत्त्वचिन्तामणौ चतुर्दशः प्रकाशः || १४ || पञ्चदशः प्रकाशः (स्नानक्रमस्य द्वैविध्यम्) स्नानप्रकारो द्विविधो बाह्याभ्यन्तरभेदतः || १ || (तत्राऽन्तरस्नाननिरूपणप्रतिज्ञा) आन्तरं स्नानमत्यन्तरहस्यमपि सादरात् | कथयामि न सन्देहश्चतुर्वर्गाप्तयेऽपि च || २ || (आन्तरस्नानक्रमः) मनसा मूलमन्त्रेण प्राणायामपुरःसरम् | कुर्वीत प्रयतो मन्त्री मानसं स्नानमुत्तमम् || ३ || संवित्त्रयमनुस्मृत्य चरणत्रयमध्यतः | स्रवन्तं सच्चिदानन्दप्रवाहं भवमोचनम् || ४ || विमुक्तिसाधनं पुंसां स्मरणादेव योगिनाम् | तेन प्लावितमात्मानं भावयेद् भवशान्तये || ५ || (आन्तरस्नानस्य निगमनं फलञ्च) एवमाभ्यन्तरं स्नानं तीर्थकोटिफलप्रदम् | (अथ बाह्यस्नानम्) अथ गृह्योक्तविधिना बाह्यस्नानं समाचरेत् || ६ || _______________________________________________________________ १ | पूर्वप्रकाशे प्रातःकृत्यं विस्तरत उपवर्ण्य प्रकाशेऽस्मिन् वाच्यायां देवीसपर्यायामस्नातस्य निन्दाश्रवणात् प्रथमं स्नानमभिधत्ते स्नानप्रकार इत्यादिना | (प्. ४३६) (तत्राऽचमनम्) आत्मवद्याशिवैस्तत्त्वैराचामेत् पूर्ववत्ततः | (तीर्थावाहनम्) यन्त्रराजं जले ध्यात्वा तीर्थावाहनमाचरेत् || ७ || (तत्र मन्त्रः) गङ्गे च यमुने चैव गोदावरि सरस्वति | नर्मदे सिन्धुकावेरि जलेऽस्मिन् सन्निधिं कुरु || ८ || (निरुक्तमन्त्रेणाङ्कुशमुद्रया प्रोक्तावाहनस्य कर्तव्यता) अनेन मनुना मन्त्री मुद्रयाऽङ्कुशसंज्ञया || ९ || (अङ्कुशमुद्रा) मुष्टिं बद्ध्वा दक्षहस्ते मध्यमां दण्डवच्चरेत् | अङ्कुशाकाररूपेण तर्जनीं तत्र योजयेत् | अङ्कुशाख्या महामुद्रा त्रैलोक्याकर्षणक्षमा || १० || (अभिषेकः) मूलं स्मरन् मूर्ध्नि तोयं कुम्भाख्येन त्रिधा क्षिपेत् || ११ || (कुम्भमुद्रा) दक्षाङ्गुष्ठे पराङ्गुष्ठं क्षिप्त्वा हस्तद्वयेन तु | सावकाशां चैव मुष्टिं कुम्भमुद्रां विदुर्बुधाः || १२ || (मज्जनविधिः) सप्त च्छिद्राणि संरुध्य त्रिधा मज्जेत्ततः सुधीः || १३ || _________________________________________________________________ ७ | यन्त्रराजमिति वक्ष्यमाणश्रीयन्त्रमित्यर्थः | ९ | अनेनेति | अङ्कुशसंज्ञया मुद्रया तीर्थावाहनमाचरेदिति पूर्वेण सम्बन्धः | १३ | सप्तच्छिद्राणीति | चक्षुश्छिद्रद्वयं कर्णच्छिद्रद्वयं नासिकाच्छिद्रद्वयम् एकं मुखच्छिद्रमिति सप्त च्छिद्राणि | (प्. ४३७) स्वकृत-श्यामारहस्यात् स्नानप्रक्रियान्तरज्ञानोपदेशः) अन्यत् स्नानरहस्यन्तु श्यामाख्ये चैव मत्कृते | अनुसन्धेयमत्रैव नोक्तन्तु ग्रन्थगौरवात् || १४ || (वैदिकसन्ध्यानन्तरं तान्त्रिकसन्ध्या, तत्राचमनादि) ततश्च वैदिकीं सन्ध्यां कृत्वाचम्य विधानतः | (षडङ्गन्यासपुरःसरमघमर्षणम्) षडङ्गन्यासमाचर्य वामहस्ते जलं ततः || १५ || गृहीत्वा दक्षहस्तेन संपुटं कारयेत्ततः | शिववायुजलपृथ्वीवह्निबीजैस्त्रिधा पुनः || १६ || __________________________________________________________________ १४ | अन्यदिति | श्यामाख्ये श्यामारहस्यनामके निबन्धे | श्रीमत्पूर्णानन्दपरमहंसकृते श्यामारहस्ये प्रथमपरिच्छेदे प्रातःकृत्यनिरूपणानन्तरम् अथ नद्यादौ गत्वा कालिकारूपं सर्वं विभाव्ये त्यादिना स्नानरहस्यं विशिष्य निरूपितम् | १६ | दक्षहस्तेन संपुटं कारयेदाच्छादयेत् | आछाद्य च शिववायुजलपृथ्वीवह्निबीजैः हं यं वं लं रमित्येतैस्त्रिधाऽभिमन्त्र्य तत्त्वमुद्रया मूलमन्त्रेण तज्जलं शिरसि सप्तवारं निक्षिपेदिति सम्बन्धः | तत्त्वमुद्रालक्षणमाह गन्धर्वतन्त्रे सप्तमपटले अङ्गुष्ठानामिकायोगं (ः) तत्त्वमुद्रेयमीरिता | अत्र विशिष्यानुक्तावपि वामहस्ताङ्गुलिविवरगलितजलबिन्दुभिः शिरसि प्रोक्षणं विधेयम्, गन्धर्वतन्त्रे षष्ठपटले वामहस्ते जलं गृह्य गलितोदकबिन्दुभिः | सप्तधा प्रोक्षणं कुर्यान्मूर्द्ध्नि मन्त्रमनुस्मरन् || अवशिष्टोदकं दक्षहस्ते संगृह्य साधकः | नासामाश्लिष्य तोयेन ततस्तेनाघमर्षणम् || इत्यादिना तथा व्यक्तमभिधानात् | अत्र ततस्तेनाघमर्षणमित्युक्त्या निरुक्तसंस्कारसंस्कृतजलेन नासापुटोत्तोलितेन पापक्षालनस्यैवाघमर्षणत्वमुक्तम् | मूले वहन्नासापुटेन तु उत्तोल्य क्षालयेत् पापमित्युक्तम् | उत्तोलनक्रममाह गन्धर्वतन्त्रे षष्ठपटले ईडयाकृष्य देहान्तः क्षालितैः पापसञ्चयैः | कृष्णवर्णं तदुदकं वामनाड्या विरेचितम् || (प्. ४३८) अभिमन्त्र्य च मूलेन सप्तधा तत्त्वमुद्रया | निक्षिपेत्तज्जलं मूर्द्ध्नि शेषं दक्षे निधाय च || १७ || तत्तु तेजोमयं ध्यात्वा वहन्नासापुटेन तु | उत्तोल्य क्षालयेत् पापं वामकुक्षिस्थितं नरम् || १८ || ब्रह्महत्याशिरस्कञ्च स्वर्णस्तेयभुजद्वयम् | सुरापानहृदा युक्तं गुरुतल्पकटिद्वयम् || १९ || तत्संसर्गिपदद्वन्द्वमङ्गप्रत्यङ्गपातकम् | उपपातकरोमाणं रक्तश्मश्रुविलोचनम् || २० || खड्गचर्मधरं क्रूरं कृष्णं क्रोधप्रपूरितम् | नानापातकसङ्घैस्तु सर्वाङ्गं परिचिन्तयेत् || २१ || भूमौ वज्रशिलायान्तु तं त्यजेदघसञ्चयम् | (सन्ध्याया अनन्तरप्रक्रियोपदेशस्तर्पणञ्च) ततश्च तान्त्रिकीं सन्ध्यां कृत्वा सन्तर्पयेत् पराम् || २२ || _________________________________________________________________ दक्षहस्ते तु तन्मन्त्री पापरूपं विचिन्त्य च | पुरतो वज्रपाषाणे प्रक्षिपेदस्त्रमन्त्रतः || इति | १८-२१ | पापपुरुषस्य स्वरूपमाह-पापमित्यादिना | पापं नरं पापपुरुषं तं विशिनष्टि वामकुक्षिस्थितमित्यादिना | २१ | ततश्चेति | ततो निरुक्ताघमर्षणानन्तरं तान्त्रिकीं सन्ध्यामवशिष्टां कृत्वा तर्पणमाचरेत् | अत्र तन्त्रसारे श्रीविद्याप्रकरणे तान्त्रिकस्नानानन्तरं तान्त्रिकाघमर्षणान्तं कर्म कृत्वा तर्पणं कुर्यादित्युक्तम् | पूर्णानन्दगुरुणा ब्रह्मानन्दपरमहंसेन तु त्रिपुरार्चनरहस्ये अघमर्षणानन्तरं करौ प्रक्षाल्य पूर्ववदाचम्य सूर्यमण्डले देवीं ध्यात्वा जलेन पञ्चोपचारैरभ्यर्च्य अञ्जलौ जलमादाय उत्थाय वाग्भवेश्वरि विद्महे कामेश्वरि धीमहि तन्नः शक्तिः प्रचोदयात् श्रीमहात्रिपुर- (प्. ४३९) देवर्षिपितृपूर्वान्तु सायुधां सपरीकराम् | जले वा तर्पयेद्देवीं गृहे वा तर्पयेत् सुधीः || २३ || संशोध्य वाग्भवेनापः कामराजेन दीपकम् | अमृतं शक्तिकूटेन तेनैव तर्पयेत् पराम् || २४ || यन्त्रराजं जले ध्यात्वा देवीमावाहयेत्तदा || २५ || गणेशादींश्च सन्तर्प्य गणनाथांश्च तर्पयेत् | सरस्वत्यादि सन्तर्प्य भद्रकाल्यादि दैवतम् || २६ || _________________________________________________________________ सुन्दरि एष तेऽर्घः स्वाहा इत्यर्घत्रयं दत्त्वा ह्रां ह्रीं हंसः मार्तण्डभैरवाय प्रकाशशक्तिसहिताय इदमर्घ्यं स्वाहेति सूर्यायार्घ्यत्रयं दत्त्वा गायत्रीं मूलञ्च यथाशक्ति जप्त्वा जपं देव्यै निवेद्य तां हृदि विसर्ज्य षडङ्गं कुर्यादिति सन्ध्या इत्यन्तमभिधाय अथ तर्पणम् इत्यादिना तर्पणविधिरुपदिष्टः | कौलावलीनिर्णये द्वितीयोल्लासे अघमर्षणान्तमभिधाय, प्रक्षाल्य हस्तयुगलमाचामेत्तदनन्तरम् | मायाप्राणात्मकं मन्त्रं मार्तण्डभैरवाय च | प्रकाशशक्तियुक्ताय अर्घ्यं स्वाहा ततो वदेत् | सूर्यायार्घ्यं विधायाथ शक्तिसन्ध्या प्रकीर्तिता | विभाव्य पुरतो यन्त्रं तत्र देवीं गणान्विताम् | गृहीत्वा गन्धतोयञ्च कुलपात्रं ततः परम् | तर्पयेद्देवतावक्त्रे विधिवत् साधकोत्तमः || इत्यादिना अघम्र्षणानन्तरं हस्तक्षालनाचमनपूर्वकं सूर्यार्घ्यान्तमभिधाय देवीतर्पणमुपदिष्टम् | प्रकृते तु अघम्र्षणानन्तरं तान्त्रिकीं सन्ध्यां कृत्वा सन्तर्पयेत् परामित्यभिधानात् तर्पणात् परं सूर्यार्घ्यदानाभिधानाच्च सन्ध्यां कृत्वेत्यनेन सूर्यार्घ्यदानमूलमन्त्रजपादिवर्जं स्वगुरुब्रह्मानन्दाभिमतकरप्रक्षालनादिदेव्यर्घ्यदानान्तं कर्म समाप्येत्याशयः पूर्णानन्दपरमहंसानामिति प्रतिभाति | अत्राऽचार्याणां मतभेददर्शनात् स्वस्वसम्प्रदायानुसारेणैकतमः पक्षः समाश्रयणीय इति दिक् | (प्. ४४०) यन्त्रबाह्यचतुर्द्वारे शस्तौ च गुरुतर्पणम् | अमुकानन्दनाथञ्च अमुकाम्बापदद्वयम् || २७ || अग्नौ परं गुरुञ्चैव नैर्-ऋत्यां परमेष्ठिनम् | परापरञ्च वायव्यां गुरुपत्नीञ्च मध्यमे || २८ || षडाननञ्च सन्तर्प्य ब्रह्मादिपञ्चदेवताः || २९ || देव्यावाहनविद्याश्च तिथिनित्याञ्च तर्पयेत् | त्रिवारं मूलविद्याञ्च स्वशक्त्या सप्तधा जलैः || ३० || भाषापञ्चमयीं देवीं सौभाग्यां पञ्चमीं ततः | अणिमादींश्च सन्तर्प्य ब्रह्माण्याद्यष्टदेवताः || ३१ || संक्षोभण्यादिमुद्राश्च त्रिपुरां प्रकटां ततः | कामाकर्षणरूपादि तर्पयेत्त्रिपुरेश्वरीम् || ३२ || सुगुप्तयोगिनीस्तत्र अनङ्गकुसुमादिकाः | सुन्दरीं तर्पयेत्तत्र सुषुप्ततरयोगिनीम् || ३३ || संक्षोभण्यादिशक्तीश्च तथा त्रिपुरवासिनीम् | योगिनीसम्प्रदायाश्च सर्वसिद्ध्यादिदेवताः || ३४ || श्रीपरां त्रिपुरां नित्यां तर्पयेत् कुलयोगिनीम् | सर्वज्ञादींश्च सन्तर्प्य तथा त्रिपुरमालिनीम् || ३५ || विदर्भयोगिनीस्तत्र वशिन्याद्यष्टदेवताः | तर्पयेत्त्रिपुरां सिद्धां रहस्ययोगिनीस्तथा || ३६ || (प्. ४४१) जम्भादींस्त्रिपुरां देवीमतिरहस्ययोगिनीम् | षडङ्गयुवतीञ्चैव कामेश्वर्यादिकं त्रयम् || ३७ || मूलविद्यां ततो मन्त्री महात्रिपुरसुन्दरीम् | सर्वानन्दमयं चक्रं तथैव परमेश्वरीम् || ३८ || चतुःसमयदेवीन्तु बौद्धादिदेवतां ततः | वटुकादींश्च सन्तर्प्य एकैकाञ्जलिना सुधीः || ३९ || स्वस्वस्थाने महादेवीं बिन्दौ द्वादशधा पुनः | तर्पणञ्च समाप्याथ त्रिवारं प्रोक्षणं तनु || ४० || त्रिधा चार्घ्यं दिनेशाय तन्मुखं सम्यगुत्क्षिपेत् || ४१ || (मार्तण्डभैरवध्यानम्) हेमाम्भोजप्रबालप्रथिमनिजरुचिं चारुखट्वाङ्गपद्मौ चक्रं शक्तिं सपाशं शृणिमपि रुचिरामक्षमालां कपालम् | हस्ताम्भोजैर्दधानं त्रिनयनविलसद्वेदवक्त्राभिरामं मार्तण्डं वल्लभार्द्धं मणिमयमुकुटं हारदीप्तं भजामः || ४२ || (मार्तण्डभैरवाय (सूर्याय) अर्घ्यदानम्) संस्मृत्य भैरवं देवं मार्तण्डाख्यं जगत्पतिम् | मूलेन मनुना मन्त्री सूर्यस्य मनुनापि वा || ४३ || मायाबीजं समुच्चार्य सोहन्तु विपरीततः | सूर्यमन्त्रश्च संप्रोक्तो रक्तपुष्पजलादिभिः || ४ || ________________________________________________________________ ४४-४५ | मायेति | मायाबीजं ह्रीं | सोहमित्यस्य वैपरीत्येनोकौ हंसः इति (प्. ४४२) मार्तण्डभैरवं ङेऽन्तं प्रकाशशक्तिसंयुतम् | अर्घ्यं दत्त्वा मूलमन्त्रं जपेदष्टोत्तरं शतम् || ४५ || (तत्र सूर्यमण्डले देव्या ध्यानम्) सवितुर्मण्डले देवीं ध्यात्वा चन्द्रकलाधराम् | सद्यःसन्तप्तहेमाभां सूर्यमण्डलरूपिणीम् || ४६ || भास्वद्रत्नौघमुकुटां नानाभरणभूषिताम् | पाशाङ्कुशाभयवरान् (अथ यागस्थानप्रवेशक्रमः) अथ चाङ्कुशमुद्रया || ४७ || हृदये तां समानीय हृदि मन्त्रं परामृशन् | अबहिर्मानसो योगी यागभूमिमथाविशेत् || ४८ || (प्रशस्तयागभूमयस्तत्र देवीपूजाविधिश्च) एकलिङ्गे पर्वते वा पितृभूमौ सरस्तटे | गङ्गागर्भे तटे वापि सङ्गमे शून्यमन्दिरे | _________________________________________________________________ स्यात् | एवञ्च ह्रीं हंसः इति सूर्यमन्त्रः | ततश्च मूलं निरुक्तसूर्यमन्त्रं वा समुच्चार्य मार्तण्डभैरवाय प्रकाशशक्तिसहिताय इदमर्घ्यं स्वाहेति वदेदित्यर्थः | ४७-४८ | पाशेति | पाशाङ्कुशाभयवरान् दधतीमिति शेषः | अथेति | एवं ध्यानानन्तरम् अङ्कुशमुद्रया तां हृदि अनाहतपद्मे समानीय सवितृमण्डलादिति शेषः | अङ्कुशमुद्रालक्षणमाह तन्त्रसारे ऋज्वीञ्च मध्यमां कृत्वा तर्जनीं मध्यपर्वणि | संयोज्याऽकुञ्चयेत् किञ्चिन्मुद्रैषाऽङ्कुशसंज्ञिका || इति | मन्त्रं परामृशन् तन्मूलमन्त्रस्वरूपं चिन्तयन् | अबहिर्मानसः हृत्पद्मस्थस्वेष्टदेवतासमाहितमनाः | यागभूमिं पूजास्थानम् | ४९ | पूजास्थानानि निरूपयति एकलिङ्ग इत्यादिना | एकलिङ्गलक्षण- (प्. ४४३) नदीतीरे बिल्वमूले पूजयेत् परमेश्वरीम् || ४९ || (एकलिङ्गलक्षणम्) पञ्चक्रोशान्तरे यत्र न लिङ्गान्तरमीक्ष्यते | तदेकलिङ्गमाख्यातं तत्र सिद्धिरनुत्तमा || ५० || (अथ द्वारपूजा, तत्र प्रथमं हस्तपादप्रक्षालनम्) ततः पूजागृहद्वारि क्षालयेत् पाणिपादकौ || ५१ || (दूर्वाचयनम्) विना वै दूर्वया देवीपूजा नास्तीह कर्हिचित् | तस्माद्दूर्वा ग्रहीतव्या सर्वपुष्पमयी शुभा || ५२ || (आचमनम्) हस्ते दूर्वाङ्कुरं दत्त्वा आचामेद् विधिपूर्वकम् || ५३ || (दिक्पालपूजा) पूर्णचन्द्रान्तराले च ध्यात्वा श्रीगुरुपादुकाम् | पूर्वादिक्रमयोगेण सर्वदिक्पालमर्चयेत् || ५४ || _______________________________________________________________ अग्रे वक्ष्यति | पितृभूमौ श्मशाने | सङ्गमे नदीसङ्गमे | संग्राम इति पाठे तु संग्रामभूमावित्यर्थः | व्यक्तमाह श्यामारहस्यधृतमुण्डमालातन्त्रे नदीतीरे बिल्वमूले श्मशाने शून्यवेश्मनि | एकलिङ्गे पर्वते वा देवागारे चतुष्पथे | शवस्योपरि मुण्डे च जले वाकण्ठपूरिते | संग्रामभूमौ योनौ वा स्थले वा विजने वने | यत्र कुत्र स्थले रम्ये यत्र वा स्यान्मनोलयः || इति | विशेषस्तु गन्धर्वतन्त्रे पञ्चविंशपटले द्रष्टव्यः | ५० | पूर्वमेकलिङ्गे पर्वते वेत्याद्युक्तम्, तदेकलिङ्गलक्षणमाह पञ्चक्रोशान्तर इत्यादिना | ५३ | आचामेदिति | अत्र तन्त्रसारकृता आत्मतत्त्वादिनाचमनमुक्तम् | ५४ | पूर्णेति | पूर्णचन्द्रन्तराले सहस्रारकर्णिकास्थितस्य पूर्णचन्द्रस्यान्तराले (प्. ४४४) (तत्र क्रमान्तरम्) सामान्यार्घं विधायाथ क्रमेण साधकोऽथवा | इन्द्रं स्वशक्तिसहितं पूर्वद्वारे समर्चयेत् || ५५ || यमञ्च दक्षिणद्वारि पश्चिमे वरुणं तथा | कुबेरमुत्तरद्वारि वहिनिं वह्नौ च निर्-ऋतिम् || ५६ || नैर्-ऋत्यां पूजयेन्मन्त्री तथैव वायुकोणके | वायुमीशे तथेशानमूर्द्ध्वे प्रजापतिं तथा || ५७ || अनन्तं गन्धपुष्पाद्यैरधश्च परिपूजयेत् || ५८ || (अस्त्रपूजा) पूर्वादिक्रमयोगेण वज्राद्यस्त्रं यजेद् बुधः || ५९ || (पूजनीयान्यस्त्राणि) वज्रं शक्तिं तथा दण्डं खड्गं पाशाङ्कुशे ततः | गदात्रिशूलपद्मञ्च चक्रमाराधयेत् क्रमात् || ६० || _________________________________________________________________ श्रीगुरुपादुकां ध्यात्वेत्यर्थः | सर्वेति | पूर्वादिक्रमयोगेण निरुक्तपूर्णचन्द्रान्तराले सर्वदिक्पालमर्चयेदित्यर्थः | सहस्रारे दिक्पालानामिन्द्रादीनामवस्थितिमाह निर्वाणतन्त्रे दशमपटले, सहस्रारं प्रकृत्य एवं ब्रह्मादयो देवा इन्द्राद्यास्त्रिदशेश्वराः | स्तुतिभक्तिपराः सर्वे दिव्यभावैः सदा स्थिताः || इति | ५५-५८ | दिक्पालपूजायां क्रमान्तरमाह सामान्यार्घ्यमित्यादिना | कल्पेऽस्मिन् सामान्यार्घ्यं विधाय मण्डपस्य पूर्वादिद्वारचतुष्टये क्रमेणेन्द्र-यम-वरुण-कुबेरान् कोणचतुष्टये वह्नि-निर्-ऋति-वायवीशानान् ऊर्द्ध्वे प्रजापतिमधश्चानन्तं पूजयेदिति | ५९-६० | पूर्वादीति | वज्राद्यस्त्रमिन्द्रादीनामिति शेषः | अत्र पूर्वादिक्रमयोगेणेत्यनेन प्रथमकल्पे पूर्वादिक्रमेणास्त्रपूजनं द्वितीयकल्पे तु पूजाक्रमानुसारेण प्रथममिन्द्रादिदिक्पतीनां ततश्चाग्न्यादिकोणाधिपतीनामस्त्राणि पूजयेत् | प्रधानपूजाक्रममुल्लङ्घ्य तदङ्गभूतास्त्रपूजायामन्यथाकरणे प्रमाणाभावादिति ध्येयम् | (प्. ४४५) (पूर्वादिक्रमेण गणेशादिपूजा) गणेशञ्चैव क्षेत्रेशं द्वारश्रियञ्च देहलीम् | पूर्वद्वारे यजेत् पश्चाद्दक्षिणे गणनायकम् || ६१ || दुर्गाञ्च वटुकं क्षेत्रपालं कामरतिन्तथा | प्रीत्या सह वसन्तञ्च शङ्खपद्मनिधी तथा || ६२ || रत्नसोपानमिष्ट्वा तु पश्चिमे परिपूजयेत् | सरस्वतीं महालक्ष्मीं मायां दुर्गां तथोत्तरे || ६३ || भद्रकालीं तथा स्वस्तिं स्वाहां शुभकरीं तथा | गौरीञ्च लोकधात्रीञ्च वागीश्वरीं प्रपूजयेत् || ६४ || (अथ मण्डपप्रवेशः) मण्डपान्तः प्रविश्याथ सव्यपादपुरःसरम् | पूजाद्रव्याणि वै पश्येन्मूलमन्त्रेण साधकः || ६५ || (पुष्पशोधनम्) पुष्पे पुष्पे महापुष्पे पुष्पावकीर्ण इत्यपि | स्वाहेति शोधयेत् पुष्पं वाराहीतन्त्रसम्मतम् || ६६ || _________________________________________________________________ ६२ | कामरतिं कामं रतिञ्चेत्यर्थः | प्रीत्या सह वसन्तं प्रीतिं वसन्तञ्चेत्यर्थः | ६५ | मण्डपान्तरिति | सव्यपादपुरःसरं दक्षिणपादपूर्वकम् | अत्र विप्रतिपद्यमानाना मतं पूर्वमेव (५|२८ श्लो० टी०) निराकृतमिति तत एव सर्वमवगन्तव्यम् | ६६ | अथ पुष्पशोधनमन्त्रमाह पुष्प इति | तथा च पुष्पे पुष्पे महापुष्पे पुष्पावकीर्णे स्वाहा इति श्रीविद्याविषये पुष्पशोधनमन्त्रः | यत्तु कुमारीतन्त्रे द्वितीयपटले अधिष्ठाने च पुष्पस्य प्रणवं पूर्वमुद्धरेत् | शताभिषेकेति पदं शताभीति ततः परम् | (प्. ४४६) (जलशोधनपूर्वकं प्रोक्षणम्) जलसंशोधनं मन्त्रं न्यस्य वस्तुषु प्रोक्षणम् | (अमृतीकरणादि) ततोऽमृतीकृत्य तालं त्रिधाऽवगुण्ठ्य चेक्षणम् || ६७ || _________________________________________________________________ षेकेति च ततः प्रोक्तं हूं फट् स्वाहा ततः परम् | प्रणवं पुष्पकेतुश्च तथा राजार्हतेऽपि च | शताय सम्यगित्युक्त्वा जपेच्चैव च हूमिति | पुष्पे पुष्पे महापुष्पे सुपुष्पे पुष्पसम्भवे | पुष्पचयावकीर्णे हूं फट् स्वाहा च ततः परम् | विशोध्य पुष्पमेतेन जलं पूर्ववदाहरेत् || इति पुष्पशोधनमुक्तं तच्छ्रीविद्येतरविषयम्, श्रीविद्यायां विशेषविधानात् | अत एव हरतत्त्वदीधितौ निरुक्तकुमारीतन्त्रोक्तपुष्पशोधनक्रममभिधाय, श्रीविद्यायान्तु वाराहीतन्त्रे षष्ठपटले पुष्पे पुष्पे महापुष्पे पुष्पावकीर्ण इत्यपि | स्वाहेति शोधयेत् पुष्पं तेन पुष्पेण पूजयेत् || इत्युक्तम् | प्रकृतेऽपि निरुक्तवाराहीतन्त्रसम्मतक्रमदर्शनाय वाराहीतन्त्रसम्मतमिति विशिष्योक्तमिति निष्कर्षः | ६७ | जलेति | जलशोधनमन्त्रः पूर्वमेव प्रदर्शितः | तत इति | जलशोधनमन्त्रजपानन्तरम् अमृतीकृत्य तज्जलममृतरूपतां प्रापयय धेनुमुद्रयेति शेषः | धेनुमुद्रां तयाऽमृतीकरणञ्चाऽह तन्त्रसारे अन्योऽन्याभिमुखाश्लिष्टा कनिष्ठानामिका पुनः | अथैव तर्जनीमध्या धेनुमुद्रा प्रकीर्तिता | अमृतीकरणं कुर्यात्तया साधकसत्तमः || इति | तालत्रयमग्रे वक्ष्यति | अवगुण्ठ्येति | अवगुण्ठनमुद्रामाह तन्त्रसारे सव्यहस्तकृता मुष्टिदीर्घाधोमुखतर्जनी | अवगुण्ठनमुद्रयमभितो भ्रामिता मता || इति | (प्. ४४७) (मण्डपपूजा) त्रिपुरार्चनमण्डपाय नमोऽन्तेन गृहं यजेत् | अस्त्रेण प्रोक्षणं कृत्वा त्रिकोणं तत्र संलिखेत् || ६८ || (पृथिवीपूजा) प्रणवं शक्रबीजन्तु पृथिव्यै नम इत्यपि | अनेन मनुना तत्र पृथिवीं पूजयेदपि || ६९ || (पृथिवीसम्प्रदानकमर्घ्यदानम्) अथवाऽर्घ्यं समादाय मूलमन्त्रपुरःसरम् | (तत्र प्रार्थनमन्त्रः) वसुधे हेमगर्भाऽसि शेषस्योपरिशायिनि | स्थानं मे देहि पूजार्थं गृहाणार्घ्यं धरित्रि मे || ७० || (अर्घ्यदानमन्त्रः) ओं नमो भगवत्यै धरण्यै धरणीति च | धरे स्वाहेति मन्त्रेण दद्यादर्घ्यमनुत्तमम् || ७१ || _________________________________________________________________ ६८ | त्रिपुरेति | ओं त्रिपुरार्चनमण्डपाय नमः इति प्रयोगः | अत्र विशिष्यानुक्तावपि प्रणवपूर्वक एव मन्त्रः प्रयोज्यः ओंकारादिसमायुक्तं नमस्कारान्तकीर्तितम् | स्वनाम सर्वदेवानां मन्त्र इत्यभिधीयते || इत्यनेन प्रणवादिनमोऽन्तसाध्यनाम्नो मन्त्रत्वविधानात्, त्रिपुरार्चनरहस्ये ओं त्रिपुरायागमण्डपाय नमः इति स्फुटमभिधानाच्च | अस्त्रेण फडित्यनेन | ६९ | तत्र त्रिकोणे पृथिवीपूजनमाह प्रणवमित्यादिना | प्रणवः ओं, शक्रबीजं लं ततः पृथिव्यै नम इति | एवञ्च ओं लं पृथिव्यै नमः इति मन्त्रः पर्यवस्यति | ७० | अर्घ्यदानरूपं पृथिवीपूजाकल्पान्तरमाह अथवेति | अत्र कल्पे अर्घ्यं गृहीत्वा प्रथमं मूलमन्त्रं ततो वसुधे हेमगर्भासीति मन्त्रं पठेत् | ततश्च ओं नमो भगवत्यै धरण्यै धरणीधरे स्वाहा इत्यनेन मन्त्रेणार्घ्यं दद्यात् | पूर्वकल्पे पूजनमात्रम् | अत्र तु पूजनमकृत्वा पृथिवीसम्प्रदानकमर्घ्यदानमात्रमित्येव सूचितमथवेत्यनेन | (प्. ४४८) (करशुद्धिः) करशुद्धिं गन्धपुष्पैर्विदध्यान्मनुनाऽमुना || ७२ || आद्यस्वरयुगं सेन्दुखण्डं मनुयुतो भृगुः | सर्गीति मनुराख्यात- (भूतापसारणम्) स्ततो भूतान्निवारयेत् || ७३ || _________________________________________________________________ ७२ | अथ करशुद्धिप्रक्रियामाह करेत्यादिना | अमुना वक्ष्यमाणेन मन्त्रेण गन्धपुष्पैः करशुद्धिं विदध्यादिति सम्बन्धः | अत्र पुष्पैरित्यनेन रक्तपुष्पैरिति बोध्यम् | व्यक्तमाह गन्धर्वतन्त्रेऽष्टमपटले गृहीत्वा रक्तपुष्पञ्च सगन्धं साधकस्ततः | अनेनैव तु मन्त्रेण पुष्पं हस्ततलस्थितम् | सम्मार्ज्य सव्यहस्तेन वामेन पाणिना ततः | निर्मञ्छय कामबीजेन चाघ्राय वाग्भवेन तु | ऐशान्यां निक्षिपेदेतच्छेष(च्छर)बीजेन पार्वति | इति | अनेन करशुद्धेः क्रमोऽपि व्याख्यातः | ७३ | पूर्ववचने विदध्यान्मनुनाऽमुनेत्युक्तम्, तं मनुमाह आद्येत्यादिना आख्यात इत्यन्तेन | आद्यस्वरयुगम् अकार आकारश्च | सेन्दुखण्डं सानुस्वारम् | एतेन अं आं इति प्राप्तम् | मनुयुत इति | मनुश्चतुर्दशस्वर औकारस्तद्युतो भृगुः सकारः | स च सर्गी विसर्गयुक्तः, एतेन सौः इति लब्धम् | एवञ्च अं आं सौः इति करशोधनमन्त्रः पर्यवस्यति | गन्धर्वतन्त्रेऽष्टमपटलेऽप्ययमेव पुष्पशोधनमन्त्र उक्तः | यथा मातृकाद्यं समुद्धृत्य द्वितीयञ्च सबिन्दुकम् | शान्तान्त-कादिसंयुक्तमैकारान्तान्तयोजितम् | एवमेषा महाविद्या करशुद्धिकरी मता || एवञ्च प्रागुक्त-गन्धर्वतन्त्रवचनपर्यालोचनया सगन्धं रक्तपुष्पं दक्षिणहस्तेनाऽदाय (प्. ४४९) (तत्र मन्त्रः) अपसर्पन्तु ते भूता ये भूता भुवि संस्थिताः | ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया || ७४ || (भौमविघ्नोत्सारणम्) दूर्वाक्षतं क्षिपेद्दिक्षु मूलमन्त्रास्त्रमुच्चरेत् | ततः कुमारिकां व्योमवह्नि सर्गान्वितां बुधः || ७५ || अस्त्राय फट्-पदञ्चैव भूमिञ्चामृतया स्पृशन् | पार्ष्णिघातत्रयं भूमौ कुर्याद्दक्षेतरस्य च || ७६ || (दिव्यविघ्नोत्सारणम्) समुदञ्चितवक्त्रेण दिव्यान् विघ्नान् निवारयेत् || ७७ || (आन्तरिक्षविघ्नोत्सारणम्) कुमार्या त्रितयं तालं दद्यादूर्द्ध्वोर्द्ध्वयोगतः | सशब्दं पादहृन्मस्तप्रदेशेषु यथाक्रमम् || ७८ || (दिग्बन्धनं वह्निप्राकारचिन्तनञ्च) दशदिग्बन्धनं कृत्वा छोटिकाभिस्तु हस्तयोः | वह्निप्राकारकं ध्यायेद्दिक्षु साधकसत्तमः || ७९ || _________________________________________________________________ वामहस्तेन क्लीमिति कामबीजेन निर्मञ्छ्य ऐ/ इति वाग्भवेनाऽघ्राय फडित्यस्त्रबीजेन ऐशान्यां निक्षिपेदिति करशोधनक्रमः प्रतीयते | निरुक्तकरशुद्धेः फलमाह तत्रैव अङ्गुल्यग्राणि शुद्धानि पुष्पस्य ग्रहणाद् भवेत् | मर्दनात् करयोः शुद्धिर्निर्मञ्छनात्तु पृष्ठयोः | घ्राणाद्देवाश्च तुष्यन्ति तीर्थानाञ्च समागमः | प्रक्षेपात् सर्वविघ्नानां दुरसंस्थानमेव च | दुर्गन्धोत्सृष्टसंस्पर्शदूषणं करयोस्तु यत् | अज्ञातरूपं तत् सर्वं नाशयेद् विधिनाऽमुना || इति | ७९ | छोटिकाभिरिति | छोटिका तर्जन्यङ्गुष्ठाङ्गुलिध्वनिः | (प्. ४५०) (दिग्बन्धनमन्त्रः) ऐन्द्रीं चक्रेण बध्नामि नमश्चक्राय ठ-द्वयम् | मन्त्रेणानेन कुर्वीत दिशां प्रागादिबन्धनम् || ८० || (दिग्बन्धने प्रयोज्याऽस्त्रमुद्रा) आच्छाद्य दिक्षु तर्जन्या ज्येष्ठाग्रस्तनिताग्रया | अस्त्रमुद्रेयमाख्याता दिशां प्रागादिबन्धने || ८१ || (वह्निप्राकारमन्त्रः) त्रैलोक्यं रक्ष रक्षेति हुं फट् स्वाहेत् कीर्तितः | तारादिकोऽयं मन्त्रः स्यादग्निप्राकारसंज्ञकः || ८२ || (अस्त्रमुद्रा) त्रिशूलाग्रौ करौ कृत्वा व्यत्यस्तावभितो नयेत् | अस्त्रमुद्रेयमाख्याता वह्निप्राकारलक्षणा | परद्रोहोपशमनी नागाशनिभयापहा || ८३ || __________________________________________________________________ ८० | पूर्वं दशदिग्बन्धनं कृत्वेत्युक्तम्, तत्र मन्त्रमाह ऐन्द्रीमित्यादिना | तथा च ऐन्द्रीं चक्रेण बध्नामि नमश्चक्राय स्वाहेति दिग्बन्धनमन्त्रः | ८१ | निरुक्तदिग्बन्धने प्रयोज्यामस्त्रमुद्रामाह आच्छाद्येत्यादिना | ज्येष्ठाग्रस्तनिताग्रया ज्येष्ठाया अग्रे स्तनितमग्रं यस्यास्तथाभूतया तर्जन्या दिक्षु आच्छाद्य बन्धनं कुर्वीत | दिशां प्रागादिबन्धने इयमस्त्रमुद्रा ख्यातेति सम्बन्धः | एवञ्च पूर्वं यत् छोटिकाभिस्तु हस्तयोरित्युक्तं तत्रप्येतदस्त्रमुद्रकृतच्छोटिकाभिरित्यर्थो बोध्यः | ८२ | पूर्वं वह्निप्राकारकं ध्यायेदित्युक्तम्, तत्र मन्त्रमाह त्रैलोक्यमित्यादिना | तारादिकः प्रणवाद्यः | तथा च ओं त्रैलोक्यं रक्ष रक्ष हु/ फट् स्वाहेति अग्निप्राकारमन्त्रः | एतन्मन्त्रोच्चारणपूर्वकमग्निप्राकारं चिन्तयेदिति तात्पर्यम् | ८३ | वह्निप्राकारस्वरूपनिरूपणायास्त्रमुद्रामाह त्रिशूलेति | उभावेव करौ त्रिशूलाग्रौ त्रिशूलवत् अग्रं ययोस्तथाभूतौ कृत्वा, एतेन हस्तयोस्तर्जनीमध्यमानामिका (प्. ४५१) (जपविघ्नापनोदनम्) अद्भिः पुष्पाक्षतैश्चैव वह्निबीजास्त्रमन्त्रितैः | प्रक्षिपेत् प्रयतो मन्त्री जपविघ्नापनुत्तये || ८४ || (ब्रह्म-वास्तुपुरुषयोरर्चा) नैर्-ऋत्यां वास्तुपुरुषान् ब्रह्माणञ्च ततो यजेत् | (त्रिकोणमण्डलम्) भूमौ त्रिकोणमालिख्याऽधारशक्त्यादिपूजनम् || ८५ || (तत्राऽसनस्थापनम्) मनोहरमृदुश्लक्ष्णमासनं तत्र निक्षिपेत् | आसनञ्चार्घ्यपात्रञ्च भग्नमेव विवर्जयेत् || ८६ || (आसनारोपणे ऋष्यादि) मेरुपृष्ठ ऋषिः प्रोक्तः सुतलं छन्द ईरितम् | कूर्मोऽत्र देवता प्रोक्ता आसनारोपणे ततः || ८७ || विनियोगस्तु कथित (प्रार्थनमन्त्रः) स्ततो धृत्वा पठेदिमम् | पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता | त्वञ्च धारय मां नित्यं पवित्रं कुरु चासनम् || ८८ || __________________________________________________________________ त्रिशूलाग्रवदूर्द्ध्वं विस्फार्येत्युक्तं भवति | तादृशौ करौ व्यत्यस्तौ विपरीतौ अभितो नयेत् एकहस्तस्य निरुक्ताङ्गुलित्रयान्तरालेनापरहस्तस्य निरुक्तमङ्गुलित्रयं प्रवेशयेदित्यर्थः | इयं वह्निप्राकारलक्षणाऽस्त्रमुद्रा | यथा परे वह्निप्राकारमतिक्रम्य पुरमभिद्रोग्धुं न क्षमन्ते तथैतन्मुद्राविरचनशीलं साधकं साधनद्वेषिणो भूतर्हिस्रादयो लेशतोऽपि नेशते हिंसितुमिति तात्पर्यम् | एतदेव फलाभिधानमुखेनाह परेत्यादिना | ८४ | अद्भिरिति | वह्निबीजास्त्रमन्त्रितैः रं फट् इत्यनेन मन्त्रेण मन्त्रितैरित्यर्थः | (प्. ४५२) (आसनार्चनमन्त्रः) कूर्चत्रयं तत्र दत्त्वा मायाबीजं ततो वदेत् | आधारशक्तिशब्दान्ते कमलासनमालिखेत् | ङेऽन्तं नम-पदं दत्त्वा स्वासनं परिपूजयेत् || ८९ || (मन्त्राचमनम्) यथोक्तविधिनाचम्य त्रिभिः कूटैर्यथाविधि | (आसनारोहणं गुरुपङ्क्तिपूजा च) तद्धिचासनमारुह्य गुरुपूजां समाचरेत् || ९० || __________________________________________________________________ ८९ | कूर्चेति | कूर्चत्रयं पञ्चमप्रकाशोक्तं (३२ श्लो०) पारिभाषिककूर्चाख्यकुशत्रयम् | अत्रासने कुशस्थापनं श्यामारहस्यधृतस्वतन्त्रतन्त्रेऽप्युक्तम्, यथा इति धृत्वा तु देवेशि कुशांस्तत्रैव दापयेत् | मायाबीजं समुच्चार्य आधारशक्तिमुच्चरेत् | कमलासनमालिख्य ङेनमोऽन्तं प्रपूजयेत् || इति | मायाबीजमित्यादि | तथा च ह्रीं आधारशक्तिकमलासनाय नम इत्यासनपूजामन्त्रः पर्यवस्यति | तन्त्रसारकारस्तु ऐ/ ह्रीं श्रीमिति बीजत्रयपूर्वकमेतन्मन्त्रमाह | निरुक्तासनशुद्धेः फलमाह गन्धर्वतन्त्रे सप्तमपटले दुःशिल्पिरचितत्वादि यदन्यासनदूषणम् | अज्ञातरूपकं याति विलयं विधिना प्रिये || इति | ९० | त्रिभिः कूटैः ऐ/ क्लीं सौरिति बालाकूटत्रयेण | श्रीविद्यामधिकृत्य बालाबीजैस्त्रिभिः पीत्वेत्यादिभैरवतन्त्रवचनदर्शनात् | प्रथमं वाग्भवं देवि कामराजं द्वितीयकम् | तृतीयं शक्तिबीजन्तु शिवयुक्तं सदा भवेत् || इति हरतत्त्वदीधितिधृतरुद्रयामलवचने निरुक्तबालामन्त्रस्य कूटत्रयात्मकत्वश्रवणाच्च | अयमाचमनक्रमस्तु पञ्चमप्रकाशीयपञ्चविंशश्लोकटीकायां स्फुटमुपपादितः | गुरुपूजां समाचरेदिति | अत्र पूजा प्रणामरूपा वक्ष्यमाणा | व्यक्तमाह गन्धर्वतन्त्रे सप्तमपटले (प्. ४५३) वामकर्णोर्द्ध्वदेशे तु संपूर्णे शशिमण्डले | दक्षकर्णोर्द्ध्वभागे तु गणेशं पूजयेत्ततः | मस्तकोपरिभागे तु दुर्गां देवीं स्मरेत्ततः || ९१ || (तत्र साधकस्य वेशादिपारिपाट्यम्) रक्तचन्दनसंयुक्तो रक्तमाल्येन संवृतः | ताम्बूलरागवदनो रक्ताम्बरविराजितः || ९२ || कर्पूरक्षोददिग्धाङ्गः कारणानन्दमानसः | कर्पूरसकलोन्मिश्रधूपदीपैर्विराजितः || ९३ || नानारक्तसमायुक्तो लाक्षारुणगृहे स्थितः | मनःसङ्कल्परक्तो वा साधकः स्थिरमानसः || ९४ || (आत्मरक्षा) बालामन्त्रेण वा तस्या आद्यशेषेण वा सुधीः | वक्ष्यमाणक्रमेणैव त्रिपुरसुन्दरि शब्दतः || ९५ || आत्मानं रक्ष रक्षेति हृदि हस्तं निधाय च | कृत्वात्मरक्षणं मन्त्री (करशुद्धिः) करशुद्धिं समाचरेत् || ९६ || ________________________________________________________________ कृताञ्जलिपुटो भूत्वा मन्दस्मितमुखाम्बुजः | वामकर्णोर्द्ध्वभागे तु गुरुञ्च प्रणमेत् ततः || दक्षकर्णोर्द्ध्वभागे तु गणेशं प्रणमेद् बुधः | दुर्गां नमेत् पुरोभागे पृष्ठतः क्षेत्रनायकम् || इति | ९२-९४ | कीदृशः साधको गुरुप्रणामादीनि कर्माणि कुर्यादित्याह रक्तेत्यादि | ९५-९६ | अथाऽत्मरक्षाक्रममाह-बालेत्यादिना कृत्वात्मरक्षणमित्यन्तेन | (प्. ४५४) पूर्वोक्तेनैव मन्त्रेण द्विरावृत्त्याऽथवा सुधीः | बालाबीजत्रयादूर्द्ध्वं ततस्त्रिपुरसुन्दरि || ९७ || नम इत्यनुनाऽङ्गुष्ठाद्यङ्गुलिभ्यां नमोऽन्तिकाः | न्यस्तव्या नाममन्त्राढ्यास्तलपृष्ठक्रमावधि || ९८ || _________________________________________________________________ बालामन्त्रेण ऐ/ क्ली/ सौः इत्यनेन | तस्या बालाया आद्यशेषेण आद्यावशिष्ठेन क्ली/ सौः इत्यनेन वेत्यर्थः | एवञ्च हृदये हस्तं दत्त्वा ऐ/ क्लीं सौरित्यनन्तरं क्लीं सौरित्यनन्तरं वा त्रिपुरसुन्दरि आत्मानं रक्ष रक्षेति समुच्चरेदित्यात्मरक्षाक्रमः | त्रिपुरार्चनरहस्ये तु ऐ/ क्लीं सौः त्रिपुरेश्वरि मां रक्ष रक्षेति प्रयोगो दृश्यते | ९६-९८ | अथ करशुद्धिक्रममाह-करशुद्धिमित्यादिना | पूर्वोक्तेन आद्यस्वरयुगं सेन्दुखण्डं मनुयुतो भृगुः | सर्गीति मनुराख्यातः (१५|७१) इति वचनप्राप्तेन अं आं सौः इति मन्त्रेणैव द्विरावृत्त्या करशुद्धिं कुर्यादिति सम्बन्धः | अत्रैतदवधेयम् इयं करशुद्धिः करन्यासरूपा, अवसरप्राप्तत्वादितः परमेवाङ्गन्यासस्य वक्ष्यमाणत्वात् तन्त्रसारादिषु तथैव प्रतिपादितत्वाच्च | अत्र अं आं सौरिति बीजत्रयात्मकमन्त्रस्य द्विरावृत्त्या षडक्षरलाभात् अङ्गुष्ठादिकरतलपृष्थान्तेष्वेकैकबीजयोग उक्तः | तथा चात्र कल्पे अं त्रिपुरसुन्दरि अङ्गुष्ठाभ्यां नमः | आं त्रिपुरसुन्दरि तर्जनीभ्यां नमः | सौः त्रिपुरसुन्दरि मध्यमाभ्यां नमः | अं त्रिपुरसुन्दरि अनामिकाभ्यां नमः | आं त्रिपुरसुन्दरि कनिष्ठाभ्यां नमः | सौः त्रिपुरसुन्दरि करतलपृष्ठाभ्यां नमः | इति प्रयोगः पर्यवस्यति | द्वितीयं कल्पमाह-अथवेत्यादिना | अत्रापि द्विरावृत्त्येति सम्बध्यते बाधकाभावात् मूलविद्याद्विरावृत्त्येत्यादिवक्ष्यमाण- गन्धर्वतन्त्रद्वितीयपटलवचनस्वरसाच्च | तथा च ऐ/ त्रिपुरसुन्दरि अङ्गुष्ठाभ्यां नमः, क्ली/ त्रिपुरसुन्दरि तर्जनीभ्यां नमः, सौः त्रिपुरसुन्दरि मध्यमाभ्यां नमः, ततश्च ऐ/ त्रिपुरसुन्दरि अनामिकाभ्यां नमः | -इत्यादिरूपः प्रयोगः कर्तव्यः | तन्त्रसारे तु श्रीविद्याप्रकरणे अनयोः प्रथम एव क्रमोऽन्यादृशरीत्या प्रदर्शितो यथा एतद्बीजं द्विरावृत्त्या मध्यमाद्यङ्गुलीषु च | शुद्धिं करस्य कुर्वीत तलयोः पृष्ठयोरपि | चतुर्थीनतिसंयुक्तनाममन्त्रैः पृथक् पृथक् || इति | एतेन प्रथमतोऽनामिकादिकरतलपृष्ठान्तं ततोऽङ्गुष्ठादिमध्यमान्तं करन्यासमाह | (प्. ४५५) (बालामन्त्रः) वाक् कामं शम्भुपूर्वन्तु शक्रस्वरविसर्गवत् | (अङ्गन्यासः) अनया बालया मन्त्री षडङ्गन्तु समाचरेत् || ९९ || __________________________________________________________________ एतन्मते त्रिपुरसुन्दरिपदस्योल्लेखो न विहितः | एतत्प्रमाणानुसारेणैव तन्त्रसारकारैः अं अङ्गुष्ठाभ्यां नमः | आं तर्जनीभ्यां नमः | सौः कनिष्ठाभ्यां नमः | अं अङ्गुष्ठाभ्यां नमः | - इत्येवं प्रयोगक्रमः प्रदर्शितः | त्रिपुरार्चनरहस्येऽप्ययमेव क्रमो दृश्यते, परन्तु तत्र निरुक्तनमोऽन्तत्वमनादृत्य अं मध्यमाभ्यां वषट् आं अनामिकाभ्यां हू/, सौः कनिष्ठाभ्यां वौषट्, अं अङ्गुष्ठाभ्यां नम इत्यादिप्रयोग इति विशेषः | गन्धर्वतन्त्रे नवमपटले तु मूलविद्याद्विरावृत्त्या सर्वाङ्गुलितलेषु च | ङेऽन्तेषु परमेशानि न्यसेदङ्गानि षट् क्रमात् | नमः स्वाहा वषड् वौषट् हू/ फडिति षडङ्गकम् | करयोरथ विन्यस्य षडङ्गेषु तथा न्यसेत् | इत्यनेन करन्यासे प्रागुक्तनमोऽन्तत्वमनङ्गीकृत्य नमः स्वाहा वौषडाद्यन्तत्वमुक्तमिति प्रकारान्तरं दृश्यते | अत्र गन्धर्वतन्त्रवचने मूलविद्याद्विरावृत्त्येत्यस्यायमभिप्रायः हरतत्त्वदीधितिधृतविश्वसारतन्त्रे द्वितीयपटले यस्य लोकस्य यं मन्त्रं दद्याच्च विधिना गुरुः | तन्मूलमन्त्रं विज्ञेयं सर्वतन्त्रसमन्वितम् || इति मूलविद्यालक्षणं कृतम् | एवञ्च प्रागुक्तगन्धर्वतन्त्रवचने मूलविद्याद्विरावृत्त्येत्यनेन न केवलं श्रीतत्त्वचिन्तामण्युक्तबालाबीजमात्रमभिप्रेतम्, परन्तु प्रागुक्तासु सर्वास्वेव त्रिकूटात्मकविद्यासु श्रीगुरुदत्त-स्वस्वेष्टमन्त्राणां संग्रह इति बोध्यम् | स्वयमप्येतदङ्गन्यासनिरूपणावसरे व्यक्तीकरिष्यति ग्रन्थकारः | एवञ्चात्र बहुधा मतभेददर्शनात् स्वस्वगुरुसम्प्रदायानुसारेणैकतमः क्रमः समादरणीय इति दिक् | ९९ | ननु पूर्वं करन्यासे बालामन्त्रेणेत्युक्तम् | अङ्गन्यासेऽपि बालाबीजपूर्वकत्वं वक्ष्यति तत् किमिदं बालाबीजं नामेत्यत आह-वागिति | वाक् वाग्भवबीजं ऐ/, कामं कामबीजं क्लीं, शम्भुपूर्वं शम्भुर्हकारस्तत्पूर्वं सकारः, तच्च शम्भुपूर्वं शक्रस्वरविसर्गवत् शक्रस्वरश्चतुर्दशस्वर औकारः, विसर्गश्च | शक्रस्वरविसर्गवदिति शम्भुपूर्वमित्यस्य विशेषणम् | एवञ्च ऐ/ क्ली/ सौरिति बालाविद्येति फलितम् | अनयेति निरुक्तया बालाविद्ययेत्यर्थः | (प्. ४५६) अस्यास्त्रिबीजमुच्चार्य मन्त्री त्रिपुरसुन्दरि | नम इत्यादितो वाच्यं षडङ्गानि ततः परम् || १०० || (तत्र क्रमान्तरम्) वक्ष्यमाणक्रमान्मूलद्विरावृत्त्याऽथवा पुनः | हृदयाय नमः पूर्वं शिरसे वह्निवल्लभा || १०१ || शिखायै वषडित्युक्तं कवचाय हूमीरितम् | नेत्रत्रयाय वौषट् स्यादस्त्राय फट् प्रकीर्तितम् || १०२ || (तत्राङ्गुलिनियमः) तर्जनीमध्यमानामाङ्गुलिभिस्तिसृभिर्न्यसेत् | तर्जनीमध्यमाभ्याञ्च ततोऽङ्गुष्ठेन मन्त्रवित् | __________________________________________________________________ १०० | अत्राङ्गन्यासेऽपि क्रमद्वयमभिदधानः प्रथममाह-अस्या इत्यादिना | अस्या बालायाः | त्रिबीजं ऐ/ क्लीं सौरिति | ततस्त्रिपुरसुन्दरीति | ततो नम इत्यतः पूर्वं हृदयादीनि षडङ्गानि प्रयुञ्जीतेति शेषः | एवञ्च ऐ/ क्लीं सौः त्रिपुरसुन्दरि हृदयाय नमः, ऐ/ क्लीं सौः त्रिपुरसुन्दरि शिरसे नमः इत्येवं रीत्या सर्वत्र बालादिनमोऽन्तोऽयं नयासः | १०१-१०२ | क्रमान्तरमाह-वक्ष्यमाणेत्यादिना | अथवेति पक्षान्तरसूचनाय | वक्ष्यमाणक्रमाद् हृदयाय नम इत्यादिक्रमादित्यर्थः | मूलेति | मूलस्य उपास्यमन्त्रस्य द्विरावृत्त्या अनेन त्रिकूटात्मकविद्यानां द्विगुणीकरणेन षट्संख्यानिर्वाहात् हृदयादिषडङ्गेषु षण्णां योजनमुपपद्यते | एवञ्च प्रथमं वाग्भवकूटं ततो हृदयाय नमः, ततः कामराजकूटानन्तरं त्रिपुरसुन्दरि शिरसे स्वाहा | ततः शक्तिकूटानन्तरं शिखायै वषट् पुनर्वाग्भवानन्तरं कवचाय हू/, पुनः कामराजकूटानन्तरं नेत्रत्रयाय वौषट्, पुनः शक्तिकूटानन्तरं करतलपृष्ठाभ्यां फडिति क्रमः | वह्निवल्लभा स्वाहा | १०३ | तत्राङ्गुलिनियममाह-तर्जनीत्यादिना | अयमङ्गुलिनियमश्च पूर्वोद्दिष्टहृदयादिक्रमेण बोध्यः | तथा च तर्जनीमध्यमानामाभिर्हृदये न्यसेत्, एवं तर्जनी (प्. ५५७) दशकाङ्गुलिभिः पश्चात्त्रिभिर्द्वाभ्याञ्च पूर्ववत् | (संकल्पः) देवताप्रीतये चाऽदौ संकल्पेत् प्रागुदङ्मुखः || १०३ || (भूतशुद्धिः) भूतशुद्धिं ततः कुर्यात् स्थिरचित्तश्च साधकः | (तत्र क्रमः) विनिधाय निजाङ्के तु समुत्तानौ करौ स्वयम् || १०४ || _________________________________________________________________ मध्यमाभ्यां शिरः अङ्गुष्ठेन शिखाम् | एवं क्रमेणान्येष्वपि | व्यक्तमाह गन्धर्वतन्त्रे नवमपटले हृदयं मध्यमानामातर्जनीभिः स्मृतं शिरः | मध्यमातर्जनीभ्यां स्यादङ्गुष्ठेन शिखा प्रिये | दशभिः कवचं प्रोक्तं तिसृभिर्नेत्रमीरितम् | तथैवोक्ताङ्गुलिभ्याञ्च सशब्दमस्त्रमीरितम् || इति | अङ्गन्यासाननुष्ठाने दोषमाह तत्रैव पूजा तपोऽर्चना होमः सिद्धमन्त्रकृता अपि | अङ्गविन्यासविधुरा न दास्यन्ति फलान्यमी || इति | १०४ | भूतशुद्धिविहीनेन कृता पूजाऽभिचारवत् | विपरीतं फलं दद्यादभक्त्या पूजनं यथा || इति हरतत्त्वदीधितिधृतागस्त्यसंहितावचनेन, भूतशुद्धिं विना कर्म जपहोमार्चनादिकम् | तावत्तद् विफलं सर्वं प्रकाशेनाप्यनुष्ठितम् || भूतशुद्धिं विना यस्तु न्यासपूजां करोति हि | न्यासजालं वृथा तस्य पूजा सा विफला भवेत् || तस्मात्तु साधकश्रेष्ठो भूतशुद्धिं समाचरेत् | इति कौलावलीनिर्णयद्वितीयपटलवचनेन च भूतशुद्धेर्नित्यत्वाभिधानात् अनन्तरकरणीयां भूतशुद्धिमुपदिशति भूतशुद्धिं ततः कुर्यादित्यादिना | स्थिरचित्त इति चञ्चलचित्तस्य तदनुष्ठानासम्भवादित्यर्थः | निजाङ्के स्वक्रोडदेशे | (प्. ४५८) मूलाधारे मूलविद्या-स्वरूपां कुलकुण्डलीम् | प्रसुप्तभुजगाकारां सार्द्धत्रिवलयान्विताम् || १०५ || नीवारशूकवत् तन्वीं सर्वदेवस्वरूपिणीम् | विद्युत्कोटिप्रतीकाशां स्वयम्भूलिङ्गवेष्टिनीम् || १०६ || ध्यात्वा तां हंसमन्त्रेण प्रणवेनाथ वा सुधीः | कूर्चबीजेन वा देवीं दृढं विद्रावयेद् बुधः || १०७ || एकीभावं तयोः कृत्वा जीवात्म-परमात्मनोः | विचिन्त्य शून्यं परमं पार्थिवांशं जले गतम् || १०८ || __________________________________________________________________ १०५-१०६ | मूलाधार इति | स्वयम्भूलिङ्गस्य कुण्डलिन्याश्च स्वरूपं षष्ठे प्रकाशे (१०-१२ श्लो०) विशि.याभिहितपूर्वमिति नात्र पुनरुक्तौ रुचिं निबध्नीमः | १०७ | ध्यात्वेति | निरुक्तरूपां कुण्डलिनीं ध्यात्वेत्यर्थः | हंसः इति मन्त्रेण, प्रणवेन, हू/ इति कूर्चबीजेन वा तां देवीं प्रसुप्तभुजगाकारां धृढं विद्रावयेत् प्रबोधयेदित्यर्थः | येन मार्गेण गन्तव्यं ब्रह्मद्वारं निरामयम् | मुखेनाऽच्छाद्य तद् द्वारं प्रसुप्ता परमेश्वरी || इति शाक्तानन्दतरङ्गिणीचतुर्थोल्लासवचनेन प्रसुप्तत्वाभिधानात् तस्याः प्रबोधनमुपदिष्टं विद्रावयेदित्यनेन | व्यक्तमाह पिच्छिलातन्त्रे त्रयोदशपटले हंसेन मनुना देवि कूर्चबीजेन वा प्रिये | तां चैतन्यवतीं कृत्वा पृथिव्या सार्द्धमानयेत् || इति | १०८ | ततः करणीयमाह एकीभावमित्यादिना | तयोः प्रसिद्धयोर्जीवात्मपरमात्मनोः अनाहतावस्थितस्य जीवात्मनः परमात्मस्वरूपायाः कुण्डलिन्याश्चेत्यर्थः | एकीभावं कृत्वा अनयोरभेदं विचिन्त्येत्यर्थः | हंसमन्त्रेण जीवात्मानमनाहतकमलकर्णिकान्तरालस्थं मूलाधारकमलकर्णिकान्तरालस्थायां परमात्मस्वरूपायां कुण्डलिन्यां नीत्वा तयोरेकीभावं विचिन्त्येत्यर्थः | विवृतमेतदस्माभिः षष्ठप्रकाशे हूङ्कारेणैव देवीम् इत्याद्येकपञ्चाशश्लोकटीकायाम् हृदयार्द्धसमनुना नीत्वा जीवं मुखाम्बुजे (प्. ४५९) जलञ्च तेजसाकृष्टं तेजोरूपं विचिन्तयेत् | निर्वाणं वायुना वह्निं वायुरूपं विभावयेत् || १०९ || आकाशेनाऽहृतं वायुं खं वै मनसि लीयते | मनोऽहङ्कारवशगं महत्त्वे महताहृतम् || ११० || प्रकृतौ च महत्तत्त्वं प्रकृतिं चिन्तयेदथ | प्रकाशरूपिणीं नित्यां ब्रह्मविद्यास्वरूपिणीम् || १११ || (सप्रकृतिकायाः कुण्डलिन्याः परशिवे गमनम्) कैवल्या केवला शान्ता निर्गुणा परमात्मिका | सैषा च परमे याति (परमशिवस्वरूपम्) परमञ्च निरामयम् | सहस्रदलमध्यस्थं शून्यरूपं परं पदम् || ११२ || _________________________________________________________________ इत्यादिना | पार्थिवांशमिति | अत्रेदमवधेयम् मूलाधारादीनि विशुद्धान्तानि पञ्च पद्मानि क्रमेण क्षित्यप्तेजोमरुद्व्योमरूपस्य भूतपञ्चकस्य स्थानानि | षष्ठञ्चाऽज्ञापद्मं मनसः | तत्र च निरुक्तरूपां कुण्डलिनीं पृथिव्या सह स्वाधिष्ठानपद्मे नीत्वा पृथिवीं तत्र स्थिते जले विलीनां विचिन्त्य तज्जलेन सह कुण्डलिनीम् मणिपूराख्ये पद्मे नीत्वा तज्जलं तत्र स्थिते तेजसि विलीनं विभाव्य पुनस्तेन तेजसा सह कुण्डलिनीमनाहतपद्मे समुन्नीय तत्तेजस्तत्रत्ये वायौ विलाप्य पुनश्च तेन वायुना समं कुण्डलिनीं विशुद्धाख्ये पद्मे समुत्थाप्य तं वायुं तत्रावस्थिते व्योम्नि विलापयेत् | ततश्च तां तेन व्योम्ना सह आज्ञाचक्रस्थिते मनसि नीत्वा तद् व्योम तत्र विलीनं विचिन्त्य जीवात्मसहितया तया सह मनोऽहङ्कारेऽहङ्कारञ्च महत्तत्त्वे महत्तत्त्वञ्च प्रकृतौ विलापयेदिति विलापनक्रमः पर्यवस्यति | विशेषस्तु षष्ठप्रकाश (५१-५३ श्लो०) टीकायां द्रष्टव्यः | १११ | प्रकृतिमिति | अथ प्रकृतौ महत्तत्त्वविलापनानन्तरं प्रकृतिं प्रकाशस्वरूपां नित्यां ब्रह्मविद्यास्वरूपिणीञ्च चिन्तयेत् प्रकाशादिस्वारूप्यवत्कुण्डलिन्यभिन्नरूपत्वादिति भावः | ११२ | अथजीवात्मकुण्डलिनीसहितायाः प्रकृतेः परमशिवे समुन्नयनमाह (प्. ४६०) (तस्य परबिन्दुस्वरूपत्वम्) शून्यञ्च प्रतिबिम्बचन्द्रसदृशं सूक्ष्मातिसूक्ष्मं पदं सर्वं व्याप्य तमोमयन्तु विदितं शून्ये प्रकाशं परम् | दृश्यादृश्य-विवादभागसकलं ज्योतिर्मयं सर्वतो ज्ञात्वा तत् पदकन्तु साधकवरैर्दूरीकृतश्चान्तकः || ११३ || नाभिदेशे तु यं-कारं पूर्वं वायुं विचिन्तयेत् | तेनैव शोषयेल्लिङ्गं तत्त्वं षोडशमात्रया || ११४ || _________________________________________________________________ कैवल्येत्यादिना | सैषेति | उक्तलक्षणा सा कुण्डलिनी एषा प्रकृतिश्च | एतेन कुण्डलिनीप्रकृत्योरभिन्नरूपता सूचिता | परमे शिरःस्थितसहस्रदलकमलकर्णिकान्तरालस्थ- चन्द्रमण्डलमध्यगत्रिकोणान्तर्वर्तिनि परमशिवे याति इत्यर्थः | अथ परमशिवस्य स्वरूपं निरूपयति परमञ्चेत्यादिना | निरामयं जन्मजरामरणादिनिखिलदुःखविनिर्मुक्तं परं शून्यरूपं परबिन्दुस्वरूपं परब्रह्मात्मकं पदमित्यर्थः | तदुक्तं षष्ठप्रकाशे तदन्तःशून्यं तत् सकलसुरगणैः सेवितञ्चातिगुह्यम् (४२ श्लो०) इत्यादिना | ११३ | निरुक्तशून्यं विशिनष्टि शून्यञ्चेति | एतच्च षष्ठप्रकाशेऽर्थादुक्तमिति न पुनर्व्याख्यायते | ११४ | एवं परमात्मनि परमशिवे कुण्डलिनीयोगपर्यन्तमभिधाय प्राणायाममुपदिशति-नाभीत्यादिना | नाभिदेशे पूर्वं पूरकं वायुं यमिति वायुबीजं विचिन्त्ययेदित्यर्थः | अत्र पूर्वमिति पूर्व-पर्व-मर्व-पूरणे इत्यनेनोक्तस्य पूर्वधातो रूपम् | पूर्वति पूरयतीति पूर्वं पूरकमिति तदर्थः | इतः परं कुम्भकरेचकयोरभिधास्यमानत्वादत्र पूर्वशब्दस्य पूरकमित्येवार्थः | तेनैवेति प्रागुक्तवायुबीजेनैव लिङ्गं तत्त्वं लिऽऽगशरीरं शोषयेत् | अत्र शोषणादिकं वामकुक्षिस्थितपापपुरुषसहकृतस्यैव लिङ्गशरीरस्येति बोध्यम् | ज्ञानार्णवे द्वितीयपटले वामकुक्षिस्थितं पापपुरुषं कज्जलप्रभम् इत्यादि-पापपुरुषस्वरूपनिरूपणानन्तरम् शोषयेद् वायुबीजेन देहञ्च परमेश्वरि | पापेन सहितं शुष्कं कृत्वा तेन क्रमेण हि | वह्निबीजेन संदग्धं पापेन सहितं शिवे || (प्. ४६१) कामात्मकं चतुःषष्ट्या कुम्भकञ्च समाचरेत् | द्वात्रिंशन्मात्रया दक्षे रेचयेत्तेन वै ततः || ११५ || रक्तवर्णं वह्निबीजं मेढ्रमूले विचिन्तयेत् | सवासनात्मकं लिङ्गं शरीरं तेन दाहयेत् || ११६ || पूर्वोक्तक्रमयोगेण दक्षनासाक्रमेण तु | देशिकश्च तथा संख्यां वामहस्तेन कल्पयेत् || ११७ || __________________________________________________________________ इत्यादिना तथा व्यक्तमभिधानात्, तन्त्रसारादौ तथा दर्शनात्, श्यामारहस्ये ग्रन्थकृता पापपुरुषेण सह शरीरं संशोष्येति स्वयमेवाभिहितत्वाश्च | यत्तु गुप्तसाधनतन्त्रे षष्ठपटले वामकुक्षौ स्थितं पापं पुरुषं कज्जलप्रभम् | तस्य संहरणार्थाय महती प्रकटी कृता | लिङ्गदेहो महेशानि तस्य देहो न संशयः | पापदेहं भवेद्दग्धं स्वदेहं नैव नाशयेत् | इत्यादिना पापपुरुषस्यैव लिङ्गशरीरत्वं तस्यैव च शोषणादिकमभिहितम्, तत् क्रमान्तरमिति ध्येयम् | षोडशमात्रयेति | मात्रालक्षणमाह फेत्कारिणीतन्त्रे तृतीयपटले जानू प्रदक्षिणीकृत्य न द्रुतं न विलम्बितम् | क्रियते चाङ्गुलिस्फोटः सा मात्रा परिकीर्तिता || इति | ११५ | कामात्मकमिति | कामात्मकं वासनात्मकं लिङ्गं शोषयेदिति पूर्वेण सम्बन्धः | अनेन वासनात्मकलिङ्गशोषणादेर्वासनामप्युच्छेदो भवतीति सूचितम् | चतुःषष्ठ्येति, निरुक्तवायुबीजस्य चतुःषष्टिवारजपेन कुम्भकं समाचरेदित्यर्थः | द्वात्रिंशदिति | वामनासापुटं धृत्वा वायुबीजस्यैव द्वात्रिंशद्वारजपेन दक्षनासया वायुं रेचयेदित्यर्थः | ११६ | एवं शोषणक्रममुक्त्वा दाहक्रममाह रक्तवर्णमित्यादिना | तेन वह्निबीजेन | स्पष्टमन्यत् | ११७ | बीजजपक्रममाह पूर्वति | तथा च दक्षनासया पूरकमुभाभ्यां कुम्भकं वामया रेचकम् | जपसंख्या तु वामहस्ताङ्गुलिभिः कुर्यादित्यर्थः | (प्. ४६२) वं-कारं वारुणं शुक्लं घण्टिकायां विभाव्य च | तेनामृतं समुत्पाद्य सहस्रदलपङ्कजात् || ११८ || प्लावयेत् पुरकादीनि कृत्वा पादतलावधि | लं-कारं पृथिवीबीजं गुदमूले विभाव्य च || ११९ || तेनैव क्रमयोगेण धिया सम्पादयेद् बुधः | पापपुण्यविनिर्मुक्तं शरीरं शाम्भवं परम् || १२० || सोऽहं मन्त्रेण जीवञ्च सकाशात् परमात्मनः | पुनस्तां कुण्डलीं देवीं परमामृतलोलिताम् || १२१ || पञ्चभूतानि मन्त्रज्ञः स्वस्वस्थाने नियोजयेत् | (स्वस्य देवीरूपत्वभावना) आत्मानं भावयेन्मन्त्री महाश्रीत्रिपुरामयम् || १२२ || _________________________________________________________________ ११८-१२० | वं-कारमिति | तथा च वमिति वरुणबीजं शुक्लवर्णं घण्टिकायां विभाव्य तेन बीजेनपूरकादीनि कृत्वा तेनैवामृतमुत्पाद्य सहस्रारात् पादतलपर्यन्तं प्लावयेदित्यर्थः | लं-कारमिति | ततश्च प्रागुक्तक्रमेण लमिति पृथ्विबीजं मूलाधारे विभाव्य परं पूर्वतो विलक्षणं पापपुण्याननुविद्धं शाम्भवं शरीरं सम्पादयेद् विरचयेदित्यर्थः | अत एव तन्त्रसारकारैरपि वमिति वरुणबीजस्य चतुःषष्ठिवारजपेन तस्माल्ललाटचन्द्राद् गलितसुधया मातृकावर्णात्मिकया समस्तदेहं विरचययेत्युक्तम् | १२१-१२२ | पूर्वं संहारक्रमेणोत्थापितानां पुनः सृष्टिक्रमेण स्वस्वस्थाने समानयनमाह सोऽहमित्यादिना | तथा च परमात्मनः सकाशात् सोऽहमिति मन्त्रेण जीवात्मानम् अनाहते, परमामृतलोलितां परमशिवसामरस्यामृतास्वादनपरितृप्तां कुण्डलिनीं मूलाधारे, पञ्च भूतानि च व्योमादिक्षित्यन्तानि विशुद्धादिमूलाधारान्तेषु समानयेदित्येवोक्तं स्वस्वस्थाने नियोजयेदित्यनेन | एतेन मनोऽहङ्कारमहत्तत्त्वान्यपि व्याख्यातानि | आत्मानमिति, निरुक्तानुष्ठानपवित्रीकृतात्मा स्वेष्टदेवीरूपमात्मानं भावयेदित्यर्थः | (प्. ४६३) (श्रीमहात्रिपुरसुन्दरीस्वरूपम्) ईषत्कुन्द-सुचारुदन्तसुमुखीं नेत्रत्रयोद्भासितां पानोत्तुङ्गपयोधरां प्रविलसद्रक्तारबिन्दश्रियम् | नानाभूषणभूषितां भगवतीं बन्धूकपट्टांशुकां पाशञ्चाङ्कुशचापबाणनिवहान् संबिभ्रतीं भावयेत् || १२३ || (जीवन्यासः) हृदि हस्तं समादाय जीवन्यासं समाचरेत् | (प्राणप्रतिष्ठामन्त्रः) विपरीतं प्राणमन्त्रमुद्धरेत् पाशपूर्वकम् || १२४ || प्राणप्रतिष्ठामन्त्रोऽयं सर्वकर्मणि कीर्तितः | (निरुक्तभूतशुद्धेः प्रामाणिकतन्त्रसंवादित्वम्) ज्ञानार्णवे शिवेनैव प्रकार ईदृशः स्मृतः || १२५ || _________________________________________________________________ १२३ | पूर्ववचने महाश्रीत्रिपुरामयम् इत्युक्तम्, तद्भावनार्थं तस्याः स्वरूपमाह ईषदित्यादिना | १२४-१२५ | एवं भूतशुद्धिं निरूप्य ज्ञानार्णवोपदिष्टं जीवन्यासक्रमं दर्शयति हृदीत्यादिना | जीवन्यासमिति वक्ष्यमाणप्राणप्रतिष्ठामन्त्रेण जीवन्यासं समाचरेदित्यर्थः | प्राणप्रतिष्ठामन्त्रमाह विपरीतमिति | प्राणमन्त्रो हंस इति, तस्य वैपरीत्ये सोऽहमिति, तच्च विपरीतं प्राणमन्त्रं पाशपूर्वकं पाशबीजम् आं तत्पूर्वकम् | एतेन आं सोऽहमिति प्राणप्रतिष्ठामन्त्रः पर्यवस्यति | ज्ञानार्णव इति | तदुक्तं ज्ञानार्णवे द्वितीयपटले प्राणप्रतिष्ठामन्त्रेण जीवं देहे निधापयेत् | मुखवृत्तं समुच्चार्य हंसन्तु विपरीतकम् | उद्धरेत् परमेशानि विद्येयं त्र्यक्षरी मता | प्राणप्रतिष्ठामन्त्रोऽयं सर्वकर्माणि साधयेत् | तेनैव विधिना देवि स्थिरीकुर्यान्निजां तनुम् || इति | मुखवृत्तम् आं | (प्. ४६४) (अन्यादृशो भूतशुद्धिक्रमः) अथवाऽन्यप्रकारेण भूतशुद्धिं समाचरेत् | संहारक्रमयोगेण तत् सर्वं परमात्मनि || १२६ || संयोज्य वायुबीजेन धातून् पापसमन्वितान् | प्राणायामक्रमेणैव संशोष्य वह्निना ततः || १२७ || तानेव सन्दहेत् पश्चात् कुम्भकेन समाहितः | जलबीजामृतेनैव तद्भस्मप्लावनं चरेत् || १२८ || रेचकक्रमयोगेण भूबीजेन च मन्त्रवित् | शरीरं सुदृढीकृत्य शेषं पूर्ववदाचरेत् || १२९ || (भूतशुधेः क्रमान्तरम्) अथवा कुण्डलीं देवीं पञ्चभूतादिना सह | परमात्मनि संयोज्य तयोरैक्यं विभावयेत् || १३० || ________________________________________________________________ १२६-१२९ | क्रमान्तरेण भूतशुद्धिमाह अथवेत्यादिना पूर्ववदाचरेदित्यन्तेन | संहारेति | संहारक्रमस्तु क्षितेर्जले जलस्य तेजसि तेजसश्च वायौ वायोराकाशे इत्येवं क्रमेण बोध्यः | तस्माद् वा एतस्मादात्मन आकाशः सम्भूत आकाशाद् वायुर्वायोरग्निरग्नेरापः अद्भ्यः पृथिवीत्यादिश्रुत्या आकाशादिक्रमेण सृष्टेरभिधानात् पृथिव्यादिक्रमोऽयं संहारक्रम इत्याशयेनैवाऽह संहारक्रमयोगेणेति | तत् सर्वं प्रागुक्तक्रमप्राप्तं पृथिव्याद्याकाशान्तं सकलं परमात्मनि सहस्रारस्थे कारणरूपे संयोज्येत्यर्थः | एतेन गन्धरसादिभूतगुणनासिकादीन्द्रियबुद्ध्यहङ्काराणामपि लयो बोध्यः | अथ प्राणायाममुपदिशति -वायुबीजेनेत्यादिना | इतः परं कुम्भकरेचकक्रमयोरभिधास्यमानत्वात् पूरकक्रमोऽयमिति ज्ञेयम् | पापसमन्वितान् पूर्वोपदर्शितपापपुरुषयुतान् धातून् शरीरधातून् प्राणायामरीत्या वायुबीजेन संशोष्येति सम्भन्धः | स्पष्टमन्यत् | १३० | भूतशुद्धेः क्रमान्तरं दर्शयति अथवेत्यादिना | अत्र क्रमे कुण्डलिनीं पञ्चभूतादिना मूलाधारादिविशुद्धचक्रान्तःस्थितैः क्षित्यादिपञ्चभूतैः आदिशब्दोपातै- (प्. ४६५) ध्यानयोगेन मनसा ततः सोऽहं विभावयेत् | चन्द्रामृतेन संप्लाव्य मूले ताञ्च समानयेत् || १३१ || भूतादिकं निजस्थाने तत्प्रभापटलामलः | अद्वैतरूपभावेन सोऽहं साहं विभावयन् || १३२ || (प्राणायामः) प्राणायामत्रयं कुर्यान्मूलेन प्रणवेन वा | अथवा बालया कुर्याच् श्रीविद्याप्राणसंयमम् || १३३ || (भूतशुद्धेः क्रमान्तरम्) मूलाधारे परां देवीं ध्यात्वा चैतन्यरूपिणीम् | हूङ्कारोच्चरणेनैव तामुत्थाप्य समाहितः || १३४ || _________________________________________________________________ र्गन्धादिभूतगुण-ज्ञानकर्मेन्द्रियादिभिश्च सह सहस्रारस्थिते परमात्मनि संयोज्य तयोः कुण्डलिनीपरमात्मनोरैक्यं विभावयेदित्यर्थः | १३१ | ततः करणीयमुपदिशति-ध्यानेति | ततो मनसा ध्यानयोगमाश्रित्य सोऽहं विभावयेत् | निरुक्तपरमात्मजीवात्मनोरभेदं चिन्तयेदित्यर्थः | पुनः कुण्डलिन्याः सहस्रारान्मूलाधारे समानयनमाह-चन्द्रेति | चन्द्रामृतेन सहस्रारस्थितचन्द्रमण्डलगलितामृतधारया तां कुण्डलिनीं संप्लाव्य मूले मूलाधारपद्मान्तःस्थितस्वयम्भूलिङ्गोर्द्ध्वे समानयेदित्यर्थः | १३२ | भूतादिकमिति | पूर्वं कुण्डलिन्या सह सहस्रारे नीतं भूतादिकमपि स्वस्वस्थाने प्रागुक्तक्रमेण समानयेदिति सम्बन्धः | तत्प्रभापटलामलः तयोः कुण्डलिनीपरमात्मनोः प्रभाराशिभिर्निर्मलीकृतात्मा सोऽहं साहं परमात्मना कुण्डलिन्या च सह स्वाभेदं विभावयेदित्यर्थः | १३३ | अत्र प्राणायामस्य कल्पत्रयं दर्शयति मूलेनेत्यादिना | १३४ | भूतशुद्धेः क्रमान्तरमाह-मूलाधार इति | तामुत्थाप्येति सहस्रार इति शेषः | स्पष्टमन्यत् | (प्. ४६६) (प्राणायामः) इडया पूरयेद् वायुं बाह्यं षोडशमात्रया | चतुःषष्ट्या कुम्भकञ्च तदर्द्धेन विरेचयेत् || १३५ || कनिष्ठानामिकाङ्गुष्ठैर्नासापुटं विधृत्य च | एवं क्रमोत्क्रमेणैव प्राणयामत्रयं चरेत् || १३६ || (प्राणायामपदव्युत्पत्तिः) प्राणाः शरीरपवन आयामो दैर्घ्यमुच्यते | प्राणायाम इति प्रोक्तो मुनिभिः पापनाशनः || १३७ || (प्राणायामभूतशुद्धिस्वस्वकल्पविहितन्यासानकुर्वतो देवार्चनेऽनधिकारिता) प्राणायाममकृत्वा तु भूतशुद्धिमथापि वा | अकृत्वा विधिवन्न्यासान् नार्चायामधिकारवान् || १३८ || (न्यासपदव्युत्पत्तिः) पञ्चभूताङ्गदेवानां न्यसनान्न्यास उच्यते || १३९ || (भूतशुद्धिपदव्युत्पत्तिः) समस्तान्यपि भूतानि ब्रह्मांशत्वाद् विशेषतः | सदैव परशुद्धिः स्यान्मातृकाभिः कलादिभिः || १४० || तत्र जीवाभिमानेन दोषजालेन चैव हि | ब्रह्मणः स्वेच्छया वेति दोषाः स्वात्मनि निश्चिताः | देहाभिमानिता चैव दोषाश्च समुदाहृताः || १४१ || __________________________________________________________________ १३७ | प्राणा इत्यादि | स्पष्टम् | प्राणायामक्रममाह ज्ञानार्णवे द्वितीयपटले कनिष्ठानामिकाङ्गुष्ठैर्यन्नासापुटधारणम् | प्राणायामः स विज्ञेयस्तर्जनीमध्यमे विना | इति | (प्. ४६७) तेषामात्मपरिज्ञानाद् विज्ञाय स्वस्य ब्रह्मताम् | अहङ्कारपरित्यागः शुद्धिरित्यवगम्यताम् || १४२ || (ऋष्यादिन्यासः) अथ ऋष्यादिकन्यासं कुर्यात् साधकसत्तमः | ऋषिः स्याद्दक्षिणामूर्तिः पङ्क्तिश्च्छन्द उदाहृतम् || १४३ || देवता ब्रह्मरूपा श्रीमहात्रिपुरसुदरी | बीजन्तु वाग्भवं कूटं शक्तिकूटञ्च शक्तिका || १४४ || कीलकं कामराजं स्याद् विन्यसेत् साधकोत्तमः | शिरोवदनहृद्गुह्यपादाङ्गेषु क्रमात् सुधीः || १४५ || _________________________________________________________________ १४३-१४५ | ऋष्यादिन्यासमुपदिशति अथेत्यादिना | तत्र श्रीमत्त्रिपुरसुन्दरीमन्त्रस्य ऋष्यादिकं निर्वक्ति- ऋषिः स्यादित्यादिना | तथा चास्य दक्षिणामूर्तिर्-ऋषिः पङ्क्तिश्च्छन्दः श्रीमहात्रिपुरसुन्दरी देवता, वाग्भवकूटं बीजं शक्तिकूटं शक्तिः कामराजकूटञ्च कीलकमिति ज्ञेयम् | अस्य विनियोगस्तु गन्धर्वतन्त्रे सप्तमपटले विनियोगः समाख्यातो भुक्तिमुक्तिप्रसाधने | इति | शिर इति | शिर-आद्यऽऽगान्तेषु प्रागुक्तान् ऋष्यादीन् क्रमान्न्यसेदिति सम्बन्धः | एवञ्च शिरसि-दक्षिणामूर्तये ऋषये नमः | मुखे पङ्क्तिच्छन्दसे नमः | हृदि- श्रीमहात्रिपुरसुन्दर्यै देवतायै नमः | गुह्ये-वागभवाय बीजाय नमः | पादयोः शक्तिकूटाय शक्तये नमः | सर्वाङ्गे कामराजाय कीलकाय नमः, इति प्रयोगः | ऋष्यादिन्यासाननुष्ठाने दोषमाह गन्धर्वतन्त्रेऽष्टमपटले र्-ऋषिश्छन्दोदैवतानां विन्यासेन विना यदा | जप्यते साधितेऽप्येव न तत्र तत्फलं लभेत् || इति | (प्. ४६८) (षडङ्गन्यासोपदेशो मातृकान्यासस्य कर्तव्यत्वञ्च) अङ्गषट्कं ततः कृत्वा मातृकान्यासमाचरेत् | (तत्र मातृकाया ऋष्यादिनयासः) ऋषिर्ब्रह्मा भवेच्छन्दो गायत्री मातृका पुनः || १४६ || देवता व्यञ्जनं बीजं शक्तयश्च स्वरा मताः | अव्यक्तं कीलकं ज्ञेयं न्यसेदुक्तक्रमेण तु || १४७ || (मातृकायाः करन्यासः) स्वराणां क्लीबहीनानां सबिन्दूनां क्रमाल्लिखेत् | युग्मयुग्मान्तराले च पञ्चवर्गं सबिन्दुकम् || १४८ || _________________________________________________________________ १४६-१४७ | अत्राङ्गन्यासस्य कर्तव्यत्वमाह-अङ्गषट्कमिति | षडङ्गन्यासं कृत्वेत्यर्थः | त्रिपुराविषयेऽङ्गन्यासस्य विशिष्टः क्रमस्तु पूर्वमेवोपदर्शित इति नात्र पुनः प्रदर्श्यते | अथ मातृकान्यासमभिदधानः प्रथमम् ऋष्यादिकमुपदिशति - ऋषिरित्यादिना | एवञ्चास्य मातृकामन्त्रस्य ब्रह्म ऋषिर्गायत्री च्छन्दो मातृका (सरस्वती) देवता व्यञ्जनानि बीजानि स्वराः शक्तयः अव्यक्तं कीलकं लिपिन्यासे विनियोगः | अस्य मातृकान्यासाङ्गमन्त्ररूपेणाधुना व्यवहारो दृश्यते | तन्त्रसारकृता अथ मातृकान्यास इति प्रक्रम्य अस्य मातृकामन्त्रस्येत्यादिकमभिधाय शिरसि ओं ब्रह्मणे ऋषये नमः इत्यादिना मातृकान्यास उक्तः | त्रिपुरार्चनरहस्ये तु श्रीमद्ब्रह्मानन्दैः अस्य मातृकामन्त्रस्य ब्रह्म ऋषिर्गायत्री च्छन्द इत्याद्यनभिधाय अस्य मातृकामन्त्रस्य ब्रह्मणे ऋषये नम इति शिरसि | गायत्र्यै छन्दसे नम इति मुखे, इत्येवंक्रमेण शिर-आदिषु न्यासमात्रमभिहितम् | एवञ्च तन्त्रसारादौ यद् अस्य मन्त्रस्येत्याद्युक्तं तदृषिच्छन्दोदेवतादिज्ञानपुरःसरमेव न्यासः कर्तव्य इत्यभिप्रायेण, न तु न्यासाङ्गतया तदुच्चार्यत्वाभिप्रायेणापि, तथात्वेन अस्य मन्त्रस्येत्यादिपाठे प्रमाणानुपलम्भात् | अत एव प्रकृतेऽपि अव्यक्तं कीलकं ज्ञेयं न्यसेदुक्तक्रमेण तु इत्यत्र ज्ञेयमित्यनेनैतज्ज्ञानपूर्वकं न्यासोऽनुष्ठेय इत्येवोक्तमिति दिक् | १४८ | मातृकायाः कराङ्गन्यासयोः क्रममुपदिशति-स्वराणामित्यादिना | क्लीब- (प्. ४६९) शेषवर्णान्तराले च यादिवर्गं ततः परम् | (अङ्गन्यासः) पूर्ववद् विन्यसेन्मन्त्री मातृकायाः षडङ्गकम् || १४९ || (मातृकाध्यानम्) शरत्पूर्णेन्दुशुभ्रां सकललिपिमयीं लोलरक्तत्रिनेत्रां शुक्लालङ्कारभासां शशिमुकुटजटाभारहारप्रदीप्ताम् | __________________________________________________________________ हीनानाम् ऋ ॠ ऌ ॡ वर्जितानां सबिन्दूनां सानुस्वाराणां स्वराणामकाराद्यौकारान्तानां युग्मयुग्मान्तराले द्विद्विवर्णमध्ये क्रमात् सबिन्दुकं वर्गपञ्चकं लिखेदित्यर्थः | अनेन अं कं खं गं घं आं अङ्गुष्ठाभ्यां नमः, इं चं छं जं झं ञं ईं तर्जनीभ्यां स्वाहा | उं टं ठं डं ढं णं ऊं मध्यमाभ्यां वषट् | एं तं थं दं धं नं ऐ/ अनामिकाभ्यां हु/ | ओं पं फं बं भं मं औं कनिष्ठाभ्यां वौषट् इत्यन्तं प्राप्तम् | १४९ | शेषेति | शेषवर्णान्तराले पूर्वोदितस्वरावशिष्टयोरनुस्वारविसर्गयोर्वणयोरन्तराले यादिवर्गं यकारादिक्षकारान्तवर्णान् लिखेदित्यर्थः | एवञ्च अं यं रं लं वं शं षं सं हं लं क्षं अः करतलपृष्थाभ्यां फडिति करन्यासः | व्यक्तमाह ज्ञानार्णवे द्वितीयपटले अं आं मध्ये कवर्गञ्च इं ईं मध्ये चवर्गकम् | उं ऊं मध्ये टवर्गञ्च एं ऐ/ मध्ये तवर्गकम् | ओं औं मध्ये पवर्गञ्च क्रमेण परमेश्वरि | अनुस्वारविसर्गान्ते य-शवर्गौ सलक्षकौ || इति | पूर्ववदिति | ततः परं करन्यासानन्तरं पूर्ववत् करन्यासक्रमेणैवाङ्गन्यासं कुर्यादित्यर्थः | अत्राङ्गशब्देनाङ्गुष्टादीनां हृदयादीनाञ्च परिग्रहः | तथा च पूर्ववत् प्रागुक्तमूलदेवताकराङ्गन्यासवत् अङ्गुष्ठाभ्यां नमः इत्यादिक्रमेण कराङ्गन्यासौ कुर्वीतेति पूर्ववदित्यनेन सूच्यते | अङ्गन्यासे न्यासयोग्यान्यङ्गान्याह ज्ञानार्णवे द्वितीयपटले हृदयञ्च शिरो देवि शिखाञ्च कवचं ततः | नेत्रमस्त्रं न्यसेद् ङेऽन्तं नमः स्वाहा क्रमेण तु || वषड् हुं वौषडन्तञ्च फडन्तं योजयेत् प्रिये | षडङ्गोऽयं मातृकायाः सर्वपापहरः स्मृतः || इति | (प्. ४७०) विद्यास्रक्पूर्णकुम्भान् वरमपि दधतीं शुद्धपट्टाम्बराढ्यां वाग्देवीं पद्मवक्त्रां कुचभरनमितां चिन्तयेत् साधकेन्द्रः || १५० || (अन्तर्मातृकान्यासपरिपाटी) एवं ध्यात्वा न्यसेदादौ षट्चक्रक्रमसंस्थितान् | अकारादिक्षकारान्तानेकैकक्रमयोगतः || १५१ || (बाह्यमातृकान्यासः) इत्यन्तर्मातृकां ध्यात्वा विन्यसेद् बाह्यमातृकाम् | (तत्र बीजपूर्वकताविकल्पः) केवलां वा न्यसेद्देहे श्रीकण्ठाद्यां न्यसेदपि || १५२ || _________________________________________________________________ १५१ | एवं ध्यानानन्तरमन्तर्मातृकान्यासमाह-न्यसेदित्यादिना | षडिति विशुद्धादिमूलाधाराज्ञाचक्रक्रमेणावस्थितान् अकारादिक्षकारान्तवर्णान् | एकैकेति, पद्मानां प्रतिपत्रमेकमेकं वर्णं न्यसेदित्यर्थः | व्यक्तमाह गन्धर्वतन्त्रेऽष्टमपटले, ज्ञानार्णवे द्वितीयपटले च द्व्यष्टपत्राम्बुजे कण्ठे स्वरान् षोडश विन्यसेत् | द्वादशच्छदहृत्पद्मे कादीन् द्वादश विन्यसेत् || दशपत्राम्बुजे नाभौ डकारादीन् न्यसेद्दश | षट्पत्रे लिङ्गसंस्थे च बकारादीन् न्यसेच्च षट् || आधारे चतुरो वर्णान् न्यसेद् वादींश्चतुदले | ह-क्षौ भ्रूमध्यगे पद्मे द्विदले विन्यसेत् प्रिये || इति | विन्यसेत् प्रिये इत्यत्र परिचिन्तयेदिति गन्धर्वतन्त्रपाठः | पूर्वं सबिन्दूनां क्रमाल्लिखेत् तथा पञ्चवर्गं सबिन्दुकमित्यनेन कराङ्गन्यासयोः सबिन्दुकमातृकावर्णोपादानात् तत्क्रमपरित्यागे प्रमाणाभावात् प्रकृतेऽपि सबिन्दुकानामेव वर्णानां न्यासः कर्तव्यः | अत एव तन्त्रसारकारैरपि अकारादिषोडशस्वरान् सबिन्दून् षोडशदलकमले कण्ठमूले न्यसेदित्यादिना सानुस्वाराणामेव वर्णानां न्यासोऽभिहितः | १५२ | एवमन्तर्मातृकान्यासमभिधाय बाह्यमातृकान्यासमाह-विन्यसेद् बाह्य- (प्. ४७१) (प्रत्यङ्गमेकैकाक्षरन्यासोपदेशः) एकैकाक्षरभेदेन क्रमेण साधकोत्तमः | (अङ्गभेदेनाङ्गुलिनियमः) मध्यमानामिकाभ्यान्तु ललाटे मुखवृत्तके || १५३ || मध्यानामातर्जनीभिर्लोचने विन्यसेत्ततः | अनामाङ्गुष्ठयोगेन वृद्धया श्रुतिमूलके || १५४ || कनिष्ठाङ्गुष्ठयोगेन नासापुटद्वये ततः || १५५ || तर्जनीमध्यमानामायोगैर्गण्डद्वये न्यसेत् | ओष्ठाधरयुगे मन्त्री मध्यमाङ्गुलिना क्रमात् || १५६ || अनामाङ्गुलिना दन्तपङ्क्तिद्वये प्रविन्यसेत् | मध्यमया शिरोदेशे विन्यसेत् साधकोत्तमः || १५७ || अनामया तु वदने मध्याभिर्हस्तपादयोः | सन्ध्यग्रेषु कनिष्ठादि-तिसृभिर्विन्यसेद् बुधः || १५८ || पार्श्वयोः पृष्ठदेशे तु नाभिदेशे तदन्तरम् | मध्यानामाकनिष्ठाभिः साङ्गुष्ठाभिः प्रविन्यसेत् || १५९ || सकलाङ्गुलिभिः कुक्षौ यादीन् सधातुकानपि | त्वगसृङ्मांसमेदोऽस्थिमज्जाशुक्राणि धातवः || १६० || प्राणात्मा चैव जीवात्मा परमात्मेति विन्यसेत् | हृदये तु तलेनैव सकलाङ्गुलिभिस्ततः || १६१ || _________________________________________________________________ मातृकामित्यादिना | केवलाम् आदावयोजितबीजान्तराम् | श्रीकण्ठाद्याम् अमिति श्रीकण्ठबीजं तदाद्यां वा मातृकां न्यसेदिति सम्बन्धः | १५३-१६२ | इदानीं यत्र यत्र यद्यदङ्गुलियोगेनाकारादीनां वर्णानां न्यासः (प्. ४७२) स्कन्ध परगले स्कन्धे क्रमेणैव प्रविन्यसेत् | हृत्पूर्वं हस्तपत्कुक्षिमुखे पाणितलेन वै || १६२ || (प्रणवादिनमोऽन्तत्वयोः सबिन्दु-निर्बिन्दुत्वयोश्च विकल्पः) एवमेव विधानेन पञ्चाशद्वर्णसञ्चयः | ओमाद्यन्तो नमोऽन्तो वा सबिन्दुबिन्दुवर्जितः || १६३ || (सविसर्गबिन्दुविसर्गोभयवत्तयोर्विकल्पः) सविसर्गः सोभयश्च (सबिन्दुकत्वादेः फलम्) रहस्यं तत्त्वमुच्यते | वित्तप्रदो बिन्दुयुतो विद्यादो बिन्दुवर्जितः | पुत्रदः सविसर्गश्च सोभयो भुक्तिदायकः || १६४ || (न्यासे मायादिबीजपूर्वकताविकल्पः) मायालक्ष्मीबीजपूर्वो वाग्भवाद्योऽथ वा क्रमात् | त्रितयाद्यो रमाद्यो वा न्यस्तव्यः साधकोत्तमैः || १६५ || ________________________________________________________________ कर्तव्यस्तत् सर्वं विशिष्याभिधत्ते एकैकेत्यादिना | एकैकाक्षरभेदेन अकारादिक्षकारान्तानामेकैकाक्षरभेदेन ललाटादिषु न्यसेदित्यर्थः | तथा च मध्यमानामिकाभ्यां ललाटे अं नम इति न्यसेत् | मध्यानामातर्जनीभिर्मुखवृत्ते आं नम इति न्यसेत् | एवं नेत्रादिष्वपि तत्तदङ्गुलियोगेन इकारादिवर्णानां न्यासो मूलोक्तरीत्या कर्तव्यः | हृदिति | हस्तपत्कुक्षिमुखे हृत्पूर्वं विन्यसेदिति सम्बन्धः | अनेन हृदादिहस्तयोः हृदादिपादयोः हृदादिकुक्षौ हृदादिमुखे चेत्युक्तं भवति | १६३-१६४ | एवमेवेति | निरुक्तक्रमेण ओमाद्यन्तः प्रणवपुटितः अथवा नमोऽन्तः, बिन्दुयुक्तो बिन्दुरहितो वा | सविसर्गः अन्ते विसर्गयुक्तः, सोभयः बिन्दुविसर्गोभयसहितो वा पञ्चाशद्वर्णसञ्चयो न्यस्तव्य इति सम्बन्धः | निरुक्तबिन्द्वाद्यन्तवर्णन्यासे फलमाह- रहस्यमित्यादिना | स्पष्टम् | १६५-१६६ | मायेति | न्यासेऽस्मिन् अकारादिमातृकाकाणां पूर्वतो बीजयागे (प्. ४७३) (निरुक्ताङ्गुलिभिर्न्यासासम्भवे कर्तव्यम्) मनसा वा न्यसेन्न्यासान् पुष्पैर्वाऽनामयाऽथवा | अङ्गुष्ठानामिकायोगान्न्यसेद् वा सर्वकर्मसु || एवमेव विधानेन वर्णन्यासान् समाचरेत् || १६६ || (सूर्यादिदेवतापूजा) सूर्यं संपूजयेदादौ गणेशं विष्णुदैवतम् | शिवपूजां ततः कुर्यात् स्वैः स्वैर्मन्त्रैर्यथाविधि || १६७ || (करन्यासः) करशुद्धिकरी विद्या मध्यमादितलान्तिकम् | अङ्गुलीषु द्विरावृत्त्या करशुद्धिं समाचरेत् || १६८ || ________________________________________________________________ कल्पचतुष्टयमाह-मायेत्यादिना | तत्र ह्रीं श्रीमिति मायारमाबीजे पूर्वतो योजयित्वा नयासः कर्तव्य इत्येकः | ऐ/ इति वाग्भवबीजपूर्वः पञ्चाशद्वर्णसञ्चयो न्यस्तव्य इत्यपरः, त्रितयाद्य इति, निरुक्तमायालक्ष्मीवाग्भवलक्षणबीजत्रयाद्य इत्यन्यः | रमाद्य इति, श्रीमिति लक्ष्मीबीजाद्य इतरः | एवञ अं नमः आं नम इत्यादेः पूर्वतो निरुक्तक्रमेण बीजयोगे ह्रीं श्रीं आं नमः इत्यादिरूपो वा, ऐ/ आं नमः इत्यादिरूपो वा, ह्रीं श्रीं ऐ/ आं नमः इत्यादिरूपो वा, श्रीं आं नम इत्यादिरूपो वा प्रयोगः पर्यवस्यति | अत्र रमाद्य इति पृथगभिधानान्मायालक्ष्मीबीजपूर्व इत्यत्र मायालक्ष्म्योर्युगपत्प्रयोग इति ज्ञेयम् | क्र्मादित्यनेन बीजानां पौर्वापर्यविपर्ययः प्रतिषिद्धः | १६६ | प्रागुक्तरूपेण तत्तदङ्गुलिभिर्न्यासस्यासम्भवे कर्तव्यमाह-मनसेत्यादिना | स्पष्टम् | १६७ | अथ सूर्यादीनां पूजनमभिधत्ते सूर्यमित्यादिना | सूर्यं गणेशं विष्णुं शिवञ्च क्रमेण पूजयेदित्यर्थः | स्वैः स्वैर्मन्त्रैरिति तत्तद्देवताकल्पोक्तैः प्रणवादिनमोऽन्तैर्वा | १६८ | करन्यासमाह-करशुद्धीत्यादिना | क्रमोऽयं पूर्वमेव प्रदर्शितः | (प्. ४७४) (षडासनन्यासः) ततः षडासनन्यासं कुर्यात् साधकसत्तमः | त्रिपुरेशीति मन्त्रेणामृतासनन्तु पादयोः || १६९ || कुमारिकां समुच्चार्य त्रिपुरसुन्दरी ततः | पोताम्बुजासनं जानुद्वये बालादि संत्यजेत् || १७० || तत्र मायां समारोप्य त्रिपुरवासिनीति च | आत्मासनमूरुद्वन्द्वे त्रिपुरेश्याद्ययुग्मके || १७१ || शिवं चन्द्रं नियोज्यैव तृतीये शिवमुत्क्षिपेत् | त्रिपुराश्रीतिचक्रस्य आसनं स्फिचि देशके || १७२ || __________________________________________________________________ १६९-१७२ | अथ षदासनन्यासमाह-तत इत्यादिना | तत्र प्रथमासनन्यासमाह- त्रिपुरेशीति | अत्र त्रिपुरेशी बालाबीजत्रयम् | अव्यक्तमुक्तं तन्त्रसारकृता-बालान्ते अमृतार्णवासनाय नमः इति पादयोरित्यनेन | नमः पदान्तोऽयं न्यासः सर्वत्र तथा दर्शनात् | एवञ्च ऐ/ क्ली/ सौः अमृतासनाय नम इति पादयोर्न्यसेत् | अमृतार्णवशब्दपूर्व आसनाय महामनुः | पादयोर्विन्यसेत् * * * * * || इति यामलवचनानुसारेण तु ऐ/ क्लीं सौः अमृतार्णवासनाय नम इति तन्त्रसारपरिगृहीत एव मन्त्रः पर्यवस्यति | तन्त्रसारकृताऽपि तथैव लिखितम् | द्वितीयमाह-कुमारिकामिति | कुमारिकां बालां समुच्चार्य त्रिपुरसुन्दरीति, ततश्च पोताम्बुजासनमिति | एवञ्च ऐ/ क्लीं सौः त्रिपुरसुन्दरी-पोताम्बुजासनाय नम इति जानुद्वये न्यसेदित्यर्थः | तदुक्तं तत्रैव * * * पश्चाद् बालान्ते परमेश्वरि | पोताम्बुजासनायान्ते नमो जानुनि विन्यसेत् || इति | तृतीयमाह-बालादीत्यादिना | बालादि ऐ/ क्लीं सौरिति बालाबीजत्रयस्यादि ऐ/ इति बीजं त्यक्त्वा तत्र मायां समारोप्य वाग्भवबीजस्थाने मायाबीजं दत्त्वेत्यर्थः | ततस्त्रिपुरवासिनीति ततश्चात्मासनायेति, ततो नमःपदं पूर्ववत् प्रयुञ्जीत | एवञ्च (प्. ४७५) बालाबीजद्वये मन्त्री शिवचन्द्रद्वयं क्षिपेत् | तार्तीये शिवबीजन्तु ततस्त्रिपुरमालिनी | सर्वमन्त्रासनं लिङ्गे देव्या आसनकान्तिकम् || १७३ || हित्वा व्लेमात्मकं बीजं त्रिपुरान्ते समालिखेत् | ततः सिद्धेश्वरी चैव साध्यसिद्धासनं गुदे || १७४ || _________________________________________________________________ ह्रीं क्लीं सौः त्रिपुरवासिन्यात्मासनाय नमः इति ऊरुद्वये न्यसेदिति फलितार्थः | व्यक्तमाह तन्त्रसारधृतयामले ह्रीं क्लीं सौस्त्रिपुरेत्युक्त्वा सुन्दरीति पदं ततः | ङेन्तं देव्यासनञ्चान्ते नम ऊरुद्वये न्यसेत् || इति | अत्र त्रिपुरसुन्दरीदेव्यासनाय नम इति विशेषः | चतुर्थमाह शिवमित्यादिना | प्रागुक्ते ऐ/ क्लीं सौरिति बालाबीजत्रये प्रथमे शिवं हकारं द्वितीये चन्द्रं हकारं नियोज्य तृतीये शिवम् उत्क्षिपेत् उद्धरेदित्यर्थः | एवञ्च ऐ/ इत्यनेन हकारयोगे है/ द्वितीयेन किल्लिं इत्यनेन तद्योगे हक्लीं, तृतीये सौरित्यनेन तद्योगे हसौरिति लभ्यते | अत्र चन्द्रमित्यनेन चन्द्रशेखरपदप्रतिपाद्यं शिवबीजं बोध्यम् | व्यक्तमाह तन्त्रसारधृतयामले हैं हक्लीं हसौरन्ते त्रिपुरवासिनीति च | चक्रासनाय नम इत्यनुना स्फिगद्वये न्यसेत् || इति | एवञ्च हैं हक्लीं हसौः त्रिपुराश्रीचक्रासनाय नम इति प्रयोगः | निरुक्तयामलानुसारेण तु त्रिपुरवासिनीति विशेषः | स्फिचि देशके नितम्बे | १७३-१७४ | पञ्चममाह-बालेत्यादिना | अत्रापि प्रागुक्तबालाबीजानां मध्ये प्रथमे ऐ/ क्लीं इति बालाबीजद्वये प्रत्येकेन शिवबीजं हकारं चन्द्रबीजं सकारञ्च क्षिपेदित्यर्थः | एवञ्च ऐ/ इत्यनेन हकारसकारयोर्योगे हसैं इति, क्लीं इत्यनेन च तद्योगे ह स क्लीं इति लभ्यते | तार्त्तिये क्ली इति तृतीयबीजे शिवबीजमात्रयोगे हसौरित्येव स्यात् | ततस्त्रिपुरमालिनीति ततश्च सर्वमन्त्रासनायेति | एवञ्च हसैं हसक्लीं हसौः त्रिपुरमालिनी-सर्वमन्त्रासनाय नमः इति लिङ्गे न्यसेदित्यर्थः | (प्. ४७६) (षडङ्गन्यासोपदेशो वशिन्याद्यष्टकन्यासक्रमश्च) षडङ्गं पूर्ववत् कृत्वा वशिन्याद्यष्टकं न्यसेत् | अष्टवर्गैः क्रमेणैव वलूमात्मकमुद्धरेत् || १७५ || वशिनीं विन्यसेन्मूर्ध्नि कामेशीं कलह्रींयुताम् | कपाले तु तवर्गान्तं लान्तभूमायया युतम् || १७६ || भ्रूमध्ये मोदिनीं वाचां देवतान्तु विनिन्यसेत् | वायुं भूवामकर्णाभ्यां नादबिन्दुसमन्वितम् || १७७ || विमलां विन्यसेत् कण्ठे चवर्गस्य तृतीयकम् | कालक्ष्मान्तवामनेत्रमरुणां हृदये न्यसेत् || १७८ || ________________________________________________________________ षष्ठमाह-देव्या इत्यादिना | तथा च ह्रीं क्लीं सौरित्यतः आसनकान्तिमं सौरिति हित्वा तत्र व्ले/ इति समालिखेत् | एवञ्च ह्रीं क्लीं व्ले/ त्रिपुरसुन्दरीसाध्यसिद्धासनाय नम इति गुदे न्यसेदिति फलितम् | एवमेव त्रिपुरार्चनरहस्यकाराः | १७५-१७८ | षडङ्गमिति | पूर्ववत् षडङ्गन्यासं कृत्वेत्यनेन अनया बालया मन्त्रीत्यादिना वक्ष्यमाणक्रमान्मूलद्विरावृत्त्याऽथवा सुधीरित्यादिना च प्रागभिहितं षडङ्गन्यासं कृत्वेति ज्ञेयम् | तन्त्रसारकृता तु सर्वज्ञता नित्यसुतृप्तता च अनादिबोधश्च स्वतन्त्रता च | अलुप्तशक्तित्वमनन्तता च षडाहुरङ्गानि शिवयोः शिवाद्याः || बीजान्ते नाम संयोज्य जातियुक्तं षडङ्गकम् | इति नवरत्नेश्वरप्रमाणानुसारेण ऐ/ सर्वज्ञाशक्तिश्रीमहात्रिपुरसुन्दरीहृदयाय नमः | क्ली/ नित्यसुतृप्तिशक्तिश्रीमहात्रिपुरसुन्दरीशिरसे स्वाहा इत्येवं क्रमेण षडङ्गन्यासोऽभिहितः | परन्त्वत्र पूर्ववत् कृत्वेत्यभिधानान्नवरत्नेश्वरोक्तादन्य एवायं क्रम इति ज्ञेयम् | अथ वशिन्यादिन्यासमाह-वशिन्याद्यष्टकमित्यादिना | ब्रह्मरन्ध्रादिषु सर्वाङ्गान्तेष्वष्टसु स्थानेष्वष्टवर्गैः सह क्रमेण वशिन्याद्यष्टकं न्यसेदिति सम्बन्धः | वशिन्याद्यष्टकञ्च वशिनी-कामेशी-मोदिनी-विमलारुणा-जयिनी-सर्वेशी- कौलिनीत्याख्यं वक्ष्यमाणम् | तत्र प्रथमं न्यासमाह-वलूमात्मकमित्यादिना मूर्ध्नीत्यन्तेन | अनेन अं इत्यतः अः इत्यन्तं (प्. ४७७) स्वरवर्गं ततो बलूं ततो वशिनीवाग्देवतायै नमः इति मूर्द्ध्नि ब्रह्मरन्ध्रे न्यसेदित्यर्थः | अत्र गन्धर्वतन्त्रे नवमपटले वह्निर्वरुणशक्रञ्च षष्ठस्वरविभूषितम् | नादबिन्दुकलायुक्तं वशिनीति पदन्ततः | वाग्देवता चतुर्थ्यन्ता नमः स्वरैः प्रविन्यसेत् | इत्यभिधानात्, ज्ञानार्णवे चतुर्दशपटले अवर्गान्ते लिखेद् बीजं वह्निफान्तं क्षमान्वितम् | वामकर्णविशोभाढ्यं बिन्दुनादाङ्कितं प्रिये | वशिनीं पूजयेद् वाचां देवतां देवि सुव्रते | इत्युक्तन्यासक्रमदर्शनाच्च अकारादि-विसर्गान्तस्वरोच्चारणानन्तरं रवलूमित्युच्चार्य वशिनीवाग्देवतायै नम इत्युच्चरेदिति सुस्पष्टं प्रतिभाति | तन्त्रसारेऽपि रवलूमित्येव दृश्यते | तन्मूले वलूमात्मकमिति पाठः प्रामादिको वा तन्त्रान्तरसम्मतो वेति सन्दिहानैरप्यस्माभिरगत्या मूलानुगत एव मन्त्रोद्धारः कृत इति क्षमन्तां तन्त्ररसिकाः | द्वितीयमाह-कामेशीमित्यादिना कपाले त्वित्यन्तेन | तथा च प्रथमं सानुस्वारं कवर्गं ततः कलह्रीमिति ततश्च कामेश्वरीवाग्देवतायै नमः इति ललाटे न्यसेत् | व्यक्तमाह गन्धर्वतन्त्रे नवमपटले मादनं शक्रमारूढं महामाया ततः परम् | इयं कामेश्वरी ज्ञेया कवर्गेण ललाटके || इति | तृतीयमाह-तवर्गान्तमित्यादिना विनिन्यसेदित्यन्तेन | अत्रापि सानुस्वारं चवर्गं ततस्तवर्गान्तं नकारं तञ्च लान्तेन वकारेण भूमायया भुवा लकारेण मायया दीर्घेकारेणार्थाद् बिन्दुनाऽपि युतम्, एतेन नवलीमिति प्राप्तम् | ततश्च मोदिनीवाग्देवतायै नम इति भ्रूमध्ये विनिन्यसेदिति सम्बन्धः | व्यक्तमाह ज्ञानार्णवे चतुर्दशपटले चवर्गान्ते धान्तलान्तं क्षमातुर्यस्वरान्वितम् | मोदिनीं पूजयेद् वाचां देवतां तदनन्तरम् || इति | गन्धर्वतन्त्रे नवमपटलेऽपि धान्तं वरुणमिन्द्रञ्च चतुर्थस्वरबिन्दुकम् | एषैव मोदिनी देवी भ्रुवोर्मध्ये चवर्वकैः || इति | चतुर्थमाह वायुमित्यादिना कण्ठ इत्यन्तेन | अत्र प्रथमं सानुस्वारं टवर्गं ततो वायुं यकारं भूवामकर्णाभ्यां भूर्लकारः वामकर्ण ऊकारस्ताभ्यां युक्तं तन्नादबिन्दुसमन्वितं तता विमलावाग्दैवतायै नमः इति कण्ठे न्यसेत् | तदुक्तं गन्धर्वतन्त्रे नवमपटले (प्. ४७८) शिवसोममहीतोयवह्निभूमात्मकं तथा | जयिनीं विन्यसेन्नाभौ चवर्गस्य तृतीयकम् (?) || १७९ || काम(?)वह्निमरुद्वामकर्णबिन्दुसमन्वितम् | मूलाधारे च सर्वेशीं नृसिंहकालवह्निना | वामनेत्रेण संयुक्तं कौलिनीं श्रवणे न्यसेत् || १८० || __________________________________________________________________ वायुं पुरन्दरं देवि षष्ठस्वरविभूषितम् | नादबिन्दुकलायुक्तं विमलेयं समीरिता | न्यस्तव्या कण्ठदेशे तु टवर्गेणैव पार्वति || इति | पञ्चमाह-चवर्गस्येत्यादिना हृदये न्यसेदित्यन्तेन | अत्र प्रथमं सानुस्वारं तवर्गम्, ततश्चवर्गस्य तृतीयकं जकारम्, ततः कालक्ष्मान्तवामनेत्रं कालो मकारः, क्ष्मा अन्ते यस्य स क्ष्मान्तो रकारः वामनेत्रमीकारः, एतेन जमरीं इति प्राप्तम् | ततश्चारुणावाग्देवतायै नम इति हृदये न्यसेत् | यत्तु तन्त्रसारे जमलीमित्यनन्तरमरुणायै इत्यादि दृश्यते तत् प्रामादिकमिति प्रतिभाति | गन्धर्वतन्त्रे नवमपटले छान्तं भान्तञ्च ज्वलनं तुरीयस्वरबिन्दुकम् | अरुणेयन्तु वाग्देवी तवर्गेण हृदि स्थिता || इत्यत्र जवलनमितिपदेन वह्निबीजस्य रकारस्यैव स्फुटमभिधानात् | ज्ञानार्णवे चतुर्दशपटलेऽपि तवर्गान्ते जमक्ष्माद्यं वामनेत्रविभूषितम् | बिन्दुनादाङ्कितं बीजं वाग्देवीमरुणां यजेत् || इति वचने क्ष्माद्यमित्यनेन पृथ्विबीजलकारादिभूतरकारस्यैव बोधः | न तु क्ष्माद्यमित्यनेन पृथ्वीबीजग्रहः कथमपि सम्भवति | यत्तु आधुनिकमुद्रिततन्त्रसारेषु जमक्ष्मान्तमिति ज्ञानार्णववचनस्य पाठो दृश्यते तत्र बहुव्रीह्याश्रयणमेव साधु | १७९-१८० | षष्ठमाह शिवेत्यादिना नाभावित्यन्तेन | अत्र प्रथमं सानुस्वारं पवर्गं ततश्च शिवेत्यादि | शिवो हकारः, सोमः सकारः, मही लकारः, तोयं वकारः, वह्निभूर्यकारः, आकाशाद् वायुर्वायोरग्नित्यादिश्रुते | तत ऊं इति | अनेन ह स ल व युमिति प्राप्तम् | ततश्च जयिनीवाग्देवतायै नम इति नाभौ न्यसेत् | व्यक्तमाह गन्धर्वतन्त्रे नवमपटले (प्. ४७९) जयिनी च ततो देवि नकुलिः सोमशक्रकम् | वारुणं वायुबीजञ्च षष्ठस्वरविभूषितम् | नाभिदेशे समाख्याता पवर्गेण वरानने || इति | सप्तममाह-चवर्गस्येत्यादिना सर्वेशीमित्यन्तेन | अत्र प्रथमं यवर्गम्, ततश्च चवर्गस्य तृतीयकं जकारः, कामः ककारः, वह्नी रकारः, मरुद् यकारः, स च वामकर्णबिन्दुभ्यामूकारानुस्वाराभ्यां विभूषितः, एतेन यवर्गानन्तरं जकरयूमित्यापतति | परन्तु गन्धर्वज्ञानार्णवतन्त्रानुसारेण झमरयूमिति प्रयोगसम्भवात् श्रीमत्तन्त्रसारकारैस्तथैवाभिहितत्वाच्च चवर्गस्य चतुर्थकमिति कालेति च पाठौ लेखकप्रमादतस्तृतीयकं कामेति चावस्थान्तरमापन्नाविति प्रतीमः | तथा च गन्धर्वतन्त्रे नवमपटले जान्तं भान्तं ततो रेफं वायुबीजसमन्वितम् | षष्ठस्वरसमायुक्तं नादबिन्दुकलायुतम् | सर्वेश्वरी यवर्गेण स्वाधिष्ठानाख्यपङ्कज || इति | ज्ञानार्णवे चतुर्दशपटले च यवर्गान्ते जान्तकालरेफवायुसमन्वितम् | ऊमाढ्यं देवतां वाचां सर्वेशीं परिपूजयेत् || इत्यभिहितम् | एवञ्च यं रं लं वं झ म र यूं सर्वेश्वरीवाग्देवतायै नमः इत्येव गन्धर्वज्ञानार्णवानुसारेण पर्यवस्यतीति ध्येयम् | अष्टममाह-नृसिंहेत्यादिना श्रवणे न्यसेदित्यन्तेन | संयुक्तमिति क्रियाविशेषणम् | सयुक्तामिति वा समीचीनः पाठः | अत्र प्रथमं शादिवर्गं ततश्च नृसिंहेत्यादि, नृसिंहः क्षकारः, कालो मकारः, वह्नी रकारः, वामनेत्रेण चतुर्थस्वरेण | एतेन क्षमरीमिति प्राप्तम् | ततश्च कौलिनीवाग्देवतायै नम इति श्रवणे न्यसेदित्यर्थः | न्यासोऽयं मूलाधार इति गन्धर्वतन्त्रोपदेशः | तदुक्तं तत्रैव नवमपटले संवर्तकं महेशानि कालबीजोपरि स्थितम् | वह्निबीजं ततो माया नादबिन्दुकलान्विता | मूलाधारे शवर्गेण कौलिनी परिकीर्तिता || इति | ज्ञानार्णवे तु सर्वाङ्गे न्यासोऽयमुपदिष्टः | तथा च तत्र न्यासस्वरूपनिरूपणानन्तरं स्थाननिरूपणावसरे शिरोललाटभ्रूमध्यकण्ठहृन्नाभिगोचरे | आधारे व्यूहकं यावन्न्यसेद्देवीः क्रमात् प्रिये || इति | (प्. ४८०) (षोढान्यासोपदेशः) षोढान्यासं ततः कुर्याद् येन तन्मयतामित्यात् | (षोढान्यासप्रशस्तिः) शिवाद्याश्च प्रजेशान्ता येन स्युरपराजिताः || १८१ || येन रामोऽजयत् संख्ये कार्तवीर्यार्जुनादिकम् | एकविंशतिवारं हि दुर्वासा येन विप्रराट् || १८२ || दुर्द्धर्षवाक् शायकभृद् येन रामो निशाचरान् | वरदृप्ताञ् जघानैव येन कृष्णो रणेऽजयः || १८३ || वदामि तत्तुल्यमेनमापराजित्यकारणम् | महाप्रभावं यत् कृत्वा सान्निध्यं त्रैपुरं भवेत् || १८४ || विषादिदमनञ्चैव सर्वशस्त्रास्त्रवारणम् | नमस्कारप्रयोगेण मारयेत् साधको रिपून् || १८५ || वृक्षांश्च प्रतिमाः शैलान् नमस्कारेण दारयेत् | तत् प्रणामं न सोढाऽस्ति विना विष्णुं विना शिवम् || १८६ || विनाऽब्जेशं गणेशञ्च विना श्रीपरमेश्वरीम् | न्यसन्तं साधकं दृष्ट्वा पलायन्ते द्रुतं ग्रहाः || १८७ || प्रकम्पन्ते च शैलाद्या यतोऽन्या देवमूर्तयः | भूतप्रेतपिशाचाद्या दानवा राक्षसाः खगाः || १८८ || दैत्यगन्धर्वसिद्धाश्च पलायन्ते भयातुराः | डाकिन्याद्या महौषध्यः पलायन्ते महोरगाः || १८९ || (प्. ४८१) सूर्यचन्द्रादयः सर्वे कम्पन्ते नतिभीषिताः | व्याधयो रोगिणस्त्यक्त्वा पलायन्ते च सत्वरम् || १९० || तत्पाणिस्पर्शतृप्त्याऽपि प्रेतभूताः * सुदारुणाः | अग्नयः शीततां यान्ति तद्गात्रस्पर्शमात्रतः || १९१ || ब्रह्मास्त्रादीनि सर्वाणि यं दृष्ट्वा यान्ति सौम्यताम् | अजरामरतां याति लक्ष्मीर्देहं न मुञ्चति || १९२ || अपि घोराणि पापानि शान्तिमायान्ति तत्क्षणात् | षोढान्यासं साधयित्वा किमसाध्यं जगत्त्रये || १९३ || आकर्षणस्तम्भनाद्याः सिद्धास्तस्य हि चिन्तनात् | तस्मात् षोढां प्रवक्ष्यामि सारात् सारतरामिह || १९४ || (षोढान्यासघटकषड्विधन्यासोद्देशः) गणेशैः प्रथमो न्यासो द्वितीयस्तु ग्रहैर्मतः | नक्षत्रैस्तु तृतीयः स्याद् योगिनीभिश्चतुर्थकः | राशिभिः पञ्चमो न्यासः षष्ठः पीठैनिगद्यते || १९५ || (षोढायास्त्रैविध्यम्) षोढा सा त्रिविधा प्रोक्ता स्वल्पा मध्या तथोत्तमा | अल्पा तु निष्फला प्रोक्ता मध्यमा सफला भवेत् || १९६ || _________________________________________________________________ १९५ | एवं साधकानामाभिमुख्यार्थं षोढान्यासस्य प्रशस्तिमभिधाय तद्घटकान् गणेशादिषड्विधन्यासानुद्दिशति गणेशैरित्यादिना | १९६-१९७ | अथ कुलोड्डीशमतानुसारेण षोढायास्त्रैविध्यं दर्शयति - षोढेत्यादिना | तत्र महाषोढास्वरूपमाह लक्ष्मीः श्रीमिति बीजं तदग्रतो यदि माया- (प्. ४८२) महाषोढोत्तमा लक्ष्मीर्मायाकामोऽग्रतो यदि | (अस्य प्रामाणिकतन्त्रसंवादित्वम्) कुलोड्डीशाभिधाने तु प्रकार ईदृशः स्मृतः || १९७ || (पूर्वतो बीजयोगे कल्पभेदाः) वाङ्मायाकमलाभिर्वा तत्पुटैर्वा समाहितः | रमामायान्वितैः पूर्वैर्मदनैर्वा तनौ न्यसेत् || १९८ || (न्यसनीयानां गणेशानां ध्यानम्) तरुणारुणसङ्काशान् गजवक्त्रांस्त्रिलोचनान् | पाशाङ्कुशवराभीतिकराञ् शक्तिसमन्वितान् | एतांस्तु विन्यसेद्देहे मातृकान्यासवत् सुधीः || १९९ || बीजं ह्रीं कामबीजं क्लीमिति च स्याताम् | एतेनात्र ह्रीं क्लीं श्रीमिति पूर्वमुच्चार्य विघ्नेश्वरादिभिर्न्यासः कर्तव्य इत्युक्तं भवति | इदमेव कुलोड्डीशमतम् | षट्स्वपि गणेशादिन्यासेष्वयं बीजयोगो बोध्यः | १९८ | क्रमान्तराण्याह वागित्यादिना | वाक् वाग्भवबीजम् ऐ/, माया ह्रीं कमला श्रीं | एवञ्च ऐ/ ह्रीं श्रीमित्युच्चार्य वक्ष्यमाणक्रमेण न्यसेदित्यपरः कल्पः | अयमेव परिगृहीतस्तन्त्रसारकारैः | तत्पुटैर्वेति | तथा च ऐ/ ह्रीं श्रीमित्युच्चार्य अं विघ्नेश्वरश्रीभ्यां नम इत्यादिक्रमेण न्यसनीयवर्णदेवताश्च समुच्चार्य पुनः ऐ/ ह्रीं श्रीमित्युच्चरेदित्यन्यः कल्पः | कल्पान्तरमाह रमेति | पूर्वैः पूर्वं योजितैः रमामायान्वितैर्मदनैः कामबीजैर्वा न्यसेदिति सम्बन्धः | एवञ्चात्र कल्पे श्री/ ह्रीं क्लीमिति पूर्वे नियोज्य न्यसेदित्युक्तं भवति | एतेऽपि बीजयोगक्रमभेदाः षट्स्वपि गणेशादिन्यासेषु साधकैरुपादेयाः | १९९ | न्यसनीया गणेशाः किमाकारा इत्यत आह-तरुणेति | अत्रारुणादित्यसङ्काशानिति ज्ञानार्णवे द्वितीयपटले, तरुणादित्यसङ्काशानिति च त्रिपुरार्चनरहस्ये पाठो दृश्यते | तथा चैवंस्वरूपान् गणपतीन् ध्यात्वा वक्ष्यमाणक्रमेण न्यसेदिति तात्पर्यम् | अत एव ज्ञानार्णवे चतुर्दशपटले तरुणादित्येत्यभिधाय (प्. ४८३) (अस्य ऋष्यादिन्यासः) ऋषिः स्याद्दक्षिणामूर्तिर्गायत्री च्छन्द उच्यते | महागणपतिर्देवो विराड्रूपे नियोजयेत् || २०० || (गणेशन्यासः (१)] विघ्नेश्वरः श्रिया युक्तो विघ्नराजस्तथा ह्रिया | विनायकस्तथा तुष्टिः शान्तियुक्तः शिवोत्तमः || २०१ || __________________________________________________________________ ध्यात्वा प्रविन्यसेद्देवि मातृकान्यासवत्ततः | इत्युक्तम् | एतेन मूलोक्तं मातृकोन्यासवत् सुधीरित्यपि दृढीकृतम् | मातृकान्यासवदित्यनेन मातृकान्यासनिर्दिष्टेषु शिरोवदनाद्यङ्गेषु क्रमेण न्यासः कर्तव्य इत्युक्तम् | २०० | तत्र प्रथमसृष्यादिन्यासमाह-ऋषिरित्यादिना | तथा च दक्षिणामूर्तिर्- ऋषिर्गायत्री च्छन्दो महागणपतिर्देवता विराड्रूपे चास्य विनियोग इति ज्ञेयम् | गन्धर्वतन्त्रेऽष्टमपटले तु नारायणोऽस्य ऋषिः प्रोक्तश्च्छन्दोऽनुष्टुवुदाहृतम् | इत्यादिना ऋष्यादिनिरूपणे क्रमभेदो दृश्यते | तन्त्रसारेऽपि बृहदारण्यक ऋषिरनुष्टुपछन्द इत्यादिनाऽन्यथा ऋष्यादि निरूपितमस्ति | एवमत्र मतभेददर्शनात् स्वस्वगुरुसम्प्रदायानुसारेणैकतमः पक्षः समाश्रयणीय इति दिक् | २०१ | एवं पूर्वतो बीजयोगमृष्यादिन्यासञ्चोपदर्श्य न्यासपरिपाटीं निरूपयति विघ्नेश्वर इत्यादिना गणेशन्यास उद्दिष्ट इत्यन्तेन | अत्र अकारादिक्षकारान्तैः सचन्द्रैर्विन्यसेद् बुधः इति वक्ष्यमाणत्वाद् मातृकान्यासवत् सुधीरिति पूर्वमभिहितत्वाच्च मातृकान्यासरीत्या शिरोमुखादिक्रमेण अं आं इत्याद्येकैकं वर्णमुच्चार्य वक्ष्यमाणान् विघ्नेश्वरादीन् न्यसेदित्यर्थः | एवं च (१) ह्रीं क्लीं श्रीं अं विघ्नेश्वर श्रीभ्यां नमः इत्यादिरूप एकः क्रमः | (२) ऐ/ ह्रीं श्री/ अ/ विघ्नेश्वर श्रीभ्यां नमः इत्यादिरूपो द्वितीयः | (३) ऐ/ ह्रीं श्री/ अ/ विघ्नेश्वर श्रीभ्यां नमः ऐ/ ह्रीं श्री/ इत्यादिरूपस्तृतीयः | (४) श्री/ ह्री/ क्लीं विघ्नेश्वर श्रीभ्यां नमः इत्यादिरूपश्चतुर्थः | इति ज्ञेयम् | गन्धर्वतन्त्रेऽष्टमपटले तु विघ्नराजाय देवेशि श्रियै नमस्ततः परम् | विनायकाय तुष्ट्यै च शान्त्यै शिवोत्तमाय च || (प्. ४८४) विघ्नकृत् सृष्टियुक्तश्च विघ्नकर्ता सरस्वती | विघ्नराड् रतियुक्तश्च मेधया गणनायकः || २०२ || एकदन्तश्च शान्तिश्च द्विदन्तः कामिनीयुतः | गजवक्त्रो मोहिनी च निरञ्जनो जटायुतः || २०३ || कपर्दी तु तथा नित्यं दीर्घवक्त्रश्च मालिनी | सङ्कर्षणस्तथा नन्दा सुरसा च वृषध्वजः || २०४ || गणनाथः कामरूपा गजेन्द्रः सुभ्रुवा युतः || २०५ || शूर्पकर्णश्च जयिनी त्रिलोचनश्च सत्यया | लम्बोदरश्च विघ्नेशी महानादस्वरूपिणी || २०६ || चतुर्मूर्तिः कामदा च सदाशिवेन संयुता | मदविह्वलनाम्नी च आमोदो विकटायुतः || २०७ || दुर्मुखेन युता घूर्णा सुमुखो भूतिसंयुतः | प्रमोदश्च तथा भूमिरेका पादयुता सती || २०८ || द्विजिह्वो रमया युक्तः सुरयुक्ता च मानुषी | वीरेश्वरेण संयुक्तो मकरध्वजसंज्ञिका || २०९ || __________________________________________________________________ इत्यादिना तत्र तत्र पृथक् चतुर्थ्यन्तनिर्देशात् | तन्मते विघ्नराजाय श्रियै नमः, विनायकाय तुष्ट्यै नमः इत्यादिरूपः प्रयोगक्रम इति प्रतिभाति | अत्र गन्धर्वतन्त्रवचने प्रथमं न्यसनीययोर्विघ्नेश्वरश्रियोर्नाम न दृश्यते, त्रिपुरार्चनरहस्येऽप्येवमेव | ज्ञानार्णवे चतुर्दशपटले तु विघ्नेश्वरस्तथा श्रीश्च विघ्नराजस्तथा ह्रिया | इत्यादिना विघ्नेश्वरश्रियोर्न्यासः प्रथमतोऽभिहित इति तन्मतानुसारेणैव प्रकृते विघ्नेश्वरश्रियोः प्रथममुल्लेखः | तन्त्रसारेऽप्येवमेव | स्पष्टमन्यत् | (प्. ४८५) मन्मथः पिङ्गलायुक्तो वरदो भृकुटीयुतः | वामदेवस्तथा लज्जा रक्ततुण्डस्तदन्तरम् || २१० || दीर्घघोणान्वितः पश्चाद् द्विरण्डको धनुर्धरः | सेनानीर्यामिनीयुक्तो ग्रामणी रात्रिसंयुतः || २११ || तमश्चन्द्रिकया युक्तो विमलश्च शशिप्रभा | मत्तवाहनलोले च जटी तु चपलेक्षणा || २१२ || मुण्डी ऋड्धिसमायुक्तः खड्गी दुर्भगयाऽन्वितः | वरेण्यः सुभगायुक्तो वृषस्कन्धान्वितः शिवा || २१३ || भक्ष्यप्रिययुता दुर्गा गणश्च गृहकान्तया | मेघनादः कालिका च गणेशोऽनलजिह्वया || २१४ || अकारादिक्षकारान्तैः सचन्द्रैर्विन्यसेद् बुधः | गणेशन्यास उद्दिष्टो (ग्रहन्यासप्रतिज्ञा (२)) ग्रहन्यासश्च कथ्यते || २१५ || (तत्र ग्रहाणां वर्णनिर्देशः) रक्तं सूर्यं सितं चन्द्रं रक्तवर्णन्तु मङ्गलम् | श्यामं बुधं गुरुं पीतं पाण्डरं भृगुनन्दनम् | शनिं कृष्णं तमो धूम्रं भावयेद्रविपूर्वकम् || २१६ || ________________________________________________________________ २१५ | एवं षोढान्यासाङ्गभूतानां षण्णां न्यासानां प्रथमं गणेशन्यासमुपदिश्य द्वितीयं ग्रहन्यासमभिधत्ते-ग्रहेत्यादिना | २१६ | तम इति | तमो राहुं, तमस्तु राहुरित्यमरः | कृष्णमित्यस्य शनिना तमसा च सम्बन्धः | शनेः कृष्णवर्णत्वम् कृष्णं कृष्णाम्बरं गृध्रगतं सौरिं चतुर्भुजम् | (प्. ४८६) (स्वरूपम्) कामरूपधरा एते दिव्याम्बरविभूषिताः | वामोरून्यस्तहस्ताश्च दक्षिणेनाभयप्रदाः || २१७ || (न्यासपरिपाटी) अर्कं हृत्परतः स्वरैरथ विधुं कोदण्डमध्ये न्यसेत् याद्यैर्वर्णचतुष्टयैरथ कुजं नेत्रारविन्दद्वये | काद्येनैव बुधं स्वकीयहृदये चाद्येन वर्गेण वै टाद्यैः पञ्चभिरर्णकैः सुरगुरुं हृत्पूर्वदेशे क्रमात् || २१८ || _________________________________________________________________ इत्यनेन, राहोश्च कृष्णवर्णत्वम् राहुं मलयजं शूद्रं पैठीनं द्वादशाङ्गुलम् | कृष्णं कृष्णाम्बरं सिंहासनं ध्यात्वा तथाऽह्वयेत् || इत्यनेन, केतोर्धूम्रवर्णत्वञ्च कौशद्वीपं केतुगणं जैमिनीयं षडङ्गुलम् | धूम्रं घृध्रगतं शूद्रमाह्वयेद् विकृताननम् || इत्यनेन ग्रहयागतत्त्वे प्रमाणितम् | अत्र रविपूर्वकमिति | रविः ककारः पूर्वो यस्येत्यर्थबलात् ककारस्य नाम्न आद्यावयवत्वाद् रविपूर्वकशब्देन केतुपरिग्रहः | ज्ञानर्णवे चतुर्दशपटले तु ग्रहाणां वर्णनिरूपणे विशेषो दृश्यते पद्मरागं सितं रक्तं श्यामं पीतञ्च पाण्डुरम् | धूम्रकृष्णं कृष्णधूम्रं धूम्रधूम्रं विचिन्तयेत् | रविमुख्यान् कामरूपन् सर्वाभरणभूषितान् | इत्यादि | २१८ | अथ ग्रहन्यासपरिपाटीमुपदिशति-अर्कमित्यादिना | हृत्परतः हृदधोदेशे स्वरैरर्कं विन्यसेदिति सम्बन्धः | अत्रापि पूर्ववन्मायादिबीजयोगस्ततः सानुस्वारा अकारादिविसर्गान्ताः स्वरास्ततश्च सूर्याय नमः इति | एवञ्च ह्रीं क्लीं श्रीं अं आं इं ईं उं ऊं ऋं ॠं ऌं ॡं एं ऐं ओं औं अं अः सूर्याय नमः इति मन्त्रः पर्यवस्यति | तदुक्तं गन्धर्वतन्त्रे नवमपटले (प्. ४८७) शुक्रं तादिशरार्णकैरथ गले, पाद्येन वर्गेण वै वीरेन्द्रो मणिपूरकेऽथ वदने राहुं शवर्गेण च | लक्षाभ्यां पददेशके च नवमं केतुं क्रमाद् विन्यसेत् (तारान्यासोपदेशप्रतिज्ञा) तारान्यासमथोच्यते शुभकरं सर्वार्थसिद्धिप्रदम् || २१९ || (तत्र ताराध्यानम्) ज्वलत्कालाग्निसङ्काशा वरदाभयपाणयः | नतिपाण्योऽश्विनीमुख्याः सर्वाभरणभूषिताः || २२० || __________________________________________________________________ स्वरान् पूर्वं समुद्धृत्य चन्द्रबिन्दुसमन्वितान् | सूर्याय नम उच्चार्य हृदये च प्रविन्यसेत् || इत्यादि | एवं वक्ष्यमाणेष्वपि बोध्यम् | यत्तु तन्त्रसारे आदित्यरुचिभ्यां नमः इत्यादिरूपः प्रयोगक्रमो दृश्यते, स तु तत्समर्थकैः स्वरैरर्कं हृदि न्यस्येद् यवर्गेण शशि युतः | इत्यादि-ज्ञानार्णवचतुर्दशपटलवचनैरप्यप्राप्तत्वान्नास्माभिरत्र निवेशितः | तन्त्रसारकारैस्तु प्रस्थानान्तरमाश्रित्य प्रयोगोऽयं परिकल्पित इति प्रतीमः | अथेति | कोदण्डमध्ये भ्रूमध्ये | याद्यैर्वणचतुष्टयैः यं रं लं वं इत्येतैः विधुं न्यसेदिति सम्बन्धः | अत्रापि ह्रीं क्लीं श्रीं यं रं लं वं सोमाय नमः इत्यादिरूपः क्रमः | एवं वक्ष्यमाणेष्वप्युन्नेयम् | अथेति | काद्येनैव वर्णपञ्चकेन नेत्रारबिन्दद्वये विधुं न्यसेदिति सम्बन्धः | चाद्येनेति चवर्गेण पूर्ववत् स्वकीयहृदये बुधं टवर्गेण हृत्पूर्वदेशे हृदयोपरीत्यर्थः, सुरगुरुं बृहस्पतिं न्यसेदित्यर्थः | २१९ | शुक्रमिति | तादिशरार्णकैः शुक्रं गलदेशे तथा पाद्येन वर्गेण पवर्गेण मणिपूरके नाभिपद्मे शनैश्चरमिति शेषः, तथा वदने शवर्गेण राहुं तथा ल- क्षाभ्यां लं क्षमिति वर्णद्वयेन नवमं केतुं पददेशके वीरेन्द्रो विन्यसेदिति सम्बन्धः | अत्र शनेरनुक्तावपि मणिपूरके शनैश्चरस्य न्यासो बोध्यः | व्यक्तमाह ज्ञानार्णवे चतुर्दशपटले पवर्गेण शनिर्नाभौ राहुर्वक्त्रे शवर्गकः | इति | अथ तारान्यासं वक्तुं प्रतिजानीते तारेत्यादिना चतुर्थपादेन | २२० | तत्र प्रथममश्विन्यादीनां ध्यानमेकेनैवाह ज्वलदित्यादिना | नतिपाण्य इति नत्यर्थं विनियुक्ता पाणयो याभिस्ताः | (प्. ४८८) (न्यासपरिपाटी) अ-आ स्यादश्विनी पूर्वं भरण्या इयुगं तथा | उ-ऊ स्यात् कृत्तिकायाश्च ऋ-ॠ ऌ-ॡ च रोहिणी || २२१ || ए स्यान्मृगशिराः पूर्व ऐ आर्द्रा च तथा ओ-औ | पुनर्वसुस्तथा अं अः कं पुष्या च तथा ख-गः || २२२ || अश्लेषा स्यात् घ ङ मघा च पूर्वा छ-ज उत्तरा | झ हस्ता स्यात् ञ चित्राख्या ट-ठ स्वाती प्रकीर्तिता || २२३ || ड विशाखा ढ-णौ स्याच्चानुराधा त-थ-दाः पुनः | ज्येष्ठा ध-नौ भवेन्मूला पूर्वाषाढा प-फौ भवेत् || २२४ || ब उत्तरा भ-मौ स्यातामभिजिच् श्रवणा य-रौ | ल धनिष्ठा व-शौ स्याच्च तथा शतभिषा पुनः || २२५ || ष-स पूर्वभाद्रपदा चोत्तरा ह भवेत्तथा | ल-क्षौ रेवतावर्णौ च क्रमाद् वर्णा इमेऽथ वा || २२६ || __________________________________________________________________ २२१-२२६ | अथ नक्षत्रन्यासपरिपाटीं दर्शयति-अ-आ स्यादित्यादिना इमे इत्यन्तेन | अत्रापि पूर्ववत् लक्ष्मीर्माया कामोऽग्रतो यदि इत्यनेन वाङ्मायाकमलाभिर्वा इत्यादिना चाभिहितानां बीजानामादौ योगः कर्तव्यः, सामान्यतोऽभिहितत्वात् तन्त्रसार- त्रिपुरार्चनरहस्यादौ तथा दर्शनाच्च | न्यासस्य स्थानानि तु ललाटे नेत्रयोः कर्णयुगे नासापुटद्वये | इत्यादिना निरूपयिष्यति | तथा च ह्रीं क्लीं श्रीं इति वा ऐ/ ह्रीं श्रीमित्यादीनामन्यतमं वा पूर्वमुच्चार्य अं आं इत्यादिक्रमेण स्वरव्यञ्जनानि च यथा प्राप्तमुच्चार्य नमोऽन्तान्यश्विन्यादिनक्षत्राणि न्यसेत् | साधकानां सुखबोधाय दिङ्मात्रं प्रदर्श्यते (१) ह्रीं क्लीं श्रीं अं आं अश्विन्यै नमः (ललाटे) इत्येकः क्रमः | (२) ऐ/ ह्रीं श्रीं अं आं अश्विन्यै नमः (ललाटे) इत्यादिरूपो द्वितीयः | (प्. ४८९) (तत्र क्रमान्तरम्) आद्ययुग्मं तथा चैकं तथा त्रीणि चतुष्टयम् | एकमेकं द्वयञ्चैवं चतुर्दशस्वरं क्रमात् || २२७ || व्यञ्जनैकं द्वयं युग्मं विन्यसेत् साधकोत्तमः | एकं युग्मं द्वयं द्वन्द्वमेकं द्वन्द्वं त्रयात्मकम् || २२८ || एकं त्रिकं तथा चैकमेकमेकं द्वयं ततः | पुनरेकं द्वयं रामं ल क्षं अं अश्चतुष्टयम् || २२९ || अश्विन्यादेः पुरोभागे दत्त्वा च क्रमतो न्यसेत् | (न्यासयोग्यस्थानानि) ललाटे नेत्रयोः कर्णयुगे नासापुटद्वये || २३० || कण्ठे स्कन्धद्वये चैव कूर्परद्वितये तथा | मणिबन्धयुगे हस्तद्वये नाभौ कटीद्वये || २३१ || __________________________________________________________________ (३) ऐ/ ह्रीं श्रीं अं आं अश्विन्यै नमः ऐ/ ह्रीं श्रीं (ललाटे) इत्यादिरूपस्तृतीयः | (४) श्रीं ह्रीं क्लीं अं आं अश्विन्यै नमः (ललाटे) इत्यादिरूपश्चतुर्थः | एवमेतेषामन्यतमं क्रमं स्वस्वगुरुसम्प्रदायानुगतमुररीकृत्य भरण्यादीन्यपि न्यसेत् | तत्र तत्र विशेषन्तु इ-युगमित्यादिना ग्रन्थकृतः स्वयमेवाभिधास्यन्ति | स्पष्टमन्यत् | अथ तारान्यासस्य परिपाटीमन्यादृशीं दर्शयति-अथवेत्यादिना | २२७-२२९ | अत्र तारान्यासे पूर्ववदेव सर्वम्, नक्षत्रनाम्नामादौ तत्तत्स्वरव्यञ्जनयोजनायां यो विशेषस्तमाह-आद्ययुग्ममित्यादिना | तथा च अश्विन्याः पूर्वं अं आं इति द्वयम्, भरण्याः पूर्वम् इं इत्येकम्, कृतिकाया ईं उं ऊं इति त्रीणि, रोहिण्याः ऋं ॠं ऌ ॡं इति चतुष्टयम्, मृगशिरसः एं इत्येकम् | इत्येवं क्रमेण औकारान्तान् चतुर्दश स्वरान् पूर्वतो योजयेत्, अं अः इत्येतयोस्तु व्य~जनान्ते रेवत्यां योगः स्वयमेव वक्ष्यते | एवञ्च ह्रीं क्लीं श्रीं अं आं अश्विन्यै नमः इत्यादिरूपः प्रयोगक्रमः | एवं व्यञ्जनेष्वप्यवगन्तव्यम्, राममिति षं सं हमिति वर्णत्रयमित्यर्थः | स्पष्टमन्यत् | द्वितीयं कल्पमुपसंहरति अश्विन्यादेरिति | स्पष्टम् | २३०-२३१ | अथ पूर्वोदितस्य द्विविधस्यापि नक्षत्रन्यासस्य स्थानानि निरूपयति (प्. ४९०) ऊरुद्वये जानुयुगे जङ्घायुग्मे पदद्वये | अष्टाविंशतिपक्षे तु कण्ठे गण्डद्वयं भवेत् || २३२ || (तारान्यासोपसंहारः, योगिनीन्यासोपदेशश्च (४) ) ऋक्षन्यासं समासाद्य योगिनीन्यासमाचरेत् || २३३ || (तत्र डाकिनीध्यानम्) रक्ताक्षीं रक्तवर्णां पशुजनभयकृच्छूलखट्वाङ्गहस्तां वामे खड्गं दधानां चषकमपि सुधापूरितं चैकवक्त्राम् | अत्युग्रामुग्रदंष्ट्रामरिकुलमथनीं पायसान्नप्रसक्तां कण्ठस्थानेऽमृताज्यैः परिवृतवपुषं भावयेड्डाकिनीं ताम् || २३४ || (डाकिनीन्यासः) स्वरैः पूर्वं ठान्तयुग्मं पाशतुरीयभेदितम् | नादबिन्दुकलायुक्तं बीजद्वयमुदाहृतम् || २३५ || __________________________________________________________________ ललाट इत्यादिना | तथा च ललाटेऽश्विनीं दक्षवामनेत्रयोर्भरणीं कृत्तिकाञ्च, दक्षिणवामकर्णयो रोहिणीं मृगशिरसञ्च, दक्षिणवामनासिकयोरार्द्रां पुनर्वसुञ्चेत्येवं क्रमेण सप्तविंशतिं नक्षत्राणि न्यसेदित्यर्थः | अष्टेति | अभिजितो द्वित्वादत्र पक्षे नक्षत्राणामष्टाविंशतित्वमिति ज्ञेयम् | स्पष्टमन्यत् | एवं नक्षत्रन्यासमभिधाय योगिनीन्यासस्य कर्तव्यत्वमुपदिशति-योगिनीत्यादिना | २३५ | एवं कण्ठे डाकिन्या ध्यानं निरूप्य तत्रैव तन्न्यासमभिधत्ते स्वरैरित्यादिना | पूर्वं स्वरैरकारादिभिश्चतुर्दशभिरुपलक्षितं ठान्तयुग्मं ठान्तो डकारस्तद्युग्मं डकारद्वयमित्यर्थः | तच्च पाश-तुरीयभेदितं पाश आकारस्तुरीयश्चतुर्थस्वर ईकारस्ताभ्यां भेदितं रूपभेदं प्राप्तम्, तथा नादबिन्दुकलायुक्तं बीजद्वयं डां डीमिति बीजद्वयमित्यर्थः | अत्रापि पूर्ववद् बीजयोग इति स्मर्तव्यम् | अनेन प्रथमं ह्रीं क्लीं श्रीं ततः अं इत्यतः ओं इत्यन्ताः स्वराः ततश्च डां डीम् इति प्राप्तम् | (प्. ४९१) ततो डमलवरया वामकर्णविभूषिताः | नादबिन्दुकलायुक्ता डाकिन्यै नम इत्यपि || २३६ || डाकिनीति समुच्चार्य त्वग्धातुतो गते ततः | चतुःषष्टिलक्षकोटियोगिनीस्वामिनीति च || २३७ || सर्वसत्त्ववशङ्करि आज्ञाञ्च देहि मां वदेत् | रक्षद्वयं डाकिनीति पादुकां कण्ठतो न्यसेत् || २३८ || _________________________________________________________________ २३६ | अथावशिष्टमाह तत इत्यादिना | वामकर्णविभूषितत्वं नादबिन्दुकलायुक्तत्वञ्चान्त्यावच्छेदेन, तेन ड म ल व र यूं इति प्राप्तम् | ततो डाकिन्यै नम इति | एवञ्च ह्रीं क्लीं श्रीं इत्यादीनां प्रागुक्तानामेकतमं ततश्च अं आं इं ईं उं ऊं ऋं ॠं ऌं ॡं एं ऐं ओं औं अं अः डां डीं ड म ल व र यूं डाकिन्यै नम इति पर्यवस्यति | २३७-२३८ | अथ डाकिनीपादुकान्यासमाह-डाकिनीति | तथा च डाकिनि त्वग्धातुगते चतुःषष्टिलक्षकोटियोगिनी-स्वामिनि सर्वसत्ववशङ्करि आज्ञां देहि मां रक्ष रक्ष डाकिनीपादुकायै नम इति पर्यवस्यति | कठत इति कण्ठ इत्यर्थः | न्यसेदिति डाकिनीं तत्पादुकाञ्चेत्युभयमेवेत्यर्थः | गन्धर्वतन्त्रे नवमपटले तु स्वरान् पूर्वं समुद्धृत्य चन्द्रबिन्दुसमन्वितान् | ठान्तद्वयं ततः पश्चात् पाशतुरीयभेदितम् | नादबिन्दुकलायुक्तं बीजद्वयमुदीरितम् | ठान्तं भान्तं महीबीजं वारुणं वह्निवायवौ | वामकर्णस्ततो देवि नादबिन्दुकलायुतः | डाकिन्यै नम इत्यन्ते सम्बोध्य डाकिनीं ततः | दुग्धा(त्वग्धा)तुगत इत्युक्त्वा चतुःषष्टिपदं ततः | लक्षकोटिपदस्यान्ते योगिनी-स्वामिनीति च | सर्वसत्त्ववशं ब्रूयात् करिशब्दपदं ततः | आज्ञां मे देहि तत्पश्चान्मम विक्रि(रक्ष)पदद्वयम् | इत्याअदौ प्रायस्तुल्य एव क्रमो दृश्यते | परन्त्वत्र पादुकां कण्ठतो न्यसेदिति (प्. ४९२) (डाकिनीपरिवारदेवतान्यासः) अमृताकर्षिणीन्द्राणी ईशानोमोर्द्ध्वकेशिनी | ऋड्धिदा ऋषिका चैव ऌका ḻऋकैकपादिका | ऐश्वर्यदात्मिका नाम ओङ्कारिणी ततः परम् || २३९ || औषधात्मिका समात्मिका क्षरान्विता स्वरान्विता | परितो विन्यसेन्मन्त्री डाकिनीवद् विभाव्य च || २४० || (राकिणीध्यानम्) श्यामां शूलाब्जहस्तां डमरुकरयुतां तीक्ष्णवज्रं वहन्तीं देवीं रक्तत्रिनेत्रां भृकुटिबलिलसद्दन्तदंष्ट्रप्रभाभिः | दीप्तां तां देवदेवीं हृदयकमलगां रक्तधात्वेकनाथां शुक्लान्ने सक्तचित्तामभिमतफलदां राकिणीं चिन्तयेत्ताम् || २४१ || (राकिणीन्यासः) क-ठवर्णैस्ततो रेफं पूर्ववत् स्वरभेदतः | रमलवरयान् वामकर्णेन्दुभूषितान् वदेत् || २४२ || _________________________________________________________________ दर्शनाद् डाकिन्यै नम इति पूर्वमुक्तत्वाच्च डाकिनीन्यासानन्तरं डाकिनीपादुकान्यासो ग्रन्थकृतामभिमत इति प्रतिभाति | ज्ञानार्णवानुमतस्तन्त्रसारोक्तडाकिनीन्यासक्रमस्तु पृथगेवास्मादिति ज्ञेयम् | २३९-२४० | अथास्याः परिवारयोगिनीनां न्यासमुपदिशति-अमृतेत्यादिना | अत्र स्वरान्विता इति वक्ष्यमाणत्वाद् विशुद्धाख्यपद्मस्य षोडशदलस्थितानामकारादिषोडशस्वराणामेकैकमादौ योजयित्वा अमृतादीनामेकैकामेकैकस्मिन् पत्रे न्यसेदित्यभिप्रायेण परितो विन्यसेदित्युक्तम् | २४२-२४४ | श्यामामित्यादिना राकिण्या ध्यानमुक्त्वा न्यासमाह-क-ठ-वर्णैरित्यादिना | क-ठ-वर्णैः ककारादिठकारान्तवर्णैः | एवञ्च ह्रीं क्लीं श्रीमित्याद्यन्यतमानन्तरं कं (प्. ४९३) राकिणीं ङेयुतां प्रोच्य हृन्मन्त्रञ्च ततः परम् | राकिण्यसृग्धातुगते द्वात्रिंशल्लक्षकोटितः || २४३ || योगिनी-स्वामिनीत्युक्त्वा सर्वसत्त्ववशङ्करि | आज्ञाञ्च देहि मां पश्चाद्रक्षद्वन्द्वञ्च राकिणीम् || २४४ || (राकिणीपरिवारदेवतान्यासः) अनाहते न्यसेत् पश्चात् परितः क-ठ-वर्णकैः | कालरात्रिः खातिता च गायत्री घण्टिका ततः || २४५ || ङा वृश्चिका च चामुण्डा छाया जया तथैव च | झङ्कारिणी तथा ज्ञाना टङ्कहस्ता च विन्यसेत् || २४६ || ठङ्कारी च क्रमादेता ध्यात्वा वीरश्च पूर्ववत् | द्वादशारे ततो मन्त्री ध्यायेद्देवीञ्च लाकिनीम् || २४७ || ________________________________________________________________ खं गं घं ङं चं छं जं झं ञं टं ठं रां रीं र म ल व र यूं राकिण्यै नमः इति | ततः परञ्च राकिण्यसृग्धातुगते द्वात्रिंशल्लक्षकोटियोगिनी-स्वामिनि सर्वसत्त्ववशङ्करि आज्ञां देहि मां रक्ष रक्ष राकिणीपादुकायै नमः इति न्यसेदिति फलितम् | अत्र राकिणीमित्येतन्मात्राभिधानेऽपि पादुकापदप्रयोगः पूर्वोक्तक्रमादवगन्तव्यः | २४५-२४७ | अथ राकिणीपरिवारदेवतान्यासमाह-अनाहत इत्यादिना | अनाहते न्यसेदित्यस्य पूर्वेणापि सम्बन्धः | अनाहते द्वादशारे हृत्पद्मे | क-ठ-वर्णैरिति | प्रागुक्तक्रमेण पद्मकर्णिकायां राकिणीं न्यस्य परितो द्वादशदलेष्वित्यर्थः, क-ठ-वर्णकैः ककारादिठकारान्तद्वादशवर्णैः पूर्वयोजितैः कालरात्र्यादिद्वादशदेवता न्यसेदित्यर्थः | एवञ्च कं कालरात्र्यै नमः, खं खातितायै नमः, गं गायत्र्यै नमः, घं घण्टिकायै नमः, ङं वृश्चिकायै नमः इत्यादिक्रमेण ठाङ्कार्यन्ता न्यसेदिति ज्ञेयम् | कुत्रेत्याह-द्वादशार इति | अनाहत इत्यर्थः | अथ लाकिनीध्यानमुद्दिशति ध्यायेद्देवीञ्च लाकिनीमित्यन्तेन | (प्. ४९४) (लाकिनीध्यानम्) कृष्णां देवीं त्रिवक्त्रां त्रिनयनललितां ष्ट्रिणीमुग्ररूपां वज्रं शक्तिं सुदण्डामभयवरकरां दक्षवामे दधानाम् | ध्यात्वा नाभिस्थपद्मे दशदलविलसत्कर्णिके लाकिनीं तां मांसस्थां गौडभक्तोत्सुकहृदयवतीं चिन्तयेत् साधकेन्द्रः || २४८ || (लाकिनीन्यासः) डादिफान्तं ततो लां लीं लमलवरयांस्ततः | वामकर्ण-समायुक्ता/ल्लाकिन्यै नम इत्यपि || २४९ || लाकिनीति वदेन्मन्त्री मांसधातुगते ततः | षोडशाल्लक्षकोटिश्च पूर्ववन्मणिपूरके || २५० || (लाकिनीपरिवारदेवतान्यासः काकिनीध्यानोपदेशश्च) डाकिनी चैव ढङ्कारी णाकिनी च तपस्विनी | थानवी दक्षिणा धात्री नादा च पार्वती तथा || २५१ || फट्कारिणी क्रमादेता ध्यात्वा न्यसेत् समाहितः | डादिफान्तेन संयुक्ता अथ ध्यायेच्च काकिनीम् || २५२ || ________________________________________________________________ २४८ | वज्रमिति दक्षवामे क्रमेण वज्रं शक्तिं दधानामिति सम्बन्धः | दशदलविलसत्कणिके इति विशेषणेन मणिपूरकमल-कर्णिकायां लाकिन्या ध्येयत्वं सूचितम् | गौडेति | गुडमिश्रितभक्ष्यभक्षणोत्कण्ठितचित्तामित्यर्थः | २४९-२५० | डादिफान्तमित्यादि | तथा च पूर्ववत् ह्रीं श्रीमित्याद्यन्यतममुच्चार्य डं ढं णं तं थं दं धं नं पं फं लां लीं ल म ल व र यूं लाकिन्यै नमः इति | ततश्च लाकिनि मांसधातुगते षोडशलक्षकोटियोगिनी-स्वामिनि सर्वसत्त्ववशङ्करि आज्ञां देहि मां रक्ष रक्ष लाकिनीपादुकायै नमः इति मणिपूरे न्यसेदित्यापतति | २५१-२५२ | अथ मणिपूरदशदलेषु लाकिनीपरिवाराणां दशानां न्यासमाह (प्. २९५) (काकिनीध्यानम्) स्वाधिष्ठानाख्यपद्मे रसदलविलसत्काकिनीं मेदसंस्थां पाशं शूलं वहन्तीं डमरुकमभयं धारिणीं पीतवर्णाम् | दध्यन्नासक्तचित्तां सुरवरनमितां काकिनीं मत्तचित्तां षट्पत्रैर्बादिलान्तैः परिवृतवपुषं भावयेद् योगिनीं ताम् || २५३ || (काकिनीन्यासः) बादिलान्तं तथा कां कीं कमलवरयूमथ | काकिन्यै नम इत्यन्ते मेदोधातुगते ततः || २५४ || अष्टलक्षयोगिनीभिः स्वाधिष्ठाने प्रविन्यसेत् | शेषं पूर्ववदुद्धृत्य (काकिनीपरिवारदेवतान्यासः) बादिलान्तैः क्रमेण तु || २५५ || वज्रिणी भद्रकाली च महामाया यशस्विनी | रामा लम्बोदरीत्येताः काकिनीवत् प्रविन्यसेत् || २५६ || _________________________________________________________________ डाकिनीत्यादिना | डादिफान्तेन संयुक्ता डाकिन्याद्या न्यसेदित्यर्थः | एवञ्च डं डाकिन्यै नमः ढं ढङ्कार्यै नमः, णं णाकिन्यै नमः इत्यादिरूपः प्रयोगक्रमः पर्यवस्यति | २५४-२५६ | एवं काकिन्या ध्यनमुक्त्वा न्यासमाह-बादिलान्तमित्यादिना | एवञ्च ह्रीं क्लीं श्रीमित्याद्यन्यतमानन्तरं बं भं मं यं रं लं कां कीं क म ल व र यूं काकिन्यै नमः इति | ततश्च काकिनि मेदोधातुगतेऽष्टलक्षयोगिनी-स्वामिनि सर्वसत्त्ववशङ्करि आज्ञां देहि मां रक्ष रक्ष काकिनीपादुकायै नमः इति स्वाधिष्ठाने न्यसेत् | अत्राष्टलक्षयोगिनीभिरित्यन्तमभिधाय शेषं पूर्ववदुद्धृत्येत्यनेनावशिष्टांशस्य संग्रह उक्त इति | अथास्याः परिवारदेवतान्यासमाह-बादिलान्तैरित्यादिना | तथा च बं वज्रिण्यै नमः, भं भद्रकाल्यै नमः इत्यादिक्रमेण स्वाधिष्ठानकमलषड्दलेषु न्यसेदित्यर्थः | (प्. ४९६) (साकिनीध्यानम्) देवीं ज्योतिःस्वरूपां त्रिनयनविलसत्पञ्चवक्त्राभिरामां हस्तैश्चापेषुपाशान् सृणिमपि दधतीं पुस्तकं ज्ञानमुद्राम् | मूलाधारस्थपद्मे निखिलपशुजनोन्माथिनीमस्थिसंस्थां दुग्धान्ने प्रीतियुक्तां मधुमदमुदितां साकिनीं भावयेत्ताम् || २५७ || (साकिनीन्यासः) एवं ध्यात्वा तु मन्त्रज्ञो वादिवर्णं समुद्धरेत् | सां सीं स म ल व र यूं शाकिनीं ङेयुतां वदेत् || २५८ || हृन्मन्त्रञ्च समुच्चार्य अस्थिधातुगते ततः | चतुर्लक्षयोगिनी च कोट्याधारे च पूर्ववत् || २५९ || (शाकिनीपरिवारदेवतान्यासः) वरदा श्रीः षण्डिका च सरस्वतीति विन्यसेत् | वादिवर्णसमायुक्ता ध्यात्वैताः पूर्ववद् बुधः || २६० || (हाकिनीध्यानम्) बिन्दुस्थां शुक्लवर्णां डमरुकरयुतामक्षसूत्रं कपालं विद्यां मुद्रां दधानां त्रिनयनविलसद्वक्त्रषट्केन युक्ताम् | २५८-२५९ | शाकिन्या ध्यानमुक्त्वा न्यासमाह-वादिवर्णमित्यादिना | अत्रापि पूर्ववत् ह्रीं क्लीं श्रीं इत्यनन्तरं वं शं षं सं सां सीं श म ल व र यूं शाकिन्यै नमः इति | ततश्च शाकिन्यस्थिधातुगते चतुर्लक्षकोटियोगिनी-स्वामिनि सर्वसत्त्ववशङ्करि आज्ञां देहि मां रक्ष रक्ष शाकिनीपादुकायै नमः इति मूलाधारे पूर्ववन्न्यसेत् | पूर्ववदित्यनेनावशिष्टांशस्य संग्रह उक्तः | २६० | अथास्याः परिवारदेवतान्यासमाह-वरदेत्यादिना | वादिवर्णसमायुक्ता वरदाद्याश्चतस्रो मूलाधारपद्मे पूर्ववन्न्यसेदिति सम्बन्धः | एवञ्च वं वरदायै नमः, शं श्रिये नमः इत्यादिरूपः प्रयोगक्रमः | (प्. २९७) हारिद्रान्न प्रसक्तां मधुमदमुदितां शुक्लमज्जास्वरूपां देवीं देवेन्द्ररत्नाकर नतिमुदितां भावयेत्तां विशुद्धाम् || २६१ || (हाकिनीन्यासः) हं क्षं हां हीं च ह म ल वरयुञ्च समुद्धरेत् | हाकिनीं ङेयुतां प्रोच्य नम्ःकारं वदेद् बुधः || २६२ || मज्जाधातुगते चैव द्विलक्षकोटियोगिनी | स्वामिनीति पदं पश्चात् सर्वसत्त्वादिकांस्ततः || २६३ || (परिवारन्यासः) पूर्ववद् विन्यसेन्मन्त्री ह-क्षाभ्यान्तु क्रमेण तु | सरस्वतीं क्षमाञ्चैव हाकिनीवद् विभावयन् || २६४ || _________________________________________________________________ २६१ | बिन्दुस्थामिति | भावयेत् भ्रूमध्ये आज्ञाचक्रे द्विदले इत्यर्थः | २६२-२६३ | अथ न्यासमाह हं क्षमित्यादिना | तथा चात्रापि पूर्ववत् ह्रीं क्लीं श्रीमित्याद्यन्यतमानन्तरं हं क्षं हां हीं ह म ल व र यूं हाकिन्यै नमः इति | ततश्च हाकिनि मज्जाधातुगते द्विलक्षकोटियोगिनी-स्वामिनि सर्वसत्त्ववशङ्करि आज्ञां देहि मां रक्ष रक्ष हाकिनीपादुकायै नम इत्याज्ञाचक्रे न्यसेदिति फलितम् | २६४ | अथैतत्परिवारदेवतान्यासमाह-ह-क्षाभ्यामित्यादिना | तथा च हं सरस्वत्यै नमः, क्षं क्षमायै नमः इति भ्रूमध्ये द्विदले न्यसेत् | हाकिनीवद् विभावयन्निति | एतेन तत्तद्देवतापरिवारयोगिनीनामपि तत्तत्प्रधानयोगिनीरूपत्वमुन्नेयम् | अत्रेदमवधेयम्-विशुद्धादितो मूलाधारक्रमेणाऽज्ञाचक्रपर्यन्तं तत्तच्चक्रदलपरिमाणेनाकारादिक्षकारान्तमातृकावर्णानाम-वस्थित्या दलसंख्यकमातृकावर्णपूर्वको डाकिन्यादीनां प्रधानयोगिनीनां न्यासः | तत्र तत्र पद्मे पत्रसमसंख्याकानां तत्तत्परिवारयोगिनीनान्तु पत्रेष्वेकैकाक्षरपूर्वक इति | पूर्वं षष्ठे प्रकाशे वसेदत्र देवी च डाकिन्यभिख्येत्यादिना डाकिन्यादीनां मूलाधारादिस्थानानि निरूपितानि | न्यासे तु ततः क्रमभेद इति सुधीभिरवधेयम् | (प्. २९८) (योगिनीन्यासस्य प्रस्थानान्तरम्) अथापरः प्रकारश्च कुलामृतमये(ते) तथा | ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा || २६५ || वाराही च तथेन्द्राणी चामुण्डा सप्तमी भवेत् | अष्टमी च महालक्ष्मीर्वर्गाष्टाद्याः क्रमोदिताः || २६६ || (एतन्न्यासयोग्यान्यङ्गानि) शिरोवदनकण्ठेषु हृदि नाभौ तथैव च | लिङ्गे गुदे पादयोश्च क्रमादेता न्यसेदिति | योगिनीन्यास उद्दिष्टः सर्वपापनिकृन्तनः || २६७ || (राशिन्यासस्य कर्तव्यतोपदेशः (५)) राशिन्यासं ततः कुर्यात् सर्वरक्षाकरं सदा || २६८ || (राशीनां वर्णाः) रक्तश्वेतहरिद्राभपाण्डुचित्रासितान् स्मरेत् | पिशङ्गपिङ्गलौ बभ्रुकर्चूरसितधूम्रभाः || २६९ || _________________________________________________________________ २६५-२६६ | अथ कुलामृतानुसारेण योगिनीन्यासस्य क्रमान्तरं दर्शयितुमुपक्रमते- अथेत्यादिना | ब्राह्मीति | अत्र कल्पे ब्राह्म्याद्यानां महालक्ष्म्यन्तानां योगिनीनामष्टानां पूर्वं क्रमेणाष्टौ वर्गान् संयोज्य न्यसेदिति वक्ष्यमाणेन सम्बन्धः | २६७ | एतन्न्यासयोग्यान्यङ्गान्याह-शिर इत्यादिना | क्रमात् शिर-आदिषु पदान्तेष्वङ्गेषु एता ब्राह्म्यादियोगिनीर्न्यसेदित्यर्थः | एवञ्च अं आं इं ईं उं ऊं ऋं ॠं ऌं ॡं एं ऐं ओं औं अं अः ब्राह्म्यै नम इति शिरसि, कं खं गं घं ङं माहेश्वर्यै नम इति वदने, इत्यादिरूपो न्यासक्रमः पर्यवस्यति | उपसंहरति-योगिनीत्यादिना | २६८ | राशिन्यासमवतारयति-राशीत्यादिना | तत इति निरुक्तयोगिनीन्यासानन्तरम् | २६९ | मेषादिराशीनां वर्णभेदानाह-रक्तेत्यादिना | एवञ्च मेषो रक्तः, वृषः श्वेतः | एवं क्रमेण मेषादिवर्णभेदा अवगन्तव्याः | (प्. ४९९) (न्यासपरिपाटी) अकारादिचतुर्वर्णैर्मेषं दक्षिणगुल्फके | द्वन्द्वेन जानुनि वृषं वेदैर्मिथुनमण्डके || २७० || द्वाभ्यां कर्कटकं कुक्षौ द्वन्द्वेनांसे च सिंहकम् | बिन्दु-सर्ग-शवर्गैस्तु कन्यकां दक्षमस्तके || २७१ || वाममस्ते कवर्गेण तुलाख्यं वृश्चिकं ततः | चवर्गेण तथा स्कन्धे कुक्षौ टाद्यैश्च धन्विनम् || २७२ || __________________________________________________________________ २७० | न्यासस्य क्रमं दर्शयति अकारेत्यादिना | अत्रापि पूर्वं ह्रीं क्लीं श्रीमित्याद्यन्यतमबीजयोगः पूर्ववदुन्नेयः | एवञ्च दक्षिणगुल्फे (१) ह्रीं क्लीं श्रीं अं आं इं ईं मेषराशये नमः | (२) ऐ/ ह्रीं श्रीं अं आं इं ईं मेषराशये नमः | (३) ऐ/ ह्रीं श्रीं अं आं इं ईं मेषराशये नमः ऐ/ ह्रीं श्रीं | (४) क्लीं ह्रीं श्रीं अं आं इं ईं मेषराशये नमः | इत्यन्यतमरूपो न्यासक्रमो बोध्यः | एवं वृषादिष्वपि ज्ञेयम् | यथा एषामन्यतममुच्चार्य उं ऊं वृषराशये नम इति दक्षजानुनि | ऋं ॠं ऌं ॡं मिथुनराशये नम इति दक्षवृषणे | २७१ | द्वाभ्यामिति | एं ऐ/ कर्कटराशये नम इति दक्षकुक्षौ | ओं औं सिंहराशये नम इति दक्षस्कन्धे | बिन्द्विति | बिन्दुरनुस्वारः, सर्गो विसर्गः, शवर्गः श ष स ह ल क्षेति वर्णषट्कम् | एवञ्च अं अः शं षं सं हं लं क्षं कन्याराशये नम इति दक्षमस्तके, मस्तकस्य दक्षिणांशे इत्यर्थः | २७२ | वाममस्त इति | एवञ्च कं खं गं घं ङं तुलाराशये नम इति वाममस्तके | चवर्गेणेति | चं छं जं झं ञं वृश्चिकराशये नम इति वामस्कन्धे | टाद्यैरिति | टं ठं डं ढं णं धनूराशये नम इति वामकुक्षावित्यर्थः | (प्. ५००) मकरन्तु तवर्गेण वृषणे विन्यसेत्ततः | पवर्गेण तथा कुम्भं वामजानुनि विन्यसेत् || २७३ || यवर्गश्च सवर्णे तु मीनाख्यं वामगुल्फके || २७४ || (राशीनां वर्णनिरूपणे क्रमान्तरम्) चाप-नीरज-युक्-कन्याः पीताः स्युरुभयोस्त्वमी | तुलामकरमेषाख्यकुलीरा रक्तरोचिषः | चराः शेषाश्च चत्वारः स्थिराः श्वेताः पृथङ्मताः || २७५ || (न्यासस्थाननिरूपणे क्रमभेदः) दक्षपादे तथा लिङ्गे दक्षकुक्षौ तथा हृदि | दक्षपाणौ दक्षशिरःपार्श्वे वामे तथैव च || २७६ || शिरःपार्श्वे तथा वामे भुजे च हृदि वामतः | वामकुक्षौ तथा लिङ्गे वामपादे न्यसेच्च वा || २७७ || __________________________________________________________________ २७३ | मकरमिति | तं थं दं धं नं मकरराशये नम इति वामवृषणे | पवर्गेणेति | पं फं बं भं मं कुम्भराशये नम इति वामजानुनि | २७४ | यवर्गश्चेति | अत्र ज्ञानार्णवे चतुर्दशपटले, गन्धर्वतन्त्रे नवमपटले च यवर्गेण क्षकारेण मीनं वामेऽथ गुल्फके | इत्यभिधानात् यं रं लं वं क्षं मीनराशये नम इति वामगुल्फे न्यसेदिति लभ्यते | तन्त्रसारे यं रं लं वमित्येतावन्मात्रमातृकायोगो दृश्यते | अत्र यवर्गश्च सवर्णे तु चवर्गचरमार्णैस्तु इत्येतत् पादद्वयमेव प्रामादिकमिति प्रतिभाति | २७५ | राशीनां वर्णभेदस्य न्यासस्थानानाञ्च प्रस्थानान्तरं प्रदर्शयन् आदौ वर्णभेदानाह-चापेत्यादिना | २७६-२७७ | दक्षपाद इति | कल्पेऽस्मिन् पूर्वोक्तक्रमेणैव बीजानि वर्गांश्च संयोज्य दक्षपादे मेषम्, लिङ्गदक्षांशे वृषम्, दक्षकुक्षौ मिथुनम्, हृदौ दक्षांशे कर्कटम्, (प्. ५०१) (पीठन्यासः (६) ) पीठानि विन्यसेत् पश्चात् सर्वकर्ममयाणि च | (तत्र पीठानां वर्णनिर्णयः) सितारुणश्यामहरित्पीतान्यनुपमा क्रमात् || २७८ || पुनः पुनः क्रमेणैव पञ्चाशत्पीठसञ्चयः | पीठानि संस्मरेन्मन्त्री सर्वकामार्थसिद्धये || २७९ || (पीठानां नामानि) कामरूपं महापीठं पीठं वाराणसीं ततः | नेपालञ्च महापीठं पीठं वै पौण्ड्रवर्द्धनम् || २८० || _________________________________________________________________ दक्षपाणौ सिंहम्, शिरसो दक्षपार्श्वे कन्याम्, वामपार्श्वे तुलाम्, वामपाणौ वृश्चिकम् | हृदो वामांशे धनुषम्, वामकुक्षौ मकरम्, लिङ्गस्य वामांशे कुम्भम्, वामपादे च मीनं न्यसेदिति पूर्वतो भेदः | २७८-२७९ | एवं षोढान्यासाङ्गभूतं गणेशादिन्यासप्ञ्चकमभिधाय चरमं पीठन्यासमाह-पीठानीत्यादिना | तत्र प्रथमं पीठानां वर्णभेदान् निर्वक्ति-सितेत्यादिना | पुनः पुनः सितारुणेत्याद्यावृत्या पीठानां वर्णा निर्णेया इत्यर्थः | तत्र तन्त्रसारे सितासितारुणश्यामहरित्पीतान्यनुक्रमात् | पुनः पुनः क्रमाद्देवि पञ्चाशत्स्थानसञ्चयः | श्यामान् वराभयकरान् सर्वालङ्कारभूषितान् || इति पीठध्यानमुक्तम् | मूले अनुपमेत्यनेन पीठानीत्यस्यान्वयानुपपत्तेरनुपमालक्षणवर्णाभावाच्चा-नुपमेति पाठश्चिन्त्यः | २८० | पीठानां संज्ञाभेदानाह-कामरूपमित्यादिना | अत्र पञ्चाशन्मातृकार्णं न्यसेत् क्रमादित्यभिधानाद् एकैकमातृकापूर्वकम् एकैकपीठं न्यसेदिति बोध्यम् | अत्रापि पूर्ववद् बीजयोगः | एवञ्च (१) ह्रीं क्लीं श्रीं अं कामरूपपीठाय नमः इत्येकः क्रमः | (प्. ५०२) पुरस्थितं महापीठं चरस्थिरमतः परम् | पूर्णशैलं महापीठम् अर्वुदञ्च तथाऽपरम् || २८१ || आम्रातकेश्वरं पीठम् एकाम्रञ्च तथाऽपरम् | त्रिस्रोतःपीठममलं कामकोट्टमतः परम् || २८२ || कैलासं भृगुपीठञ्च केदारं चन्द्रपीठकम् | श्रीपीठञ्च तथोङ्कारं जालन्धरमतः परम् || २८३ || मालनञ्च तथा पीठं कुलान्तं देविकोट्टकम् | गोकर्णाख्यं महापीठं मारुतेश्वरमेव च || २८४ || अट्टहासञ्च विरजं राजगृहं महापथम् | कोल्लगिर्यभिधं पीठमेलापुरमतः परम् || २८५ || कामेश्वरं महापीठं महापीठं जयन्तिका | पीठमुज्जयिनी चैव विचित्रं क्षीरिकाभिधम् || २८६ || हस्तिनापुरकं पीठमुड्डीशाख्यं प्रयागकम् | कान्यकुब्जं महापीठं मायापुरजलेश्वरौ || २८७ || __________________________________________________________________ (२) ऐ/ ह्रीं श्रीं अं कामरूपपीठाय नमः इति द्वितीयः | (३) ऐ/ ह्रीं श्रीं अं कामरूपपीठाय नमः ऐ/ ह्रीं श्रीं इति तृतीयः | (४) श्रीं ह्रीं क्लीं अं कामरूपपीठाय नमः इति चतुर्थः | एवं वाराणस्यादिपीठानामपि पूर्वमेवंक्रमेणैव ह्रीं क्लीं श्रीमित्याद्यन्यतमबीजयोगं विधाय आं वाराणसीपीठाय नमः, इं नेपालपीठाय नम इत्यादिक्रमेण एकैकसबिन्दुमातृकापूर्वकं मातृकास्थानेषु न्यसेत् | तदुक्तं ज्ञानार्णवे चतुर्दशपटले पञ्चाशत्पीठविन्यासं मातृकावन्न्यसेत् सदा | इति | अत्र योगिनीहृदय-ज्ञानार्णव-गन्धर्वादितन्त्रेषु पीठानां नामनिरूपणे परस्परं वैरूप्यं दृश्यते, तच्च तत्तदाकरेभ्योऽवगन्तव्यम् | (प्. ५०३) मलयञ्च महापीठं श्रीशैलाह्वयमेव च | मेरुगिर्याख्यपीठञ्च पीठं गिरिवरं ततः || २८८ || महेन्द्रं वामनं पीठं हिरण्यपुरमेव च | महालक्ष्मीपुरं पीठमुड्डियानाख्यमुत्तमम् || २८९ || छायाच्छत्रञ्च पञ्चाशन्मातृकार्णं न्यसेत् क्रमात् | (षोढान्यासोपसंहारः) षोढान्यासमिमं मन्त्री न्यसेत् साक्षात् स्वयं शिवः || २९० || (पीठन्यासप्रशस्तिः) नास्त्यस्य पूज्यो लोकेऽस्मिन् पितृमातृमुखो जनः | एवं ये न्यस्तदेहास्ते संपूज्याः सर्वयोगिभिः || २९१ || (पीठन्यासाकरणे दोषः) षोढान्यासविहीनो यः प्रणमेद् यदि साधकः | सोऽचिरान्मृत्युमाप्नोति नरकञ्च प्रपद्यते || २९२ || (अथ सशक्तिककामन्यासः) कामन्यासमथो वक्ष्ये त्रैलोक्यक्षोभकारकम् || २९३ || _________________________________________________________________ २९० | पञ्चाशदिति | पञ्चाशन्मातृकावर्णस्वरूपं पञ्चाशत्पीठकं न्यसेदित्यर्थः | एवञ्च मातृकाणां कामरूपादितत्तत्पीठस्वरूपत्वादेव तत्र तत्र योग उपदिष्टः | योगिनीहृदयेऽपि पूजासङ्केतप्रतिपादके तृतीयपटले- कामरूपादिच्छायाच्छत्रान्त्रपीठनिरूपणानन्तरम् एते पीठाः समुद्दिष्टा मातृकारूपकाः स्थिताः | इत्यनेन मातृकारूपत्वं पीठानां व्यक्तमभिहितम् | एतेन गणेशादीनां पूर्वं प्रयोज्या मातृका अपि व्याख्याताः | षोढेति | यदि न्यसेत्तदा साक्षात् शिवो भवेदिति सम्बन्धः | मातृका अपि व्याख्याताः षोढेति | यदि न्यसेत्तदा साक्षात् शिवो भवेदिति सम्बन्धः | २९२ | साधकः षोढान्याससाधको यदि प्रणमेत् तदा षोढान्यासविहीनो यः सोऽचिरान्मृत्युमाप्नोतीति सम्बन्धः | २९३-२९६ | एवं गणेशादिपीठान्तषोढान्यासमभिधाय कामन्यासं वक्तुमुप- (प्. ५०४) (तत्र कामध्यानम्) दाडिमीकुसुमाकारान् कामान् मोहनरूपकान् | पुष्पबाणेषुकोदण्डशोभिताञ्छक्तिसंयुतान् || २९४ || (कामशक्तिध्यानम्) सर्वालङ्कारसंयुक्ताः शक्तीः कुसुम्भसन्निभाः | नीलोत्पलकराश्चैव त्रैलोक्याकर्षणक्षमाः || २९५ || (पूर्वतो बीजयोगः) काम-माया-रमाबीजैर्मातृकार्णैस्तनौ न्यसेत् || २९६ || (न्यसनीयदेवतानामानि) कामयुक्ता रतिश्चैव कामः प्रीतिश्च कान्तकः | कामिनी सह वै भ्रान्तो मोहिन्या सहितस्ततः || २९७ || कामधुक् कमलायुक्तः कामचारो विलासिनी | कर्णकल्पलते चैव कोमलः श्यामलान्वितः || २९८ || शुचिस्मिता कामयुक्तः कामवर्द्धनसंज्ञकः | विस्मयासहितो रामो विशालाक्षीयुतो रसः || २९९ || ________________________________________________________________ क्रमते-कामेत्यादिना | तत्र प्रथममेव साधकानामभिमुखीकरणाय प्रशस्तिमाह-त्रैलोक्येति | न्यासादौ न्यसनीयानां कामानां ध्यानमाह-दाडिमीत्यादिना शक्तिसंयुतानित्यन्तेन | शक्तीनामपि रत्यादीनां ध्यानमाह-सर्वेत्यादिना | एतेन वक्ष्यमाणक्रमेण सशक्तिकानामेव कामानां न्यासः कर्तव्य इति सूचितम् | कामेति | पूर्वोक्ततत्तद्विशेषणविशिष्टवक्ष्यमाणकामतच्छक्तीः काममायारमाबिजैर्मातृकार्णैश्च तनौ न्यसेदिति सम्बन्धः | तत्र कामः क्लीं, माया ह्रीं, रमा च श्रीमिति तैः | मातृकार्णैः अकारादिक्षकारान्तैर्मातृकावर्णैः पूर्वं नियोजितैरित्यर्थः | २९७-३१० | निरुक्तक्रमपूर्वकं न्यसनीयानां कामतच्छक्तीनां नामानि निर्वक्ति (प्. ५०५) विमलो लोहिता युक्तो रतिनाथदिगम्बरे | रतिप्रियश्च रामा च रात्रिनायककुब्जिके || ३०० || स्मरेण सहिता कान्ता रमणो नित्यया युतः | निशाचरश्च कल्याणी नन्दनो भोगिनीयुतः || ३०१ || नन्दीशः कामदायुक्तो मदनश्च सुलोचना | सुलावण्यायुतश्चैव तथानन्दयिताभिधः || ३०२ || निशाचरश्च मर्दिन्या रतिहंसस्तु तत्परम् | कलहः प्रियया युक्तः पुस्पधन्वा च काङ्क्षिणी || ३०३ || महाधनुश्च सुमुखी ग्रामणीर्नलिनीयुतः | भीमश्च जटिनीयुक्तो भ्रामणः पालिनीयुतः || ३०४ || भ्रमणः शिखिनीयुक्तः श्यामदुग्धे ततः परम् | भ्रामणो रमया युक्तो भृगुर्भूमिसुसंवृतः || ३०५ || भ्रान्तश्चासवलोला च भ्रमावहसु चञ्चले | मोहनो दीर्घजिह्वा च मेचकेन युता मतिः || ३०६ || __________________________________________________________________ कामयुक्तेत्यादिना | एवञ्च क्लीं ह्रीं श्रीं अं कामरतिभ्यां नमः | क्लीं ह्रीं श्रीं आं कामप्रीतिभ्यां नमः | क्लीं ह्रीं श्रीं इं कान्तकामिनीभ्यां नमः | इत्येवं क्रमेण न्यसेदिति पर्यवस्यति | न्यासस्तु पूर्ववन्मातृकास्थानेषु कर्तव्यः | तदुक्तं ज्ञानार्णवे चतुर्दशपटले मातृकार्णैर्न्यसेद्देवि मातृकावत् सदाऽनघे | इति | स्पष्टमन्यत् | (प्. ५०६) लोलाक्षीसहितो गुह्यो मोहवर्द्धनभृङ्गिणी | मोहकश्च चपेटा च मन्मथो नाथया युतः || ३०७ || मातङ्गो मालिनीयुक्तो भृङ्गिणा कलहंसिनी | गायकेन समायुक्ता तथा वै विश्वतो मुखी || ३०८ || गजनन्दिकया युक्तो गीतश्च तदनन्तरम् | नर्तकः सह रञ्जिन्या लेखः कान्तिसमन्वितः || ३०९ || उन्मत्तः कलकण्ठी च कनकश्च वृकोदरी | श्यामया सहितो मेघो विमलश्च श्रिया सह || ३१० || (एतन्न्यासोपसंहारः) अनेन न्यासयोगेन त्रैलोक्यक्षोभको भवेत् || ३११ || (अथ नवयोनिन्यासोपदेशः) बालाबीजत्रयावृत्त्या नवयोनिं न्यसेत्ततः | श्रोत्रयोश्चिबुके शङ्खद्वये वदनके दृशोः || ३१२ || _________________________________________________________________ ३१२ | अथ नवयोनिन्यासमाह-बालेत्यादिना | अत्र श्रोत्रादिकण्ठान्तेषु सप्तविंशतिस्थानेषु बालाबीजानाम् ऐ/ क्लीं सौरित्येतल्लक्षणानां त्रयावृत्त्या त्रिरावृत्येत्यर्थः | यद्वा बालाबीजत्रयस्य आवृत्त्या त्रिरावृत्येत्यर्थः | नवयोनिं न्यसेदिति सम्बन्धः | अनेनैतदुक्तं भवति निरुक्तानि श्रोत्रादीनि कण्ठान्तानि नवयोनिस्थानानि सप्तविंशतिसंख्याकानि | बालाबीजत्रयस्य च त्रिरावृत्तौ सप्तविंशतिर्बीजानि भवन्ति | तेषु च क्रमेणैकैकं बीजं निरुक्त एकैकस्मिन् स्थाने न्यसेदिति | एवञ्च दक्षकर्णे ऐ/ नमः वामकर्णे क्लीं नमः, चिबुके सौः नमः | पुनर्दक्षगण्डे ऐ/ नमः, वामगण्डे क्लीं नमः | मुखे सौः नमः | एवंक्रमेणान्येष्वपि स्थानेष्वेकैकं बीजं न्यसेदिति फलितम् | न च बालाबीजत्रयावृत्त्येत्यनेन प्रत्यङ्ग बीजत्रयेण न्यास उपदिष्ट इति वाच्यम्, नवयोन्यात्मकं न्यासं कुर्याद् बीजैस्त्रिभिः क्रमात् | (प्. ५०७) नासायामंसयुगले हृदये कूर्परद्वये | उदरे जानुयुगले लिङ्गमूले पदद्वये || ३१३ || गुह्ये पार्श्वद्वये चैव उरसि स्तनयुग्मके | कण्ठे च नवयोन्याख्यं न्यसेत् साधकसत्तमः || ३१४ || बालाबीजत्रयेणैव चतुरस्रं विभाव्य च | गोलकन्यासयोगेन श्रीचक्रं परिचिन्तयेत् || ३१५ || षट्चक्रे च ललाटे च सीमन्ते तच्छिरोविले | नव स्थानानि सङ्कल्य विन्यसेत् साधकोत्तमः || ३१६ || _________________________________________________________________ इत्यादितन्त्रसारधृतनिबन्धतन्त्रवचने क्रमादित्यनेन एकैकबीजयोगस्योक्तत्वात् | अत एव तन्त्रसारकारैरपि आद्यबीजं दक्षकर्णे द्वितीयबीजं वामकर्णे तृतीयबीजं चिबुके इत्यादिना एकैकबीजयोगः स्पष्टमभिहितः | त्रिपुरार्चनरहस्येऽप्येवमेव | शङ्खद्वये गण्डद्वय इत्यर्थः | ३१५-३१६ | ततः करणीयमाह-बालेति | एवं नवयोनिन्यासं विधाय बालाबीजत्रयेण श्रीचक्रं चतुरस्रं विभाव्य पुनर्बालयैव गोलकत्वेन श्रीचक्रं परिचिन्तयेदिति सम्बन्धः | अत एव तन्त्रसारकारैरपि बालया त्रिपुरेशान्या नवयोन्यात्मकं न्यसेत् | इति प्रक्रम्य प्रयोगस्तु भैरवीप्रकरणे उक्त इत्यभिधाय च पुनर्बालां समुच्चार्य गोलकत्वेन विन्यसेत् | पुनर्बालाम् समुच्चार्य चतुरस्रं विचिन्तयेत् || इत्यनेन निरुक्तचतुरस्रादिचिन्ताया नवयोनिन्यासाङ्गत्वमुक्तम् | षट्चक्रेति | प्रागुक्तक्रमानुष्ठानानन्तरं बालबीजत्रयेण मूलाधारादिषु न्यसेदिति ज्ञेयम् | एवञ्च मूलाधारे ऐ/ क्लीं सौः नमः | पुनः स्वाधिष्ठाने ऐ/ क्लीं सौः नमः | एवंक्रमेण मणिपूरादिचक्रचतुष्टये ललाट-सीमन्त-शिरोविलेषु च न्यसेदिति फलितम् | (प्. ५०८) (श्रीविद्यान्यासः) श्रीविद्यां ब्रह्मरन्ध्रे तु पृष्ठतो गुह्यतः क्रमात् | मन्त्रवर्णं न्यसेत् पश्चादेकैकक्रमभेदतः || ३१७ || मस्तके गुह्यदेशे च हृदि नेत्रत्रयेऽपि च | कर्णयोर्वदने हस्तद्वये पृष्ठे ततः परम् | जानुद्वये नाभिदेशे संपूर्णं ब्रह्मरन्ध्रके || ३१८ || (तिथिनित्यान्यासः) तिथिनित्या न्यसेत् पश्चान्मातृकास्वरसंयुताः | एकैकक्रमयोगेण साधकः स्थिरमानसः || ३१९ || _________________________________________________________________ ३१७-३१८ | श्रीविद्यामिति | ब्रह्मरन्ध्रे पृष्ठे गुह्ये च, क ए ई ल ह्रीमित्यादिपञ्चदशाक्षरश्रीविद्यां न्यसेदित्यर्थः | मन्त्रवर्णमिति | मस्तकादिषु नाभ्यन्तेषु पञ्चदशस्थानेषु निरुक्तपञ्चदशाक्षरश्रीविद्याया एकैकं वर्णं न्यसेदित्यर्थः | एवञ्च मस्तके कं नमः, गुह्ये एं नमः, हृदि ईं नमः इत्यादिरूपः प्रयोगक्रमः | संपूर्णमिति | ब्रह्मरन्ध्रे संपूर्णं निरुक्तपञ्चदशाक्षरमन्त्रं न्यसेदित्यर्थः | ३१९ | अथ षोडशनित्यान्यासमाह-तिथिनित्या इत्यादिना | तिथिनित्याश्च प्रथमा सुन्दरी नित्या महात्रिपुरसुन्दरी | कामेश्वरी समाख्याता तथैव भगमालिनी || इत्याद्युक्तलक्षणाः कामेश्वरी-भगमालिनी-नित्यक्लिन्ना-भेरुण्डाद्याः | नित्यानामेतासां प्रतिपदादिपञ्चदश्यन्तासु तिथिषु क्रमेणोपास्यतया तिथिनित्यात्वम् | यत्तु तन्त्रसारादौ षोडशनित्यान्यास इत्युक्तं तन्निरुक्तपञ्चदशनित्यान्ते न्यसनीयायाः पञ्चदशतिथिगामिन्याः श्रीविद्याया अन्तर्निवेशेनेति बोध्यम् | वक्ष्यति च स्वयमेव ग्रन्थकारः श्रीविद्यां विन्यसेन्मूर्ध्नि त्रिपञ्चतिथिगामिनीम् इति | अत एव तन्त्रराजे सप्तमपटले षोडशानान्तु नित्यानां प्रत्येकं तिथिषु क्रमात् | तत्तत्तिथौ तद्भजनं जपहोमार्चनादिना || घृतञ्च शर्करा दुग्धमपूपं कदलीफलम् | क्षौद्रं गुडं नारिकेलं फलं लाजां तिलं दधि | (प्. ५०९) (तत्र कामेश्वरीन्यासः (१) ) तत्र च प्रथमा नित्या कामेश्वरी वशङ्करी | बालां वर्तुलहृत्प्रान्ते कामेश्वरिपदं ततः || ३२० || इच्छाकामफलप्रान्ते प्रदे सर्वपदं लिखेत् | सत्त्ववशङ्करि प्रोच्य ततः सर्वजगत्पदम् || ३२१ || क्षोभप्रान्ते करि ब्रूयात् कूर्चबीजत्रयं लिखेत् | पञ्चबाणान् समालिख्य विलोमेन कुमारिकाम् || ३२२ || _________________________________________________________________ पृथुकं चणकं मुद्गं पायसञ्च निवेदयेत् | प्रतिपत्तिथिमारभ्य क्रमात् पञ्चदशस्वपि || कामेश्वर्यादिशक्तीनां सर्वासामपि चोदिताम् | आद्याया ललितायास्तु सर्वाण्येतानि सर्वदा || इत्यादिना कामेश्वर्यादीनां तत्तत्तिथिषु, ललितायाः पुनः सर्वतिथिषु घृताद्युपचारकरणकपूजनोपदेशेन नित्यानां षोडशसंख्याकत्वं व्यक्तमुक्तम् | एकैकेति | एकैकक्रमयोगेणाकारादिविसर्गान्तमातृकायोगेनेत्यर्थः | ३२० | तत्र प्रथमां नित्यां निर्वक्ति कामेश्वरीत्यादिना | वशङ्करीति कामेश्वरीविशेषणम् | तदुक्तं ज्ञानार्णवतन्त्रे पञ्चदशपटले कामेश्वरी महाविद्या सर्वलोकवशङ्करी || इति | न्यासार्थमस्या मन्त्रोद्धारमाह-तत्रेत्यादिना | बालाम् ऐ/ क्लीं सौरिति बीजत्रयम् | वर्तुलं प्रणवः | कूर्चबीजत्रयं हुं हुं हुं | पञ्चबाणानिति | द्रां द्रीं क्लीं ब्लूं सः इति पञ्चबाणमन्त्रस्त्वग्रे स्वयमेव वक्ष्यते | विलोमेनेति | एतेन सौः क्लीं ऐ/ इति प्राप्तम् | स्पष्टमन्यत् | एवञ्च अं ऐ/ क्लीं सौः ओं नमः कामेश्वरि इच्छाकामफलप्रदे सर्वसत्त्ववशङ्करि सर्वजगत्क्षोभकरि हुं हुं हुं द्रां द्रीं क्लीं ब्लूं सः सौः क्लीं ऐ/ कामेश्वरीनित्याकलायै नमः इति पादाङ्गुष्ठे न्यसेदिति फलितम् | प्रतिपदिति | प्रतिपदः पञ्चदश्यन्तं प्रविन्यसेदिति पूर्वेण सम्बन्धः | (प्. ५१०) एषा कामेश्वरी नित्या पादाङ्गुष्ठे प्रविन्यसेत् | प्रतिपत्तिथिमारभ्य यावत् पूर्णावसानकम् || ३२३ || (भगमालान्यासः (२) ) दक्षगुल्फे न्यसेद्देवीं भगमालां भगेश्वरीम् | वाग्भवं भगशब्दान्ते भगे भगिनी संलिखेत् || ३२४ || भगोदरिभगाङ्गे च भगमाले भगावहे | भगगुह्ये भगप्रान्ते योनिभगनिपातिनि || ३२५ || सर्वभगे भगवशङ्कर्यन्ते भगशब्दकम् | रूपे नित्यपदस्यान्ते क्लिन्ने भगपदं ततः || ३२६ || स्वरूपे सर्वशब्दान्ते भगानीति समुद्धरेत् | मे ह्यानय स्वरूपान्ते वरदेऽथ समालिखेत् || ३२७ || रेते पदात् सुरेते च भगक्लिन्ने ततो वदेत् | क्लिन्नद्रवे तदन्ते च क्लेदय द्रावयेति च || ३२८ || अमोघे भगविच्छे च क्षुभ क्षोभय सर्वतः | सत्त्वान् भगेश्वरि ब्रूयाद् वाग्भवं ब्लूंज मित्यपि || ३२९ || _________________________________________________________________ ३२४ | द्वितीयां भगमालिनीमाह-दक्षेत्यादिना | दक्षगुल्फे भगमालां न्यसेदित्यर्थः | न्यासस्वरूपमाह-वाग्भवमिति | एवञ्च आं ऐ/ भगभगे भगिनि भगोदरि भगाङ्गे भगमाले भगावहे भगगुह्ये भगयोनि भगनिपातिनि सर्वभगे भगवशङ्करि भगरूपे नित्यक्लिन्ने भगस्वरूपे सर्वभगानि मे ह्यानय वरदे रेते सुरेते भगक्लिन्ने क्लिन्नद्रवे क्लेदय द्रावयामोघे भगविच्छे क्षुभ क्षोभय सर्वसत्त्वान् भगेश्वरि ऐ/ ब्लूं जं ब्लूं भें मों ब्लूं हें ब्लूं ऐ/ ब्लूं क्लिन्ने सर्वाणि भगानि मे वशमानय स्त्रीं ब्लूं ह्रीं भगमालिनीनित्याकलायै नमः | इति मन्त्रो निरुक्तप्रमाणानुसारेण पर्यवस्यति | भगाङ्ग इत्यत्र भगान्त इति पाठे भगभगमाले इति स्यात् | एतन्मन्त्रस्य क्रमभेदस्तु ज्ञानार्णवतन्त्रसारादावनुसन्धेयः | (प्. ५११) ब्लूं भें मों ब्लूं स्वरूपान्ते ब्लूं हें ब्लूं च वाग्भवम् | ब्लू/ क्लिन्ने च पदस्यान्ते सर्वाणि च भगानि च || ३३० || मे वशमानय शब्दान्ते स्त्रीं ब्लूं च भुवनेश्वरीम् | भगमाला महाविद्या योषित्क्लेदनकारिणी || ३३१ || (नित्यक्लिन्नान्यासः (३)) तारो मायावाग्भवान्ते नित्यक्लिन्ने मदद्रवे | वह्निजायान्वितो मन्त्रो नित्यक्लिन्नेयमीरिता || ३३२ || तृतीयां तिथिमासाद्य न्यसेत्तनौ समाहितः || ३३३ || (भेरुण्डा (४) ) प्रणवं चाङ्कुशद्वन्द्वमध्ये भ्रोङ्कारमालिखेत् || ३३४ || चवर्गमन्त्यहीनन्तु वह्नियुक्तं पृथग् लिखेत् | चतुर्दशस्वरोपेतं नादबिन्दुसमन्वितम् | वह्निजायान्वितो मन्त्रो भेरुण्डायाः प्रकाशितः || ३३५ || __________________________________________________________________ ३३२ | अथ तृतीयां नित्यक्लिन्नामाह-तार इत्यादिना | एवञ्च हं ओं ह्रीं ऐ/ नित्यक्लिन्ने मदद्रवे स्वाहा नित्यक्लिन्नानित्याकलायै नम इति मन्त्रः पर्यवस्यति | पराबीजं समुच्चार्य नित्यक्लिन्ने मदद्रवे | अग्निजायान्वितो मन्त्रो नित्यक्लिन्नेयमीरिता || इति ज्ञानार्णवपञ्चदशपटलवचनानुसारेण तु इं ह्रीं नित्यक्लिन्ने मदद्रवे स्वाहेति मन्त्रो भवति | तत् प्रकारद्वयमिदमिति ज्ञेयम् | ३३३ | निरुक्तन्यासस्य कालं स्थानञ्चाह-तृतीयामिति | ३३४-३३६ | चतुर्थीं भेरुण्डामाह-प्रणवमित्यादिना | आदौ प्रणवं लिखेत् | ततश्चाङ्कुशद्वन्द्वस्य क्रों क्रोमिति बीजद्वयस्य मध्ये भ्रोङ्कारं भ्रों इति बीजं लिखेत् | (प्. ५१२) चतुर्थ्यां योनि भागे तु विन्यसेत् साधकोत्तमः || ३३६ || (वह्निवासिनी (५) ) भुवनेशीं समुद्धृत्य ङेयुतां वह्निवासिनीम् | हृदन्तां विन्यसेन्नाभौ पञ्चम्यां देशिकाग्रणीः || ३३७ || (महानित्येश्वरी (६) ) प्रणवं शम्भुवनितां फरेमात्मकमक्षरम् | सविसर्गः शशी पश्चान्नित्यक्लिन्ने मदद्रवे | अग्निजाया महानित्येश्वरीं षष्ठ्यां कुचे न्यसेत् || ३३८ || (शिवदूती (७) ) मायाबीजं समुच्चार्य शिवदूत्यै नमो वदेत् | सप्तम्यां विन्यसेदेनां शिवदूतीं स्वयं हृदि || ३३९ || _________________________________________________________________ आदौ च चतुर्थस्वरयोगः, अनेन ईं ओं क्रों भ्रों क्रोमित्यन्तं प्राप्तम् | ततश्च अन्त्यहीनं ञकाररहितं चवर्गं तञ्च वह्नियुक्तं रकारयुतम्, तथा चतुर्दशस्वरेण औकारेणोपेतं तथा नादबिन्दुसमन्वितं नादबिन्दू प्रसिद्धौ ताभ्यामन्वितम् | वह्निजाया स्वाहा | पूर्ववदन्यत् | एवञ्च ईं ओं क्रों भ्रों क्रों च्रौं छ्रौं ज्रौं झ्रौं स्वाहा भेरुण्डानित्याकलायै नमः इति मन्त्रः पर्यवस्यति | ३३७ | पञ्चमीं वह्निवासिनीमाह भुवनेशीमित्यादिना | भुवनेशी ह्रीं | एवञ्च उं ह्रीं वह्निवासिन्यै नमः वह्निवासिनीनित्याकलायै नमः इति नाभौ न्यसेदिति फलितम् | ३३८ | षष्ठीं महानित्येश्वरीमाह-प्रणवमित्यादिना | अत्र प्रथमं प्रणवः, ततः शम्भुवनिता ह्रीं, ततः फरेमात्मकं फ्रें इति बीजम्, ततश्च विसर्गयुक्तः शशी सकारः, ततो नित्यक्लिन्न इत्यादि | सर्वादौ षष्ठस्वरयोगः | एवञ्च ऊं ओं ह्रीं फ्रें सः नित्यक्लिन्ने मदद्रवे स्वाहा महानित्येश्वरी-नित्याकलायै नमः इति कुचे न्यसेदिति फलितम् | अत्र महावज्रेश्वरीति तन्त्रसारकाराः | ज्ञानार्णवे पञ्चदशपटले तु महाविद्येश्वरी नित्या प्रसङ्गेन मयेरिता इत्यनेन महाविद्येश्वरीति षष्ठ्या नित्यायाः संज्ञाभिहितेति दृश्यते | ३३९ | अथ सप्तमीं शिवदूतीं नित्यामाह-मायाबीजमित्यादिना | अत्र प्रथमं (प्. ५१३) (त्वरिता (८) ) तारं पराञ्च कवचं खे च ब्ले (छे ?) क्षः पदं लिखेत् | स्त्रीं हुमात्मकमालिख्य क्षेपराबीजमस्त्रकम् | अष्टम्यां विन्यसेत् कण्ठे त्वरितां द्वादशाक्षरीम् || ३४० || (कुलसुन्दरी (९) ) सर्वसिंहासनमयी बालेव कुलसुन्दरी | नवम्यां शुक्लपक्षे तु गले तां परितो न्यसेत् || ३४१ || (महानित्या (१०)) पञ्चबाणं महानित्यां दशम्यामधरे न्यसेत् || ३४२ || _________________________________________________________________ सप्तमस्वरस्ततो मायाबीजं ह्रीं | एवञ्च ऋं ह्रीं शिवदूत्यै नमः शिवदूतिनित्याकलायै नमः इति हृदि न्यसेदिति फलितम् | ३४० | अथाष्टमीं त्वरितामाह-तारमित्यादिना | अत्र प्रथममष्टमस्वरस्ततस्तारमित्यादि | एवञ्च - ॠं ओं ह्रीं हुं खे च ब्ले (छे ?) क्षः स्त्रीं हुं क्षे ह्रीं फट् त्वरितानित्याकलायै नमः इत्यष्टम्यां कण्ठदेशे न्यसेदिति पर्यवस्यति | परन्तु ज्ञानार्णवे पञ्चदशपटले ओंकारबीजमुच्चार्य परां कवचमालिखेत् | खे च च्छे क्षः समालिख्य स्त्रीबीजञ्च समालिखेत् | हुंकारं क्षे परा चास्त्रं विद्येयं द्वादशाक्षरी || इति वचने खे च च्छे क्ष इत्युपादानात् तन्त्रसारेऽपि तथैव दर्शनाच्च मूलोक्तः खे च ब्ले क्ष इति पाठश्चिन्त्यः | ३४१ | अथ नवमीं कुलसुन्दरीमाह-सर्वेत्यादिना | एवञ्च ऌं ऐ/ क्लीं सौः कुलसुन्दरीनित्याकलायै नम इति शुक्लनवम्यां गले न्यसेदिति फलितम् | ३४२ | अथ दशमीं महानित्यामाह-पञ्चबाणमित्यादिना | अत्रापि प्रथमं यथाश्रुतं ऌमिति, ततः पञ्चबाणबीजपञ्चकम्, ततो महानित्याकलायै नम इति | (प्. ५१४) (पञ्चबाणमन्त्रः) थान्तद्वयं रेफयुक्तं पूर्वदीर्घद्वयान्वितम् | नादबिन्दुकलायुक्तं कामं ब-ल-ऊमात्मकम् | सविसर्गः शशी पश्चात् पञ्चबाणा उदाहृताः || ३४३ || (नीलपताकिनी (११)) वर्तुलं भुवनेशानीं फरेमात्मकमक्षरम् | श्रुङ्मायामङ्कुशं नित्यमदद्रवे हुमङ्कुशम् | एकादश्यां न्यसेद् दण्डे विद्यां नीलपताकिनीम् || ३४४ || _______________________________________________________________ १४३ | अथ कोऽयं पञ्चबाणमन्त्रो नामेत्याकाङ्क्षायामाह-थान्तद्वयमिति | दकारद्वयमित्यर्थः, तच्च रेफयुक्तं तथा पूर्वदीर्घद्वयान्वितं द्वितीयचतुर्थस्वरयुक्तमित्यर्थः, तथा नादबिन्दुकलायुक्तम्, एतेन द्रां द्रीमिति प्राप्तम् | काममिति क्लीमिति कामबीजम् | तथा ब-ल-ऊमात्मकं ब्लूमिति बीजम् | ततश्च सविसर्गः शशी चन्द्रबीजं सकारः | एवञ्च द्रां द्रीं क्लीं ब्लूं सः इति पञ्चबाणमन्त्रः | ज्ञानार्णवे पञ्चदशपटलेऽपि थान्तद्वयं समालिख्य वह्निसंस्थं क्रमेण हि | मुखवृत्तेन नेत्रेण वामेन परिमण्डितम् || बाणद्वयमिदं प्रोक्तं, मादनं भूमिसंस्थितम् | चतुर्थस्वरबिन्द्वाढ्यं नादरूपं वरानने || फान्तं क्रमसमायुक्तं वामकर्णविभूषितम् | बिन्दुनादसमायुक्तं सर्गवांश्चन्द्रमाः प्रिये || पञ्चबाणा महेशानि नामानि शृणु तान्यपि | क्षोभणद्रावणौ देवि तथाकर्षणसंज्ञकः | वश्योन्मादौ क्रमेणैव नामानि परमेश्वरि || इति | एवञ्च ॡं द्रां द्रीं क्लीं ब्लूं सः महानित्यानित्याकलायै नम इति फलितम् | ३४४ | अथैकादशीं नित्यां नीलपताकिनीमाह वर्तुलमित्यादिना | अत्र प्रथमं प्रागुक्तरीत्यैकादशस्वरयोगः | वर्तुलं प्रणवम् | भुवनेशानीं ह्रीमिति | ततः (प्. ५१५) (विजया (१२)) कालाद्यं कालसंयुक्तं शेषदण्डे सुसंयुतम् | विजयां विन्यसेदेनां द्वादश्याञ्च श्रुतौ बुधः || ३४५ || (सर्वमङ्गला (१३) ) चन्द्रं वारुणसंयुक्तं तारबीजञ्च सर्वतः | मङ्गलायै नमः प्रोच्य नेत्रे तु सर्वमङलाम् || ३४६ || ________________________________________________________________ फ्रेमिति | अत्र फ्रेमिति वक्तव्ये छन्दोऽनुरोधात् फरेमित्युक्तम् | ज्ञानार्णवेऽप्येवमेव | श्रुङिति | ज्ञानार्णवे पञ्चदशपटले प्रणवं भुवनेशानीं फरेमात्मकमक्षरम् | ब्लूमात्मकं द्वितीयन्तु भुवनेश्यङ्कुशं ततः | इत्यादि-नीलपताकामन्त्रोद्धारप्रतिपादकवचने फ्रें इत्यनन्तरं ब्लूमात्मकं द्वितीयन्तु इत्यनेन ब्लूं आं इति बीजद्वयं लभ्यते | तन्त्रसारकृताऽपि तथैव मन्त्रोद्धारक्रमो दर्शितः | तन्मूले श्रुङ्मायेति पाठे तादृशमन्त्रोद्धारासम्भवाद् ब्ल्वां मायेति पाठो लेखकप्रमादविकृतः श्रुङ्मायेत्याकारमापन्न इति प्रतिभाति | ब्ल्वां मायेति पाठे तु ब्लूं आं इति बीजद्वयस्य सुघटत्वेन ज्ञानार्णव-तन्त्रसारादिभिर्विरोधः सर्वथा परिह्रियेत | एवञ्च एं ओं ह्रीं फ्रें ब्लूं आं ह्रीं क्रों नित्यमदद्रवे हुं क्रों नीलपताकिनीनित्याकलायै नमः इति पञ्चदशाक्षरो मन्त्रः पर्यवस्यति | तदुक्तं ज्ञानार्णवे पञ्चदशपटले नित्यशब्दं समुच्चार्य सम्बुद्ध्या च मदद्रवाम् | कवचं चाङ्कुशं पञ्चदशैर्नीलपताकिनीम् || इति | ३४५ | अथ द्वादशीं विजयामाह-कालाद्यमित्यादिना | अथ प्रथमं द्वादशस्वरयोगः | ततः कालाद्यो भकारः, कालो मकारस्तत्संयुक्तम्, शेषो रकारः, दण्ड औकारः | एवञ्च ऐ/ भूमरौं विजयानित्याकलायै नम इति प्रयोगः | तदुक्तं तन्त्रसारधृतज्ञानार्णवे बान्तं कालसमायुक्तं रेफं शक्रस्वरान्वितम् | बिन्दुनादाङ्कितं देवि विद्येवं विजया भवेत् || इति | ३४६ | त्रयोदशीं नित्यां सर्वमङ्गलामाह-चन्द्रमित्यादिना | अत्र प्रथमं त्रयोदशस्वरयोगः | ततश्चन्द्रः सकारस्तम्, वारुणसंयुक्तं वकारयुक्तं तारबीजं प्रणवञ्च (प्. ३१६) (ज्वालामालिनी (१४)) तारं हृद्भगवत्यन्ते ज्वालामालिनि देवि च | देवि सर्वपदान्ते च भूतसंहारकारिके || ३४७ || जातवेदसि शब्दान्ते ज्वलन्ति पदयुग्मकम् | ज्वलेति प्रज्वलद्वन्द्वं हुं-कारत्रितयं लिखेत् || ३४८ || वह्निबीजत्रयं हुञ्च शरस्वाहान्वितो मनुः | कपाले दक्षिणे भागे ज्वालामालां प्रविन्यसेत् || ३४९ || (विचित्रा (१५)) कवर्गान्तं स्वरान्तञ्च शक्रस्वरेन्दुमण्डितम् | विचित्रा नाम विद्येयं विन्यसेद् ब्रह्मरन्ध्रके || ३५० || _________________________________________________________________ प्रोच्येति सम्बन्धः | ततः सर्वतः सर्वपदान्ते मङ्गलायै नम इति | एवञ्च ओं स्वो/ सर्वमङ्गलायै नम इति नेत्रे न्यसेत् | व्यक्तमाह ज्ञानार्णवे पञ्चदशपटले चन्द्रवारुणसंयुक्तं तारबीजं समालिखेत् | चतुर्थ्या तु ततो देवि विलिखेत् सर्वमङ्गलाम् | हृदन्तोऽयं मनुर्देवि नित्येयं सर्वमङ्गला || इति | ३४७-३४९ | अथ चतुर्दशीं ज्वालामालिनीमाह-तारमित्यादिना | अत्र प्रथमं चतुर्दशस्वरयोगः | ततस्तारः प्रणवः, हृत् नमः, ततो भगवति, ततो ज्वालामालिनि देवि, ततोऽपि देवीति | स्पष्टमन्यत् | एवञ्च औं ओं नमो भगवति ज्वालामालिनि देवि देवि सर्वभूतसंहारकारिके जातवेदसि ज्वलन्ति ज्वलन्ति ज्वल प्रज्वल प्रज्वल हुं हुं हुं रं रं रं हुं फट् स्वाहा ज्वालामालिनीनित्याकलायै नमः इति कपालस्य दक्षिणांशे न्यसेदिति फलितम् | ३५० | अथ पञ्चदशीं नित्यां विचित्रामाह-कवर्गान्तमित्यादिना | अत्र प्रथमं पञ्चदशस्वरयोगः, ततः कवर्गान्तश्चकारः, स्वरान्तः ककारः, शक्रस्वर औकारः | एवञ्च अं च्कौं विचित्रानित्याकलायै नम इति ब्रह्मरन्ध्रे न्यसेदिति फलितम् | (प्. ५१७) (निरुक्तन्यासे विशेषः) शुक्लपक्षे न्यसेद्दक्षे सव्ये कृष्णे क्रमाद् बुधः || ३५१ || (श्रीविद्या (१६)) श्रीविद्यां विन्यसेन्मूर्ध्नि त्रिपञ्चतिथिगामिनीम् || ३५२ || (स्थितिन्यासः) स्थितिन्यासं ततः कुर्याच् श्रीविद्याषोडशाक्षरैः | पञ्चाङ्गुलीषु करयोर्ब्रह्मरन्ध्रे मुखे हृदि || ३५३ || नाभ्यादिपादपर्यन्तं गलादानाभि चापरम् | ब्रह्मरन्ध्रादिकण्ठान्तं पादद्वये ततः परम् | अङ्गुलीषु ततः पश्चादेकैकाक्षरभेदतः || ३५४ || (सृष्टिन्यासः) श्रीविद्याषोडशार्णैस्तु सृष्टिन्यासं समाचरेत् | ब्रह्मरन्ध्रेऽलके नेत्रे श्रुतिघ्राणांसकेषु च || ३५५ || ________________________________________________________________ ३५१ | पक्षभेदेन निरुक्तन्यासे विशेषमाह-शुक्लेति | ३५२ | अथ षोडशीं नित्यां श्रीविद्यामाह-श्रीत्यादिना | त्रिपञ्चतिथिगामिनीमित्यनेन प्रतिपदादिपञ्चदश्यन्तासु सर्वास्वेव तिथिष्वेतन्न्यासस्य कर्तव्यत्वमुक्तम् | अत्र प्रथमं षोडशस्वरयोगः | ततो मूलं ततश्च श्रीमहात्रिपुरसुन्दरीनित्याकलायै नम इति मूर्ध्नि न्यसेत् | इति षोडशनित्यान्यासः | ३५३-३५४ | अथ स्थितिन्यासमाह-स्थितिन्यासमित्यादिना | श्रीविद्याषोडशाक्षरैः कराङ्गुल्यादिषोडशस्थानेष्वेकैकाक्षरभेदतः स्थितिन्यासं कुर्यादिति सम्बन्धः | पादद्वये, ततः परम् अङ्गुलीष्विति पादाङ्गुलिष्वित्यर्थः | एवञ्च कराङ्गुलिषु पञ्च ब्रह्मरन्ध्रादिषु त्रय इत्यष्टौ नाभ्यादिपादपर्यन्तमेकः गलान्नाभिपर्यन्तमेकः ब्रह्मरन्ध्रादिकण्ठान्तमेक इत्येकादश | पादाङ्गुलिषु पञ्चेति षोडशाक्षरन्यासक्रमः | ३५५-३५६ | अथ सृष्टिन्यासमाह-श्रीविद्येत्यादिना | अत्रापि एकैकाक्षरभेदत (प्. ५१८) दन्तयोरोष्ठयोश्चैव रसनागलकूपके | पृष्ठ-सर्वाङ्गहृदयस्तनकुक्षिषु लिङ्गके || ३५६ || (संहारन्यासः) श्रीविद्याषोडशार्णैस्तु संहारन्यासमाचरेत् || ३५७ || पादयोर्जङ्घयोर्जान्वोः कट्योरन्धुनि पृष्ठके | नाभौ पार्श्वद्वये चैव स्तनयोरंसयोस्तथा || ३५८ || कर्णयो(?)र्ब्रह्मरन्ध्रे च वदने बिन्दु विन्यसेत् | ततः कर्णप्रदेशे च करे वै तदनुक्रमात् || ३५९ || (निरुक्तन्यासत्रयस्याधिकारिभेदः) उत्पत्तिसंज्ञको न्यासः प्रथमाश्रमवासिनाम् | गृहस्थानां स्थितिन्यासः संहाराख्यो यतेर्भवेत् || ३६० || _________________________________________________________________ इति सम्बध्यते | तथा च ब्रह्मरन्ध्रादिषु षोडशस्थानेषु प्रागुक्तषोडशीविद्याया एकैकाक्षरं न्यसेदित्यर्थः | ३५७-३५९ | अथ संहारन्यासमाह-श्रीविद्येत्यादिना | तथा च पादादिकरपृष्ठान्तेषु षोडशस्थानेषु प्रागुक्तश्रीविद्याषोडशवर्णान् न्यसेदित्यर्थः | अन्धुनि पायुस्थाने | अत्र कर्णयोरिति पाठः प्रामादिक इति प्रतिभाति | करयोर्जङ्घयोर्जान्वोः कट्यामङ्गुलि (?) पृष्ठके | नाभौ पार्श्वद्वये चापि स्तनयोरंसयोस्तथा | करयोर्ब्रह्मरन्ध्रे च वदने भ्रुवि पार्वति | ततः कर्णप्रदेशे च करवेष्टनयोः क्रमात् | इति तन्त्रसारधृतवचने करयोरित्यभिधानाद् वक्ष्यमाणकर्णप्रदेशपदेन पौनरुक्त्यसम्भवाच्चेति ध्येयम् | (प्. ५१९) (चक्रेश्वरीन्यासः) अथ चक्रेश्वरीन्यासं कुर्यात् साधकसत्तमः | (तत्र स्थाननिरूपणम्) शिरोललाटभ्रूमध्य-कण्ठहृन्नाभिगोचरे || ३६१ || लिङ्गमूले तथाधारे सर्वाङ्गे च प्रविन्यसेत् | (न्यासपरिपाटी) करशुद्धिकरीं विद्यामुच्चार्य त्रिपुरां ततः || ३६२ || बालाबीजत्रयेणैव त्रिपुरेशीं न्यसेद् बुधः | मूलमन्त्रेण मन्त्रज्ञः श्रीमत्त्रिपुरसुन्दरीम् || ३६३ || पूर्वोक्तेनैव मन्त्रेण त्रिपुरावासिनीं न्यसेत् | त्रिपुराश्रियञ्च मन्त्रज्ञस्त्रिपुरामालिनी ततः || ३६४ || तथा च त्रिपुरासिद्धां ततश्च त्रिपुरात्मिकाम् | बालामन्त्रं समुच्चार्य ततस्त्रिपुरभैरवीम् || ३६५ || ________________________________________________________________ ३६१-३६२ | ततश्चक्रेश्वरीन्यासमाह-अथेत्यादिना | तत्र प्रथमं न्यासयोग्यानि स्थानानि निरूपयति शिर इत्यादिना | तत्र न्यासस्य क्रममभिधत्ते करेत्यादिना | करशुद्धिकरी विद्या तु अं आं सौरिति बीजत्रयमिति पूर्वमेव (१५|७० श्लो०) प्रदर्शितम् | आदौ निरुक्तां करशुद्धिकरीं विद्यामुच्चार्य त्रिपुरां न्यसेदिति सम्बन्धः | एवञ्च अं आं सौस्त्रिपुरायै नम इति शिरसि न्यसेदिति पर्यवस्यति | ३६३ | द्वितीयं चक्रेश्वरीन्यासमाह-बालेत्यादिना | एवञ्च ऐ/ क्लीं सौः त्रिपुरेश्वर्यै नम इति ललाटे न्यसेदिति पर्यवस्यति | तृतीयं चक्रेश्वरीन्यासमाह-मूलमन्त्रेणेति | तथा च मूलमुच्चार्य श्रीमत्त्रिपुरसुन्दर्यै नम इति भ्रूमध्ये न्यसेदिति पर्यवसितम् | ३६४-३६५ | अथ त्रिपुरावासिन्यादित्रिपुरात्मिकान्तचक्रेश्वरीपञ्चक- न्यासमाहपूर्वोक्तेनेत्यादिना त्रिपुरात्मिकामित्यन्तेन | पूर्वोक्तेन मूलेन, तस्यैवाव्यवहितपूर्वमभिधानात् | विशेषानभिधानात् त्रिपुराश्रीप्रभृतीनां त्रिपुरात्मिकान्तानां पुरतोऽपि (प्. ५२०) शिवसोमवह्निबीजं वाग्भवेन समन्वितम् | वियदिन्दुकामशक्रवह्निमायेति बिन्दुमत् || ३६६ || आकाशचन्द्रवह्निञ्च शक्रस्वरविभूषितम् | विसर्गेन्दुसमायुक्तं विद्या त्रिपुरभैरवी || ३६७ || (पीठन्यासः) पीठन्यासमथो वक्ष्ये तत्त्वविमर्षणीक्रमात् | मूलवाग्भवमुच्चार्य अग्निचक्रे पदं ततः || ३६८ || ________________________________________________________________ मूलयोगो बोध्यः | एवञ्च मूलमुच्चार्य त्रिपुरावासिन्यै नम इति कण्ठे, त्रिपुराश्रियै नम इति हृदि, त्रिपुरामालिन्यै नम इति नाभौ, त्रिपुरासिद्धायै नम इति लिङ्गमूले, त्रिपुरात्मिकायै नम इति मूलाधारे न्यसेदिति पर्यवसितम् | ३६५-३६७ | अथ नवमचक्रेश्वरीन्यासमाह-बालेत्यादिना आदौ ऐ/ क्लीं सौरिति बालामन्त्रं समुच्चार्य ततस्त्रिपुरभैरवीमन्त्रमुच्चारयेदित्यर्थः | त्रिपुरभैरवीमन्त्रं त्रिकूटात्मकमाह-शिवेत्यादिना | शिवो हकारः, सोमः सकारः, वह्निबीजं रकारः, वाग्भवेन ऐकारेण | एवञ्च हसरैं इति वाग्भवकूटं प्राप्तम् | वियदिति | वियत् हकारः, इन्दुः सकारः, कामः ककारः, शक्रो लकारः, वह्नी रकारः, बिन्दुरनुस्वारः | अनेन ह स क ल रीमिति कामराजकूटं प्राप्तम् | आकाशेति | आकाशो हकारः, चन्द्रः सकारः,वह्नि रकारः, शक्रस्वर औकारः, विसर्गो बिन्दुश्च प्रसिद्धौ | एवञ्च हसरैं ह स क ल रीं ह स रौः इति त्रिपुरभैरवीमन्त्रः | व्यक्तमाह सारदायां द्वादशपटले वियद् भृगुहुताशस्थो भौतिको बिन्दुशेखरः | वियत्तदादिकेन्द्राग्निस्थितं वामाक्षिबिन्दुमत् | आकाशभृगुवह्निस्थो मनुः सर्गेन्दुखण्डवान् || इति | एवञ्च ऐ/ क्लीं सौः हसरैं ह स क ल रों ह स रौः त्रिपुरभैरव्यै नम इति सर्वाङ्गे न्यसेदिति फलितम् | ३६८-३७६ | अथ पीठन्यासं वक्तुं प्रतिजानीते पीठमित्यादिना | मूलेति (प्. ५२१) कामगिर्यालये मित्रीशनाथ-पदात्मके | कामेश्वरीतिशब्दान्ते देवी रुद्रात्मशक्तितः || ३६९ || पादुकामन्त्रमुच्चार्य मूलाधारे प्रविन्यसेत् | मूलद्वितीयमुच्चार्य सूर्यचक्रे पदं ततः || ३७० || जालन्धरपदात् पीठे षष्ठीनाथात्मके पदम् | वक्त्रेश्वरीतिशब्दान्ते देवी विष्ण्वात्मशक्तितः || ३७१ || पादुकाख्येन मनुना हृदये विन्यसेद् बुधः | शक्तिबीजं समुच्चार्य सोमचक्रे पदं ततः || ३७२ || पूर्णगिरिपदस्यान्ते गह्वरे पदमुद्धरेत् | उड्डीशनाथात्मके शब्दाद् भग पूर्वा च मालिनी || ३७३ || देवी ब्रह्मात्मशक्तिश्रीपादुकामनुच्चरन् | भ्रूमध्ये विन्यसेत्तुर्यबीजमुच्चार्य तत्परम् || ३७४ || ब्रह्मचक्रे पदादुड्डीयानपीठे तदन्तरम् | चर्यानाथात्मके पश्चान्महात्रिपुरसुन्दरीम् || ३७५ || परंब्रह्मपदादात्म-शक्तिपदं वदेत्ततः | पादुकामनुमुच्चार्य ब्रह्मरन्ध्रे प्रविन्यसेत् || ३७६ || _________________________________________________________________ वाग्भवकामराजशक्तिकूटरूपकूटत्रयात्मकाः श्रीमत्त्रिपुरसुन्दरीमन्त्राः पूर्वमुपदर्शिताः | अत्र मूलवाग्भवपदेन निरुक्तकूटघटितमन्त्राणां प्रथमकूटं ग्राह्यम् | एवञ्च ई ए क ल ह्रीमित्याद्यन्यतमं श्वेष्टमन्त्रस्य वाग्भवकूटमुच्चार्य अग्निचक्रे कामगिर्यालये मित्रीशनाथात्मके कामेश्वरीरुद्रात्मशक्तिदेवीश्रीपादुकायै नम इति मूलाधारे न्यसेदिति पर्यवस्यति | तदुक्तं गन्धर्वतन्त्रे दशमपटले (प्. ५२२) (तत्त्वन्यासः) तत्त्वन्यासमथो वक्ष्ये सर्वपापनिकृन्तनम् || ३७७ || वाग्भवान्ते चात्मतत्त्वव्यापिकायै पदं ततः | महात्रिपुरसुन्दर्यै नम इत्यनुना न्यसेत् || ३७८ || _________________________________________________________________ मूलवाग्भवमुच्चार्य अग्निचक्रे पदं ततः | कामगिर्यालये पश्चान्मित्रीशपदमुद्धरेत् || नाथात्मके पदं पश्चात्कामेश्वरीपदं ततः | रुद्रात्मशक्तिशब्दाच्छ्रीपादुकायै नमो न्यसेत् | आधारे परमेशानि हृदये च ततः परम् || इति | मूलद्वितीयमिति | तथा च, ह स क ह ल ह्रीमित्याद्यन्यतमं कामराजकूटमुच्चार्य सूर्यचक्रे जालन्धरपीठे षष्ठीनाथात्मके वज्रेश्वरीदेवीविष्ण्वात्मकशक्तिश्रीपादुकायै नम इति हृदये न्यसेदिति पर्यवसितम् | शक्तिबीजमिति | तथा च, स क ल ह्रीमित्याद्यन्यतमं स्वेष्टमन्त्रशक्तिकूटमुच्चार्य सोमचक्रे पूर्णगिरिगह्वरे उड्डीशनाथात्मके भगमालिनीदेवीब्रह्मात्मशक्तिश्रीपादुकायै नम इति भ्रूमध्ये विन्यसेदिति पर्यवसितम् | तुर्येति | एकैकशः कूटत्रयोच्चारणानन्तरं समष्ट्या तदुच्चारणस्य तुर्यत्वेन तुर्यबीजपदेन कूटत्रयात्मको मन्त्र उच्यते | तथा च, ई ए क ल ह्रीं | ह स क ह ल ह्रीं | स क ल ह्रीमित्याद्यन्यतममन्त्रमुच्चार्य ब्रह्मचक्रे उडिडियानपीठे चर्यानाथात्मके महात्रिपुरसुन्दरीदेवीपरंब्रह्मात्मशक्तिश्रीपादुकायै नम इति ब्रह्मरन्ध्रे न्यसेदित्यर्थः | व्यक्तमाह तन्त्रसारधृतकुलामृते * * समस्तञ्च मन्त्रमुच्चार्य पार्वति | परं ब्रह्मपदं चक्र उड्डीयानपदं ततः || पीठे पदं योजयित्वा चर्यानाथात्मके पदम् | महात्रिपुरशब्दान्ते सुन्दरीति पदं ततः | देवीब्रह्मपदात्मान्ते शक्तिश्रीपादुकां ततः || इति | इति पीठन्यासः | ३७७-३८२ | एवं पीठन्यासमभिधाय तत्त्वन्यासं वक्तुं प्रतिजानीते तत्त्व- (प्. ५२३) मूलादिब्रह्मरन्ध्रान्तं तदादिभ्रूलतावधि | कामराजं समुच्चार्य विद्यातत्त्वादि पूर्ववत् || ३७९ || नाभ्यादिभ्रूलतान्तञ्च तदादिहृदयावधि | शक्तिबीजं समुच्चार्य शिवतत्त्वादिकं तथा || ३८० || मूलादिहृदयान्तञ्च तदादिलिङ्गमूलकम् | अमुना विन्यसेत्तुर्य-बीजान्ते सर्वतत्त्वतः || ३८१ || व्यापिकायै ङेनमोऽन्तो महात्रिपुरसुन्दरी | मूलादिब्रह्मरन्ध्रान्तं तदादिचरणं न्यसेत् || ३८२ || (अस्त्रन्यासः) अस्त्रन्यासं ततः कुर्याद्देव्याः प्रीतिकरं क्रमात् | पञ्चबाणं समुच्चार्य कामेशीबाणमुच्चरेत् || ३८३ || ________________________________________________________________ न्यासमित्यादिना | तत्त्वन्यासपरिपाटीं दर्शयति-वाग्भवान्त इति | अत्रापि पूर्ववत् क्रमेण समष्ट्या च कूटत्रययोगः | तथा च मूलमन्त्रस्य वाग्भवकूटमुच्चार्य आत्मतत्त्वव्यापिकायै महात्रिपुरसुन्दर्यै नम इति मूलाधाराद् ब्रह्मरन्ध्रान्तं ब्रह्मरन्ध्राच्च भ्रूलतापर्यन्तं न्यसेत् | कामराजमिति | ततश्च कामराजकूटमुच्चार्य विद्यातत्त्वव्यापिकायै महात्रिपुरसुन्दर्यै नम इति नाभिदेशतो भ्रूलतापर्यन्तं भ्रूलताया हृदयपर्यन्तं न्यसेत् | शक्तिबीजमिति | शक्तिकूटमित्यर्थः | तथा च, पूर्ववच्छक्तिकूटमुच्चार्य शिवतत्त्वव्यापिकायै महात्रिपुरसुन्दर्यै नम इति मूलाधारतो हृदयान्तं हृदयाच्च लिङ्गमूलान्तं न्यसेत् | अमुनेति | तथा च, पूर्ववत्तुर्यबीजान्ते त्रिकुटात्मकं मन्त्रमुच्चार्येत्यर्थः, सर्वतत्त्वव्यापिकायै महात्रिपुरसुन्दर्यै नम इति मूलाधारतो ब्रह्मरन्ध्रपर्यन्तं पुनर्ब्रह्मरन्ध्रादाचरणं न्यसेदिति तत्त्वन्यासक्रमः पर्यवस्यति | ३८३ | अथास्त्रन्यासमुपदिशति-अस्त्रन्यासमित्यादिना | पञ्चबाणमिति | द्रां द्रीं क्लीं ब्लूं स इति पञ्चबाणमन्त्रः पूर्वमेव ग्रन्थकारैरुपदिष्टः | एवं पञ्चबाणमुच्चार्य कामेश्वरीपञ्चबाणमुच्चरेदित्यर्थः | (प्. ५२४) त्वगादिपञ्चवर्णन्तु क्रमेण विलिखेत् सुधीः | अनन्तेन समायुक्तं बिन्दु-नाद-कलान्वितम् || ३८४ || कामेश्वरीपञ्चबाणाः कथिताः कामदायकाः || ३८५ || (न्यासपरिपाटी तत्र बाणन्यासः) मणिरन्ध्रं ततो बाणं जम्भलेभ्यः समालिखेत् | कामेश्वरेति बाणेभ्यो हृद्दक्षाधः करे निजे || ३८६ || यादिद्रादीनि जं बीजं जम्भलेभ्यः समालिखेत् | कामेश्वरीति बाणेभ्यो नमोऽन्तञ्च समालिखेत् || ३८७ || देव्याः प्रविन्यसेद् बाणान् पौष्पान् साधकसत्तमः | (धनुर्न्यासः) द्रादियादीनि धं ङेऽन्तं संमोहनपदं ततः || ३८८ || _________________________________________________________________ ३८४ | कामेश्वरीबाणपञ्चकमाह-त्वगादीत्यादिना | य-र-ल-व-शाः पञ्चवर्णाः क्रमेण त्वगसृङ्मांसमेदोऽस्थिरूपा इति श्रीकण्ठन्यासादेरवगन्तव्यम् | मूले त्वगादिपञ्चवर्णन्त्वित्यनेन निरुक्तयकारादिवर्णपञ्चकमुक्तम् | तच्च अनन्तेन आकारेण समन्वितं तथा बिन्दुनादकलायुक्तम् | एतेन यां रां लां वां शामिति कामेश्वरीबाणपञ्चकमित्युक्तं भवति | व्यक्तमाह तन्त्रसारधृतगुप्तार्णवे द्रां द्रीं क्लीं ब्लूं स इत्येते कामबाणाः प्रकीर्तिताः | यां रां लां वां शामिदं कामेश्वरीबाणपञ्चकम् || इत्यनेन | ३८६-३८८ | न्यासपरिपाटीमाह-मणीत्यादिना साधकसत्तम इत्यन्तेन | तथा च, द्रां द्रीं क्लीं ब्लूं सः यां रां लां वां शां जं जम्भलेभ्यः कामेश्वरबाणेभ्यो नम इति प्रयोगः | न्यासस्थानमाह-हृदिति | यादीति | तथा च यां रां लां वां शां द्रां द्रीं क्लीं ब्लूं सः जं जम्भलेभ्यः कामेश्वरीबाणेभ्यो नम इति प्रयोगः | न्यासस्थानन्तु पूर्ववत् | ३८८-३८९ | अथ कामेश्वरसम्मोहनधनुर्न्यासमाह-द्रादीति | तथा च, द्रां (प्. ५२५) ङेन्तं कामेश्वरधनुर्नमोऽन्तञ्च प्रविन्यसेत् | अनेन मनुना मन्त्री वामाधश्च करे निजे | यादिद्रादीनि थं ङेऽन्तं संमोहनपदं ततः || ३८९ || कामेश्वरीधनुर्ङेऽन्तं नमोऽन्तेन तु साधकः | वामदेव्या वामहस्ते विन्यसेदैक्षवं धनुः || ३९० || (पाशन्यासः) द्रादियादीनि बीजानि मुखवृत्तं सबिन्दुकम् | स्याद्वशीकरणायेति कामेश्वरपदं ततः || ३९१ || पाशाय नम इत्येवं वामोर्द्ध्वे विन्यसेत् करे | यादिद्रादीनि गगनं वह्निमायेन्दुबिन्दुमत् || ३९२ || स्याद् वशीकरणायेति कामेश्वरीपदं ततः | पाशाय नम इत्येवं देव्या वामोर्द्ध्वगे न्यसेत् || ३९३ || (अङ्कुशन्यासः) द्राद्रियादीनि बीजानि क्रों ङेऽन्तं स्तम्भनं ततः | कामेश्वराङ्कुशायान्ते नमोर्द्ध्ववामहस्तके || ३९४ || _________________________________________________________________ द्रीं क्लीं ब्लूं सः यां रां लां वां शां धं सम्मोहनाय कामेश्वरधनुषे नम इति प्रयोगः | निरुक्तमन्त्रकरणकन्यासस्य स्थानमाह-अनेनेत्यादिना | अथ कामेश्वरीसम्मोहनधनुर्न्यासमाह-यादीत्यादिना | तथा च, यां रां लां वां शां द्रां द्रीं क्लीं ब्लूं सः थं सम्मोहनाय कामेश्वरीधनुषे नम इति प्रयोगः | ३९१-३९२ | अथ पाशन्यासमाह-द्रादीति | तथा च, द्रां द्रीं क्लीं ब्लूं सः यां रां लां वां शां आं वशीकरणाय कामेश्वरपाशाय नम इति प्रयोगः | यादीत्यादि | एवञ्च यां रां लां वां शां द्रां द्रीं क्लीं ब्लूं सः ह्रीं वशीकरणाय कामेश्वरीपाशाय नम इति प्रयोगः | ३९४ | अथानयोरङ्कुशन्यासमाह-द्रादीत्यादिना | तथा च, द्रां द्रीं क्लीं ब्लूं सः यां रां लां वां शां क्रों स्तम्भनाय कामेश्वराङ्कुशाय नम इति प्रयोगः पर्यवस्यति | (प्. ५२६) यादिद्रादीनि बीजानि क्रों ङेऽन्तं स्तम्भनं पदम् | कामेश्वर्यङ्कुशायान्ते देव्या दक्षोर्द्ध्वगे न्यसेत् || ३९५ || (कूटन्यासः) कूटन्यासं ततः कुर्यात् क्रमेण साधकोत्तमः | करयोर्मूलमध्याग्रे मूलहृद्भ्रूयुगान्तरम् || ३९६ || मूलखण्डत्रयावृत्त्या स्थानेष्वेषु प्रविन्यसेत् | ब्रह्मरन्ध्रे तुरीयञ्च तेनैव व्यापकं न्यसेत् || ३९७ || (त्रिपुरान्यासः * ) पञ्चाशत्त्रिपुरान्यासं मातृकार्णैर्न्यसेदथ | __________________________________________________________________ ३९५ | यादीत्यादि | तथा च, यां रां लां वां शां द्रां द्रीं क्लीं ब्लूं सः क्रों स्तम्भनाय कामेश्वर्यङ्कुशाय नम इति प्रयोगः पर्यवस्यति | इत्यस्त्रन्यासः | अयं न्यासस्तत्त्वमुद्रया कार्य इति त्रिपुरार्चनरहस्ये | ३९६-३९७ | एवमस्त्रन्यासमभिधाय कूटन्यासमाह-कूटन्यासं ततः कुर्यादित्यादिना | अत्र क्रमेण मूलखण्डत्रयावृत्त्या करयोर्मूलमध्याग्रेषु तथा मूलाधारो हृदयं भ्रुवोर्मध्यमित्येषु स्थानेषु च प्रविन्यसेदिति सम्बन्धः | अत्रेदमवधेयम् पूर्वोदितानां वाग्भवकामराजशक्त्यात्मककूटत्रयात्मकानां स्वस्वेष्टमन्त्राणां वाग्भवकूटमुच्चार्य दक्षिणकरस्य मूले, कामराजकूटमुच्चार्य मध्ये, शक्तिकूटमुच्चार्याग्रे न्यसेत् | ततो वामकरस्य मूलमध्याग्रेष्वप्यनयैव रीत्या न्यासः कर्तव्यः | ततः पुनर्वाग्भवकूटमुच्चार्य मूलाधारे, कामराजकूटमुच्चार्य हृदि, शक्तिकूटमुच्चार्य च भ्रुवोर्मध्ये न्यसेदिति बोध्यम् | ब्रह्मरन्ध्र इति, तुरीयं बीजं कूटत्रयसमष्टिरूपं मन्त्रम् | तुरीयत्वञ्चास्य त्रिरावृत्त्या प्रयुक्तं मन्त्रमपेक्ष्येति बोध्यम् | एवञ्च ए ई क ल ह्रीं नम इति दक्षकरस्य मूले, ह स क ह ल ह्रीं नम इति मध्ये, स क ल ह्रीं नम इत्यग्रे न्यसेत् | एवमन्येष्वपि निरुक्तेष्वङ्गेषु बोध्यम् | तेनैवेति, कूटत्रयसमष्टिरूपेण तुरीयेणेत्यर्थः | (प्. ५२७) (तत्र पञ्चाशत्त्रिपुरानिर्णयः) कामिनी मोदिनीनाम्नी मदनोन्मादिनी भुवि || ३९८ || खेचरी कामिनीनाम्नी घण्टिका क्लेदिनी ततः | शिवदूती च सुभगा भगा विद्येश्वरी ततः || ३९९ || महालक्ष्मीः कौलिनी स्यात् कामेशी कुलमालिनी | अन्या स्याद् व्यापिनीनाम्नी भगावहाभिधा ततः || ४०० || वागीश्वर्यभिधा कामा पिङ्गला भगसर्पिणी | अथ स्यात् सुन्दरीनाम्नी नीलपूर्वा पताकिनी || ४०१ || सिद्धेश्वरी ह्यमोघा च मोघा तद्रक्तमालिनी | मङ्गला भगमालिन्या रौद्री योगेश्वरीति च || ४०२ || अम्बिका स्यादट्टहासा व्योमतो व्यापिनीपदम् | वज्रेश्वरी क्षोभिणी च शाम्भवी स्यात्तथाऽणिमा || ४०३ || लोकेश्वर्यभिधा रक्ता सूक्ष्मा श्वेताऽपराजिता | सम्बर्ता विमला मोघा भैरवी घोरसंज्ञका || ४०४ || ततः सर्वाकर्षिणी च त्रिपुरान्त इमाः स्मृताः | (मातृकास्थानेष्वेतन्न्यासोपदेशः) मातृकावन्न्यसेदेतास्त्रिपुराप्रीतिहेतवे || ४०५ || _________________________________________________________________ ३९८-४०५ | अथ त्रिपुरान्यासमाह-पञ्चाशदित्यादिना त्रिपुराप्रीतिहेतवे इत्यन्तेन | पञ्चाशत्त्रिपुरास्तु कामिन्यादिसर्वाकर्षिण्यन्ताः | मातृकार्णैरकारादिक्षकारान्तैर्मातृकावर्णैर्निरुक्तास्त्रिपुरास्त्रिपुराशब्दान्ता न्यसेदिति सम्बन्धः | अत्र मातृकावन्न्यसेदेता इत्यभिधानाल्ललाटादिमातृकास्थानेष्वयं न्यासः कर्तव्य इति बोध्यम्, एवञ्च अं कामिन्यै (प्. ५२८) (चक्रन्यासः, तत्र सप्रशस्तिकन्यासप्रतिज्ञा) चक्रन्यासं प्रवक्ष्यामि सर्वोत्कृष्टं शुभप्रदम् | देहशुद्धिकरं नित्यं सिद्धिदं पापनाशनम् || ४०६ || (न्यासपरिपाटी, तत्र प्रथमावरणन्यासः) चतुरस्राद्यरेखायै नमोऽन्ते व्यापकं न्यसेत् | मायाश्रीबीजपूर्वञ्च कृत्वा साधकसत्तमः || ४०७ || दक्षांसपृष्ठपाण्यग्रे स्फिचि पादाङ्गुलीषु च | वामपादाङ्गुलिकटौ पाण्यग्रे पृष्ठ अंशके || ४०८ || अत्रैव स्थानदशकेष्वणिमाद्या न्यसेद्दश | चतुरस्रमध्यरेखां विन्यसेत् पूर्ववत् पुनः || ४०९ || _________________________________________________________________ नम इति ललाटे, आं मोदिन्यै नम इति मुखवृत्ते न्यसेत् | एवमन्येष्वपि मातृकान्यासक्रमोक्तेष्वङ्गेषु मदनादीनां सर्वाकर्षिण्यन्तानां न्यासः कर्तव्य इति ज्ञेयम् | स्पष्टमन्यत् | ४०६ | अथ फलप्रदर्शनपूर्वकं चक्रन्यासं वक्तुं प्रतिजानीते चक्रेत्यादिना | ४०७ | तत्र न्यासपरिपाटीं दर्शयति चतुरित्यादिना | माया-श्रीबीजपूर्वञ्चेत्यस्य चतुरस्रेत्यादिना अणिमाद्या इत्यादिना च सम्बन्धः | एवं दक्षांसेत्यादेरपि | तथा चामृतानन्दनाथेनापि योगिनीहृदयटीकायां चतुरस्राद्यरेखायै नम इति मन्त्रेणाऽदितो दक्षांसपृष्ठादिचूलिपृष्ठान्तस्थानेषु दशसु व्यापकत्वेन न्यासेदित्युक्तम् | एवञ्च ह्रीं श्रीं चतुरस्राद्यरेखायै नम इति व्यापकत्वेन दक्षांसादिस्थानदशके न्यसेदित्यर्थः | ४०९ | अथ निरुक्तदक्षांसादिष्वणिमादीनां न्यासमाह-अत्रैवेति | अत्रैव स्थानदशके दक्षांसादिरूपे अणिमाद्या दश न्यसेदिति सम्बन्धः | अणिमाद्यास्तु अणिमा-लघिमा- महिमेशित्व-वशित्व-प्राकाम्यभुक्तीच्छा-प्राप्ति- सर्वकामाख्यास्त्रिपुरार्चनरहस्यादिभ्योऽवगन्तव्याः | ननु दक्षांसपृष्ठेत्यादिपूर्ववचने दक्षांसपृष्ठ-दक्षपाण्यग्र-दक्षस्फिग्- दक्षपादाङ्गुलि- (प्. ५२९) वामपादाङ्गुलि-वामकटि-वामपाण्यग्र- वामांसपृष्ठरूपस्थानाष्टकमात्रलाभात् अत्रैव स्थानदशक इति कथमुपपद्यते? उच्यते | योगिनीहृदये तृतीयपटले दक्षांसपृष्ठपाण्यग्रस्फिक्वपादाङ्गुलीष्वथ | वामाङ्घ्र्यङ्गुलिषु स्फिक्वे पाण्यग्रे चांसपृष्ठके || सचूलीमूलपृष्ठेषु व्यापकत्वेन सुन्दरि | अत्रैव स्थानदशके अणिमाद्यास्तु विन्यसेत् || इत्येतद्वचनस्थसचूलीमूलपृष्ठेष्वित्यनेन शिरःपुरोभागपश्चाद्भागयोः संग्रहात् स्थानानां दशसंख्याकत्वमुपपन्नम् | त्रिपुरार्चनरहस्येऽप्येवमेव स्थानदशकनिरूपणक्रमो दृश्यते | तन्नूनं लेखकप्रमादतः शिरःपुरःपश्चाद्भागप्रतिपादकोंऽशो मूलात् प्रच्युत इति प्रतिभाति | कल्पनेयं समीचीना न वेति साभिनिवेशं विमृशन्तु सुध्हियः साधकाः | अथ प्रकृतमनुसरामः-एवञ्च ह्रीं श्रीं अणिमासिद्ध्यै नम इति दक्षांसपृष्ठे | ह्रीं श्रीं लघिमासिद्ध्यै नम इति दक्षपाण्यग्रे | एवमन्येष्वपि निरुक्तेष्वङ्गेषु यथायोगमूहनीयम् | एवं वहिस्त्रिरेखात्मकचतुरस्रस्य प्रथमरेखान्यासमभिधाय मध्यमरेखान्यासमाह-चतुरस्रेति | पूर्ववदिति व्यापकत्वेनेत्यर्थः | एवञ्च ह्रीं श्रीं चतुरस्रमध्यरेखायै नम इति देहव्यापकत्वेन पादाङ्गुष्ठादिष्वष्टसु स्थानेषु विन्यस्य तास्वेव ब्रह्माण्याद्या अष्टशक्तीः क्रमेण विन्यसेदिति बोध्यम् | ब्रह्माण्याद्याश्च ब्रह्माणी माहेश्वरी कौमारी वैष्णवी वाराहीन्द्राणि चामुण्डा महालक्ष्मीश्चेत्यष्टौ | एवञ्च ह्रीं श्रीं ब्रह्माण्यै नम इति दक्ष पादाङ्गुष्टे, ह्रीं श्रीं माहेश्वर्यै नम इति वामपादाङ्गुष्ठे इत्येवं क्रमेण पार्श्वादिष्वपि कौमार्यादीनां न्यासः कर्तव्यः | अत्रास्मदुपजीव्ये पुस्तकत्रयेऽपि चतुरस्रान्त्यरेखान्यासप्रक्रिया न दृश्यते | तदिदं लेखकप्रमादस्खलितमिति बुद्ध्या योगिनीहृदय-त्रिपुरार्चनरहस्यसंवादेनेयं प्रक्रिया यथायथं प्रदर्श्यते | यथा योगिनीहृदये तृतीयपटले न्यस्तव्याश्चतुरस्रान्त्यरेखायै नम इत्यपि | विन्यसेद् व्यापकत्वेन पूर्वोक्तान्तश्च विग्रहे | तस्याः स्थानेषु दशसु मुद्राणां दशकं न्यसेत् | ब्रह्माण्याद्यष्टस्थानान्तस्तासामष्टौ न्यसेत्ततः | शिष्टे द्वे द्वादशान्ते च पादाङ्गुष्टे च विन्यसेत् | इति | एवञ्च ह्रीं श्रीं चतुरस्रान्त्यरेखायै नम इति व्यापकत्वेन पूर्वोक्तान्तः पूर्वोक्तानां ब्रह्माण्यादिस्थानानामन्तर्न्यस्तव्या इत्यर्थः | तस्या इति | तस्या निरुक्तचतुरस्रान्त्य- (प्. ५३०) पादाङ्गुष्ठद्वये पार्श्वद्वये जानुद्वये बुधः | बहिरंसद्वये पश्चाद् ब्रह्माण्याद्याः प्रविन्यसेत् || ४१० || शिष्टे द्वे द्वादशान्ते तु पादाङ्गुष्ठे प्रविन्यसेत् | एताः सर्वास्तु योगिन्यो रक्षन्तु सर्वभूतले || ४११ || ब्रह्माण्याद्यष्टकस्थाने तासामष्टौ न्यसेद् बुधः | अनेन व्यापकं कृत्वा चक्रेशीं विन्यसेत्ततः || ४१२ || आधारे त्रिपुरां देवीं श्रीचक्रनायिकां पराम् | सर्वसंक्षोभिणीं मुद्रां तथा वै बौद्धदर्शनम् || ४१३ || ________________________________________________________________ रेखाया दशसु स्थानेषु मुद्राणां सर्वसंक्षोभिण्यादीनां दशकं न्यसेदित्यर्थः | सर्वसंक्षोभिण्यादयश्च सर्वसंक्षोभिणी-सर्वविद्राविणी-सर्वाकर्षणी-सर्ववशङ्करी- सर्वोन्मादिनी-सर्वमहाङ्कुशा-सर्वखेचरी-सर्वबीजाख्या अष्टौ सर्वयोनिः सर्वत्रिखण्डेति द्वे | मिलित्वा दश इति त्रिपुरार्चनरहस्ये | न्यासस्थानमेतासां निर्वक्ति-ब्रह्मेत्यादिना | ब्रह्माण्याद्यष्टकस्थाने दक्षांसादौ सर्वसंक्षोभिण्यादिसर्वबीजान्ता अष्टौ न्यसेदिति सम्बन्धः | शिष्टे इति | प्रागुक्तावशिष्टे द्वे सर्वयोनि-सर्वत्रिखण्डे क्रमेण द्वादशान्ते ललाटोर्द्ध्वदेशे तथा पादाङ्गुष्ठद्वये च प्रविन्यसेदित्यर्थः | एवञ्च ह्रीं श्रीं सर्वसंक्षोभिणीमुद्रायै नम इति दक्षपादाङ्गुष्ठे | ह्रीं श्रीं सर्वविद्राविणीमुद्रायै नम इति वामपादाङ्गुष्ठे, इत्येवं क्रमेणावशिष्टाः षड् वामांसावधि न्यस्य सर्वयोनिमुद्रायै नम इति ललाटोर्द्ध्वे सर्वत्रिखण्डामुद्रायै नम इति पादाङ्गुष्ठद्वये न्यसेदिति पर्यवस्यति | त्रिपुरार्चनरहस्ये तु पूर्वतो बीजयोगे क्रमान्तरं दृश्यते | निरुक्तयोगिनीहृदयवचनस्थद्वादशान्तशब्देन ललाटोर्द्ध्वदेशो बोध्यः | तदुक्तं तट्टीकाधृतश्रीस्वच्छन्दसंग्रहे षोडशान्तमिति ख्यातं व्योमस्थानेन्दुमण्डलम् | तदधःस्थानगं सूर्यबिम्बं द्वादशशक्तिकम् | द्वादशान्तमिति ख्यातं स्थितं व्योमप्रदेशकम् | इति | ४१२-४१३ | अथ चक्रेश्वर्यास्त्रिपुराया न्यासमाह चक्रेशीमित्यादिना | ततः षोडशपत्राय नमोऽन्ते व्यापकं न्यसेत् | कामाकर्षिणिकाद्याश्च विन्यसेदेषु साधकः || ४१४ || दक्षकर्णे दक्षपृष्ठे कूर्परे करपृष्ठके | दक्षोरुजानुगुल्फेषु पादतले क्रमेण तु || ४१५ || विलोमेनैषु देशेषु वामेषु च प्रविन्यसेत् | सर्वाशापूरके सृष्टिचक्रे षोडशपत्रके || ४१६ || ________________________________________________________________ तथा च ह्रीं श्रीं त्रिपुराचक्रेश्वर्ये नमः, सर्वसंक्षोभिणीमुद्रायै नमः, बौद्धदर्शनाय नम इति मूलाधारे न्यसेत् | ४१४-४१६ | अथ वृत्तान्तः षोडशदले सर्वाशापरिपूरके सृष्टिचक्रे न्यासमाह-तत इत्यादिना | तथा च, ह्रीं श्रीं षोडशदलपद्माय नम इति वक्ष्यमाणदक्षकर्णादिषु व्यापकत्वेन विन्यसेदित्यर्थः | कामाकर्षिणिकाद्याश्चेति | दक्षकर्णादिपादतलान्ते- ष्वष्टस्वङ्गेषु, विलोमेनैषु देशेष्वित्याद्यभिधानात् पादतलादिवामकर्णान्तेषु चाष्टस्वङ्गेष्विति षोडशाङ्गेषु षोडशपत्ररूपेषु कामाकर्षिणीप्रभृतयः षोडश गुप्तयोगिन्यो न्यस्तव्या इत्यर्थः | व्यक्तमाह योगिनीहृदये तृतीयपटले तदन्तः षोडशदल-पद्माय नम इत्यपि | विन्यस्य तद्दले कामाकर्षिण्याद्याश्च विन्यसेत् | दलानि दक्षिणश्रोत्रपृष्ठमंसञ्च कूर्परम् | करपृष्ठं चोरुजानुगुल्पपादतलं तथा | वामपादतलाद्येवमेतदेवाष्टकं मतम् | इति | कामाकर्षिण्याद्यास्तु कामाकर्षिणी-बुद्ध्याकर्षिण्यहङ्काराकर्षिणी-शब्दाकर्षिणी- स्पर्शाकर्षिणी-रूपा-कर्षिणी-रसा-कर्षिणी-गन्धा-कर्षिणी-चित्ताकर्षिणी-धैर्या-कर्षिणी- स्मृत्याकर्षिणी-नामाकर्षिणी-बीजाकर्षिण्यात्माकर्षिण्यमृताकर्षिणीशरीराकर्षिण्यः षोडश | एतत्प्रमाणादयस्त्वष्टादशप्रकाशे पूजाप्रकरणे वक्ष्यन्ते | तत्र च बीजद्वयस्वराद्याश्च आकर्षिण्यन्तकाः क्रमात् | नित्याकलेति च ततः सप्ताक्षर्याऽर्चयेत् क्रमात् || (प्. ५३२) एताः सर्वास्तु योगिन्यो गुप्ता रक्षन्तु भूतले | अनेन व्यापकं कृत्वा नायिकां त्रिपुरेश्वरीम् || ४१७ || सर्वविद्राविणीं मुद्रां तथा वै ब्रह्मदर्शनम् | एतत्त्रयं न्यसेल्लिङ्गे गुरुणोक्तविधानतः || ४१८ || (तृतीयावरणन्यासः) ततोऽष्टदलपद्माय नमोऽन्ते व्यापकं न्यसेत् | अनङ्गकुसुमादीनि दैवतानि न्यसेत्ततः || ४१९ || दक्षगण्डे स्तनोर्द्ध्वे च दक्षोरौ दक्षगुल्फके | वामगुल्फादिकं कृत्वा विलोमेनैषु साधकः || ४२० || _________________________________________________________________ इति तन्त्रराजचतुर्थपटलोक्तेः पूर्ववद् ह्रीं श्रीमिति बीजद्वयपूर्वकमेकैकस्वरयोगेण न्यासः कर्तव्यः | तथा च ह्रीं श्रीं अं कामाकर्षिणीनित्याकलायै नम इति दक्षकर्णे | ह्रीं श्रीं आं बुद्ध्याकर्षिणीनित्याकलायै नम इति दक्षपृष्ठे | एवं दक्षपादतलावधि गन्धाकर्षिण्यन्तः विन्यस्य पुनर्वामपादतलाद् दक्षकर्णावधि चित्तकर्षिण्याद्या अष्टौ न्यसेत् | तत्क्रमस्तु ह्रीं श्रीं ॡं चित्ताकर्षिणीनित्याकलायै नम इति वामपदतले | ह्रीं श्रीं ऌं धैर्याकर्षिणीनित्याकलायै नम इति वामगुल्फे | एवमन्येषामपि प्रयोगक्रमो बोध्यः | ४१७-४१८ | एता इति | एताः सर्वास्त्वित्यादि निरुक्तसृष्टिचक्रे व्यापकत्वेन विन्यस्य इत्यर्थः | नायिकामिति श्रीचक्रनायिकामित्यर्थः | तथा च पूर्ववद् बीजद्वयमुच्चार्य त्रिपुरेश्वरीचक्रनायिकायै नमः, सर्वविद्राविणीमुद्रायै नमः, तथा ब्रह्मदर्शनाय नम एतत्त्रयं लिङ्गे न्यसेत् | गुरुणोक्तविधानत इति | त्रिपुरार्चनरहस्य-तन्त्रसारीयपूजाप्रकरणयोस्तु चक्रनायिकाया बालाबीजपूर्वकत्वं सर्वविद्राविणीमुद्रायाश्च मायाबीजपूर्वकत्वं दृश्यते | तन्त्रसारे ब्रह्मदर्शनायेत्यत्र बौधदर्शनायेति | त्रिपुरार्चनरहस्ये त्वस्य परिग्रहो न कृतः | एवञ्चात्र नानातन्त्रेषु मतभेददर्शनात् स्वस्वगुरूपदेशानुसारेण प्रवर्तितव्यमित्येवाऽह-गुरुणोक्तविधान्त इत्यनेन | ४१९-४२० | एवं द्वितीयावरणे षोडशदले न्यासस्य प्रक्रियामभिधाय तदन्तस्तृतीयावरणेऽष्टदले न्यासस्य र्पक्रियामाह-तत इत्यादिना | अत्रापि विशेषानभिधानात् (प्. ५३३) तृतीयावरणे सृष्टिचक्रे संक्षोभकारके | एता गुप्ततराः सर्वाः पान्तु चाष्टदले स्थिताः || ४२१ || अनेन व्यापकं कृत्वा श्रीमत्त्रिपुरसुन्दरीम् | आकर्षिणीं महामुद्रां तथा वै शैवदर्शनम् | एतन्न्यासं नाभिदेशे विन्यसेत् साधकोत्तमः || ४२२ || (चतुर्थावरणन्यासः) चतुर्दशारचक्राय नमोऽन्ते व्यापकं न्यसेत् | सर्वसंक्षोभिणीत्याद्यास्तस्य कोणेषु साधकः || ४२३ || __________________________________________________________________ पूर्ववन्मायाश्रीबीजपूर्वकत्वमवगन्तव्यम् | तथाऽष्टादशप्रकाशे चक्रपूजाप्रकरणे अष्टपत्रे यजेन्मन्त्री कादिवर्गान्तकेन च इति वक्ष्यमाणत्वात् त्रिपुरार्चनरहस्यकारैरपि तथैव न्यासप्रयोगस्याभिधानाच्च वर्गाद्यवर्णपूर्वकमनङ्गकुसुमादीनामष्टानां न्यासः कर्तव्य इति तत्त्वम् | तथा च ह्रीं श्रीं अष्टदलपद्माय नम इति व्यापकत्वेन विन्यसेदित्यर्थः | त्रिपुरार्चनरहस्येऽपि ततोऽनङ्गकुसुमादिस्थानेषु अष्टदलपद्मचक्राय नम इति संव्याप्येत्युक्तम् | अनङ्गेति | ततो दक्षगण्डादिदक्षगुल्फान्ते स्थानचतुष्टये तथा विलोमेन वामगुल्फादिवामगण्डान्ते स्थानचतुष्टये क्रमेणानन्गकुसुमाद्या अष्टौ न्यसेदिति सम्बन्धः | अनङ्गकुसुमाद्याश्च अनङ्गकुसुमानङ्गमेखलानङ्गमदनानन्गमदनातुरानङ्गरेखानङ्गवेगिन्यनङ्गाङ्कुशा नङ्गमालिन्यः | प्रमाणादयस्तु अष्टादशे वक्ष्यन्ते | तथा च ह्रीं श्रीं कं अनङ्गकुसुमायै नम इति दक्षगण्डे | इत्यादिक्रमेण दक्षगुल्फावधि विन्यस्य पुनर्विलोमेन ह्रीं श्रीं पं अनङ्गरेखायै नम इत्यादिक्रमेण वामगुल्फतो वामगण्डावधि अनङ्गमालिन्यन्ता विन्यसेदिति फलितम् | शिष्टं सुगमम् | ४२२ | अनेनेति तृतीयावरण इत्यादिनेत्यर्थः | त्रिपुरार्चनरहस्ये तु एता गुप्ततरयोगिन्यः सर्वसंक्षोभणे चक्रे समुद्रा इति चतुष्टयं हृदये विन्यस्येत्युक्तम् | श्रीमदिति | श्रीमत्त्रिपुरसुन्दर्यै नमः सर्वाकर्षिण्यै नमः शैवदर्शनाय नम इति च नाभिदेशे न्यसेदिति फलितम् | ४२३-४२५ | अथाष्टदलान्तश्चतुर्दशरचक्रप्रक्रियां निरूपयति चतुर्दशेत्यादिना | अत्रापि पूर्ववन्मायाश्रीबीजपूर्वकं कादिढान्ताक्षर-योजनया विन्यसेत् | तथा च चतुर्दशार- (प्. ५३४) ललाटदक्षिणे भागे गण्डांस-पृष्टकेषु च | पार्श्वान्तरूरुजङ्घासु दक्षावर्तेन विन्यसेत् || ४२४ || विलोमेनैषु देशेषु पृष्ठे पश्चादि यान् क्रमः | चक्रे सत्सम्प्रदायिन्यः पान्तु कोणे चतुर्दशे || ४२५ || अनेन व्यापकं कृत्वा त्रिपुरावासिनीं बुधः | वश्यमुद्रां तथा सूर्यदर्शनं हृदये न्यसेत् || ४२६ || _________________________________________________________________ चक्रायेति संव्याप्य ललाटदक्षिणभागादिदक्षजङ्घान्तेषु सप्तस्थानेषु सर्वसंक्षोबिण्याद्याः सप्त विन्यस्य, पुनर्विलोमक्रमेण वामजङ्घादिललाटवामभागान्तेषु पृष्ठवर्जं विन्यस्य पश्चादिति सर्वावसाने पृष्टे योगिनीमन्त्यां विन्यसेदित्यर्थः | योगिनीहृदये तृतीयपटले तु ललाटं दक्षभाञ्च दक्षगण्डांसमध्यतः | पार्श्वान्तरुरुजङ्घान्तर्वामजङ्घादि पार्वति || वामोर्वन्तं वामपार्श्वं वामांसं वामगण्डकम् | ललाटवाममध्ये च तथ वै पृष्ठमित्यपि || इति वचने दक्षपृष्ठे न्यासमनभिधाय ललाट-ललाटदक्षभागभेदेन दक्षाशे स्थानसप्तकमुक्तम् | अत्र तु दक्षपृष्ठोपादानात् ललाटदक्षभाग एव न्यासो न तु ललाटमध्यदेशेऽपीति पूर्णानन्दानामाशयः प्रतिभातीति ध्येयम् | अत्र पृष्ठशब्दः शिरःपृष्ठबोधकः | तदुक्तममृतानन्दनाथेन योगिनीहृदयटीकायाम्-पृष्ठमिति शिरसः पृष्ठमिति ज्ञेयम् इति | सर्वसंक्षिभिण्याद्यास्तु-सर्वसंक्षोभिणी-सर्वविद्राविणी-सर्वाकर्षिणी-सर्वाह्लादिनी- सर्वसम्मोहिनी-सर्वस्तम्भिनी-सर्वजृम्भिणी-सर्ववशङ्करी-सर्वरञ्जनी-सर्वोन्मादिनी- सर्वार्थसाधिनी-सर्वसम्पत्तिपूरणी-सर्वमन्त्रमयी-सर्वद्वन्द्वक्षयङ्कर्यश्चतुर्दश | विशेषोऽष्टादशे द्रष्टव्यः | एवञ्च ह्रीं श्री/ कं सर्वसंक्षोभिणीशक्त्यै नम इति दक्षललाटे, ह्रीं श्री/ खं सर्वविद्राविण्यै नम इत् दक्षगण्डे इत्येवं क्रमेण न्यस्य पुनः ह्रीं श्रीं जं सर्ववशङ्कर्यै नम इत्यादिक्रमेण वामजङ्घादिषु ललाट-दक्षभान्तेषु न्यसेदिति फलितम् | ४२५-४२६ | ततः करणीयमाह-चक्र इत्यादिना | एवञ्च, चक्रे सत्- (प्. ५३५) (पञ्चमावरणन्यासः) बहिर्दशारचक्राय नमोऽन्ते व्यापकं चरेत् | दक्षाक्षिनासिकामूलनेत्रेषुदरदक्षिणे || ४२७ || वायुकोणे जानुयुग्मे गुह्यदेशे न्यसेदपि | वामकुक्षौ निर्-ऋतौ च सर्वसिद्ध्यादिदेवताम् || ४२८ || ________________________________________________________________ सम्परदायिन्य इत्यादिव्यापकत्वेन विन्यस्य हृदये प्रथमं त्रिपुरावासिनीं चक्रेश्वरीं ततो वश्यमुद्रां ततः सूर्यदर्शनञ्च विन्यसेदित्यर्थः | ४२७-४२८ | श्रीयन्त्रे चतुर्दशारचक्रान्तर्दशकोणं चक्रद्वयं भवति | तयोर्वहिःस्थितं बहिर्दशारं तदन्तःस्थितञ्चान्तर्दशारमिति ज्ञेयम् | तत्र प्रथमं बहिर्दशारचक्रे सर्वार्थसाधकाख्ये न्यासस्य प्रक्रियामाह-बहिरित्यादिना | अत्रापि पूर्ववन्माया श्रीबीजानन्तरं णादिभान्ताक्षरं दत्त्वेति पूजाक्रमे वक्ष्यमाणत्वात् णकारादिभकारान्तमेकैकं वर्णमादौ योजयित्वा सर्वसिद्धिप्रदादिदशकुलकौलिकयोगिनीर्न्यसेत् | न्यासस्य स्थापनान्याह-दक्षाक्षीत्यादिना | अत्रामृतानन्दनाथो योगिनीहृदयटीकायामाह- बाहुद्वयमारभ्योरुद्वयपर्यन्तं कुक्षिशब्देन लक्ष्यते | तेन कुक्षेरुपरिभागः प्राची, अधोभागः प्रतीचीदक्षिणवामपार्श्वे दक्षिणोदीच्यौ | कोणशब्देन बाहु ऊरू च लभ्येते | तेन वामबाहुमूलमीशकोणो वामोरुमूलं वायुकोणो दक्षिणोरुमूलम्, नैर्-ऋतकोणो दक्षिणबाहुमूलमग्निकोण इति | एवञ्चात्र वायुकोण इत्यनेन वामोरुमूलम्, नैर्-ऋत इत्यनेन च दक्षिणोरुमूलम् इत्यवगम्यते | तथा च दक्षचक्षुषि, नासिकामूले वामचक्षुषि ततश्चोदरदक्षिणे दक्षकुक्षावित्यर्थः, ततो वामोरुमूले दक्षजानुनि वामजानुनि गुह्यदेशे वामकुक्षौ दक्षिणोरुमूले च स्थानदशके क्रमेण सर्वसिद्ध्यादिदेवता न्यसेदिति फलितार्थः | सर्वसिद्ध्यादयश्च-सर्वसिद्धिप्रदा-सर्वसम्पत्प्रदा-सर्वप्रियङ्करी-सर्वमङ्गलकारिणी- सर्वकामप्रदा-सर्वदु.खमोचिनी-सर्वमृत्युप्रशमनी-सर्वविघ्नविनाशिनी-सर्वाङ्गसुन्दरी- सर्वसौभाग्यदायिन्योऽष्टादशप्रकाशे वक्ष्यमाणाः | एवञ्च ह्रीं श्रीं णं सर्वसिधिप्रदायै नम इति दक्षचक्षुषि, ह्रीं श्रीं तं सर्वसम्पत्प्रदायै नम इति नासिकामूले एवं क्रमेणान्येष्वपि निरुक्तेष्वङ्गेषु न्यसेदिति फलितम् | (प्. ४३६) सर्वार्थ साधके चक्रे पञ्चमावरणे स्थिताः | चक्रे मां कुलयोगिन्यो रक्षन्तु दश देवताः | ४२९ || अनेन व्यापकं कृत्वा त्रिपुराश्रियमप्यथ | उन्मादिनीं वैष्णवञ्च दर्श्नं गलकूपके || ४३० || (षष्ठावाणन्यासः) अन्तर्दशरचक्राय नमोऽन्ते व्यापकं चरेत् | सर्वज्ञाद्यास्ततोमन्त्री न्यसेदेषु समाहितः || ४३१ || नासायामथ सृक्कण्यां तले वै वृषणे गुदे | ततो वामक्रमेणैव वृषणे विन्यसेत् स्तने || ४३२ || _________________________________________________________________ ४२९-४३० | ततः करणीयमाह-सर्वार्थेत्यादिना | तथा च सर्वार्थेत्यादि व्यापकत्वेन विन्यस्य त्रिपुराश्रियंचक्रेश्वरीम् उन्मादिनीं वैष्णवदर्ऽसनञ्च गलकूपे न्यसेदित्यर्थः | इति पञ्चमावरणन्यासः | ४३१ | एवं बहिर्दशारचक्रन्यासमभिधायान्तर्दशारचक्रन्यासक्रममाह- अन्तरित्यादिअन | अत्रापि पूर्ववन्मायाश्रीबीजयोगः कर्तव्यः | एवञ्च ह्रीं श्रीं अन्तर्दशरचक्राय नम इति कोणदशकव्यापकत्वेन विन्यसेदित्यर्थः | तत इति | मन्त्री मन्तरहस्यज्ञः समाहितः सन् सर्वज्ञाद्या दश एषु वक्षमाणस्थानेषु विन्यसेत् | सर्वज्ञाद्यास्तु-सर्वज्ञा-सर्वशक्ति-सर्वेश्वर्यप्रदायिनी-सर्वज्ञानमयी-सर्वव्याधिविनाशिनी- सर्वाधारस्वरूपा-सर्वपापहरा-सर्वानन्दमयी-सर्वरक्षास्वरूपिणी-सर्वेप्सितफलप्रदाख्या वक्ष्यमाणाः | ४३२ | पूर्ववचने न्यसेदेषु समाहित इत्यौक्तम्, तानि न्यासस्थानानि निरूपयति नासायामित्यादिना | वामक्रमेणैवेति | प्रथमं नासादिगुदान्तेषु सर्वज्ञाद्याः सर्वव्याधिविनाशिन्यन्ताः पञ्च दक्षक्रमेण विन्यस्य पुनः सर्वाधारस्वरूपादिसर्वेप्सितफलप्रदान्ताः पञ्च वामवृषणादिनेत्रान्तेषु विन्यसेदिति फलितम् | योगिनीहृदये तृतीयपटले तु (प्. ५३७) सृक्कण्यां नासिकायाञ्च नयने साधकोत्तमः | पान्तु नो दशकोणे ताः सर्वरक्षाकरे स्थिताः || ४३३ || चक्रे निगर्भयोगिन्यः षष्ठकावरणे स्थिताः | अनेन व्यापकं कृत्वा त्रिपुरामालिनीं तथा || ४३४ || महाङ्कुशां महामुद्रां जिनदर्शनमेव च | एतत्त्रयं भ्रुवोर्मध्ये विन्यसेत् साधकोत्तमः || ४३५ || (सप्तमावरणन्यासः) अथाष्टारचक्राय नमोऽन्तं व्यापकं न्यसेत् | वशिन्याद्यष्ट वाग्देवीरेषु स्थानेषु विन्यसेत् || ४३६ || _________________________________________________________________ दक्षनासा सृक्किणी च स्तनं वृषणमेव च | सांविनी वाममुष्कञ्च स्तनं सृक्किणि नासिके | नासाग्रञ्चैव विज्ञेयं कोणानां दशकं तथा || इत्यनेन नयनस्य निरुक्तन्यासयोन्याङ्गत्वेन ग्रहणमकृत्वा तत्र नासाग्रे न्यासोऽभिहितः | एवमेव त्रिपुरार्चनरहस्येऽपि | एवञ्चात्रागमभेदेन न्यासस्य क्रमभेदो वर्तत इति बोध्यम् | अत्राष्टादशप्रकाशेमादिक्षान्ताक्षरैर्यजेदिति वक्ष्यमाणत्वात् मायाश्रीबीजानन्तरं मकारादिक्षकारान्तैकैकाक्षरयोगेण न्यासः कर्तव्य इति बोध्यम् | एवञ्च ह्रीं श्रीं गं सर्वज्ञायै नम इति दक्षनासायाम्, ह्रीं श्रीं यं सर्वशक्त्यै नम इति वामनासायाम् | एवंक्रमेण सृक्कण्यादिष्वपि न्यासः कर्तव्यः | ततश्च ह्रीं श्रीं शं सर्वाधारस्वरूपायै नम इत्यादिक्रमेण वामवृषणादिषु विन्यसेदिति बोध्यम् | ४३३-४३५ | पान्त्वित्यादि | ततश्च पान्तु नो दशकोणे ता इत्यादिना संव्याप्य प्रथमं प्रागुक्तक्रमेण चक्रेश्वरीं त्रिपुरामालिनीं ततश्च महाङ्कुशमहामुद्रां जिनदर्शनञ्च भ्रूमध्ये न्यसेदिति षष्ठावरणन्यासः | ४३६-४३७ | अथ निरुक्तान्तर्दशारचक्रान्तरष्टारचक्रन्यासमाह-अथेति | तथाच ह्रीं श्रीं अष्टारचक्राय नम इति व्यापकत्वेन विन्यस्य वशिन्याद्या अष्टौ वाग्देवता एषु (प्. ५३८) चिबुके दक्षिणे कण्ठे हृदये नाभिदेशतः | विलोमेनैषु देशेषु वामेषु विधिनाऽमुना || ४३७ || एता रहस्ययोगिन्यः पान्तु कोण्.आष्टके सदा | अनेन व्यापकं कृत्वा त्रिपुरां सिद्धिनायैकाम् || ४३८ || खेचर्याख्यां महामुद्रां शक्तिदर्शनमप्यथ | एतत्त्रयं ललाटे तु विन्यसेत् साधकाग्रणीः || ४३९ || (अष्टमावरणन्यासः) ततस्त्र्यस्त्राय चक्राय नमोऽन्तं व्यापकं न्यसेत् | हृदयस्थत्रिकोणस्य चतुर्दिक्षु बहिःक्रमात् || ४४० || जम्भनादिपञ्चबाणं मोहनं धनुषस्ततः | वशीकरणपाशञ्च स्तम्भनाङ्कुशमेव च || ४४१ || ________________________________________________________________ वक्ष्यमाणेषु स्थानेषु प्रविन्यसेदिति सम्बन्धः | तानि स्थानान्याह-चिबुक इत्यादिना | विधिनाऽमुनेति वशिन्यादिन्यासक्रमोक्तविधिनेत्यर्थः | आदौ चिबुकादिनाभ्यन्तस्थानचतुष्टये दक्षभागे वशिन्यादिचतुष्कं विन्यस्य पुनर्विलोमेन नाभ्यादिचिबुकान्तवामांऽसेषु अरुणादिचतुष्कं विन्यसेत् | न्यासस्तु ह्रीं श्रीमिति बीजद्वयपूर्वकं प्रागुक्तवशिन्यादिन्यासक्रमानुसारेणैव कर्तव्य इत्यलमत्र विस्तरतस्तत्प्रदर्शनेन | तद्दिङ्मात्रं प्रदर्श्यते-ह्रीं श्रीं ततः अं इत्यतः अः इत्यन्तं ततो ब्लुं वशिनीवाग्देवतायै नम इति वामचिबुके | एवमन्यत्राप्यूह्यम् | ४३८-३४९ | ततः करणीयमाह-एता इत्यादिना | तथा च एता रहस्ययोगिन्य इत्यादि व्यापकत्वेन विन्यस्य निरुक्तबीजपूर्वकं त्रिपुरासिद्धाचक्रेश्वर्यै नमः, खेचरीमुद्रायै नमः, शक्तिदर्शनाय नम इत्येतत्त्रयं ललाटे न्यसेदिति फलितम् | इति सप्तमावरणन्यासः | ४४०-४४१ | अथाष्टारचक्रान्तस्त्रस्रचक्रन्यासं प्रदर्श्यति तत इत्यादिना | अत्रापि पूर्ववद् बीजयोगो बोध्यः | तथा च त्र्यस्राय चक्राय नमः इति व्यापकत्वेन (प्. ५३९) षडङ्गयुवती तेषु न्यस्तव्या चाङ्ग्रूपिणी | कामपीठञ्चाग्रकोण् जालन्धरन्तु दक्षिणे || ४४२ || पूर्णपीठं तथा वामे वह्न्यर्कसोमसंज्ञके | कोणत्रये च कामेशीं वज्रेशीं भगमालिनीम् || ४४३ || एताः परातिरहस्ययोगिन्यः सर्वसिद्धिदाः | पदे त्रिकोणनिलये चक्रे पदं समुद्धरेत् || श्रीदेव्यः पूजिताः सन्तु व्यापकत्वेन विन्यसेत् || ४४४ || त्रिपुराम्बिकाञ्च चक्रेशीं मुद्रां बीजाभिधां तथा | शाक्तन्तु दर्शनं मन्त्री ललाटे क्रमतो न्यसेत् || ४४५ || (नवमावरणन्यासः) ततो बैन्दवचक्राय नमोऽन्ते व्यापकं न्यसेत् | अतः परं ब्रह्मरूपां श्रीमत्त्रिपुरसुन्दरीम् || ४४६ || _________________________________________________________________ विन्यसेदित्यर्थः | त्रिपुरार्चनरहस्ये तु सान्तरालत्रिकोणचक्राय नम इति प्रयोगो दृश्यते | न्यासपरिपाटीं स्थाननिरूपणपुरःसरमाह-हृदयस्थेत्यादिना | अनाहताख्यहृत्पुण्डरीककर्णिकाभ्यन्तरीणत्रिकोणस्य बहिश्चतुर्दिक्षु क्रमेण जम्भनादिपञ्चबाणं सम्मोहनं धनुः वशीकरणपाशं स्तम्भनमङ्कुशञ्च न्यसेदिति सम्बन्धः | अत्र ज्ञानार्णवे षोडशपटले पञ्चबाणान् समुच्चार्य कामकामेश्वरीमयान् | जम्भनाख्यान् महेशानि पूजयेद् बाणदेवताम् || इत्यभिधानात् कामेश्वरबाणैः कामेश्वरीबाणैश्च न्यासः कर्तव्य इति ध्येयम् | अत एव त्रिपुरार्चनरहस्ये ब्रह्मानन्दपादैः द्रां द्रीं ब्लूं सः यां रां लां वां शां जम्भनेभ्यः कामेश्वरकामेश्वरीबाणेभ्यो नम इत्यादिरूपः प्रयोगक्रमः प्रदर्शितः | पञ्चबाणमन्त्रपूर्वकन्यासक्रमस्तु आयुधन्यासावसरे विशेषतः प्रदर्शित इति नात्र पुनरुच्यते | शिष्टं स्पष्टम् | ४४६-४४८ | अथ त्रिकोणान्तः सर्वानन्दमयबैन्दवचक्रन्यासव्यवस्थामाह तत (प्. ५४०) सर्वानन्दमये चक्रे त्रिकोणे नयनसंज्ञके | श्रीदेव्यः पूजिताः सन्तु परापररहस्यगाः || ४४७ || अनेन व्यापकं कृत्वा चक्रेशीं भैरवीं न्यसेत् | शिरः कण्ठं मुखं श्रोत्रं नेत्रं नासां भुजद्वयम् || ४४८ || हृदि गुह्यं तथा पृष्ठं नाभिञ्च जठरं ततः | गुह्यं पादञ्च गुल्फञ्च देव्याः पञ्चदशाक्षरम् || ४४९ || एवं न्यस्तशरीरः सन् भाषा पञ्चतमं न्यसेत् | पञ्चकूटं समुच्चार्य पञ्चमीं त्रिपुरेश्वरीम् || ४५० || सौभाग्यां वा तथा लोपां पञ्चविंशाक्षरीं तथा | षडाम्नायप्रभेदेन शाक्तं शम्भवमेव वा || ४५१ || _________________________________________________________________ इत्यादिना | परंबिन्दुरूपश्रीमत्त्रिपुरसुन्दर्यधिष्ठितात्वादस्य बैन्दवचक्रत्वम् | तथा च बैन्दवचक्राय नम इति व्यापकत्वेन विन्यस्य श्रीमत्त्रिपुरसुन्दरीञ्च सर्वानन्दमये चक्रे विन्यस्य श्रीदेव्य इत्यादि व्यापकत्वेन विन्यसेदिति फलितम् | चक्रेशीमिति | त्रिपुरभैरवीचक्रेश्वर्यै नम इति निरुक्तचक्रे न्यसेदित्यर्थः | त्रिपुरार्चनरहस्ये तु बैन्दवचक्राय नम इत्यनन्तरं मूलपूर्वकं श्रीमहात्रिपुरसुन्दर्यै नम इति विन्यस्य मूलमुच्चार्य त्रिपुरभैरवीचक्रेश्वर्यै नम इत्यादि न्यसेदिति क्रमो दृश्यते | शिर इति | श्रीमत्त्रिपुरसुन्दरीदेव्याः पञ्चदशाक्षरमन्त्रस्यैकैकमक्षरं शिर आदिषु पञ्चदशस्थानेषु न्यसेदित्यर्थः | ४५०-४५१ | पञ्चकूटमिति पूर्वोपदर्शितमित्यर्थः | पञ्चविंशत्यक्षरीं पञ्चकूटात्मिकां त्रिपुरेश्वरीं त्रिकूटात्मिकां सौभाग्यां लोपामुद्रां वा न्यसेदिति सम्बन्धः | षडाम्नायेति | पूर्वं षडाम्नायभेदेन शाक्तशाम्भवभेदेन च ये विद्याभेदाः प्रदर्शितास्तेषु पञ्चविंऽसत्यक्षरविद्ययाऽयं न्यासः कर्तव्य इत्यर्थः | (प्. ५४१) गणपतिं मूर्ध्नि देशे वटुकं कर्णयोर्न्यसेत् | क्षेत्रपालन्तु हृदये योगिनीं विन्यसेद् गुदे || ४५२ || निर्माल्यवासिनीं वक्त्रं बिन्दौ च शेषिकां न्यसेत् | योनिमुद्रां मूर्ध्नि देशे परां शक्तिञ्च विन्यसेत् || ४५३ || (श्रीचक्रन्यासोपसंहारः) श्रीचक्रन्यास उद्दिष्टस्त्रैलोक्ये चातिदुर्लभः | (न्यासस्यास्य रहस्यत्वम्) यस्मै कस्मै न दातव्यो न दातव्यः कदाचन || ४५४ || (व्यापकन्यासः) पञ्चधा सप्तधा वाऽपि नवधा वा.पि साधकः | मूलेन व्यापकं कृत्वा स्वयं श्रीत्रिपुरा भवेत् || ४५५ || इति श्रीपूर्णानन्दपरमहंसविरचिते श्रीतत्त्वचिन्तामणौ पञ्चदशः प्रकाशः || १५ || ________________________________________________________________ ४५२-४५३ | अथ मूर्द्धादिषु गणपत्यादीनां न्यासमुपदिशति-गणपतिमित्यादिना | स्पष्टम् | ########### END OF FILE #######